“प्राचीनशाल औपमन्यवः” इत्यारभ्य वैश्वानरविद्याऽऽम्नाता; तत्र वैश्वानरः परमात्मा त्रैलोक्यशरीर उपास्यः श्रुतः स्वार्लेकादित्वावय्वाकाशाप्पृथिव्यवयवः । तत्र च द्यौर्मूर्द्धा आदित्यश्चक्षु
र्वायुः प्राणः आकाशः सन्देहो मध्यकाय इत्यर्थः, आपो वस्तिः पृथिवी पादावित्यवयवविशेषाः; तत्र संशयः- किमस्य त्रैलोक्यशरीरस्य व्यस्तस्योपासनं कर्त्तव्यम्? उत व्यस्तस्य समस्तस्य च? अथ समस्तस्यैवेति । किं युक्तम्, व्यस्तस्येति । कुतः? उपक्रमे व्यस्तोपसनोपदेशात् । तथा ह्युपदिश्यते- “औपमन्यवादयः किलोद्दालकषष्ठाः केकयमश्वपतिमुपसद्यात्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो व्रूहि” इति पप्रच्छुः । स च तेभ्यः प्रत्येकं स्वोपास्यान् द्युप्रभृतीनुक्तवद्गयो मूद्धादिषु व्यस्तेषूपासनं तत्र तत्र फलं चोक्तवान् “अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्च्चसकुले य एतमेवमात्मानं वैश्वारनमुपास्ते मूर्द्धा त्वेष आत्मन इति एष वै सुतेजा आत्मा वैश्वानरः” इत्यादिना । तेषु तेषूपासनेषूपास्यस्य वैश्वानरत्वं चाह । अतो व्यस्तस्यैवोपासं कत्तर्व्यम् । परत्र “यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते” इति । द्वयुप्रभृतिप्रदोवच्छिन्नमात्रे वैश्वानरे उक्तस्य मूर्द्धाद्युपासनस्य समासेनोपसंहार इत्यवगन्तव्यम् । अपर आह- एवमेव समस्तस्याप्युपासनं कार्यमिति, पृथक् फलनिर्देशात् “यस्त्वेतमेवं प्रादेशमात्रमभिविमानं वैश्वानरमुपास्ते सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति” इति । न चैतावता वाक्यभेदः यथा भूमविद्योपक्रमे नामाद्युपासनं तत्फलं चाभि
धाय “एष तु वा अतिवदिति यः सत्येनातिवदति” इत्यादिना भूमविद्यामुपद्विश्य " स स्वराड् भवति तस्य सर्वेषु लोकेषु कामचारो भवति" इति तत्फलं च व्यपदिशति । तत्र भूमविद्यापरत्वेऽपि वाक्यस्य नामाद्यवान्तरोपासनं तत्फलं चाङ्गीक्रियते; तथेहापीति ।
एवं प्राप्तेऽभिधीयते- भूम्नः ज्यायस्त्वमिति । भूम्नो विपुलस्य समस्तस्यैव, ज्यायस्त्वं- प्रामाणिकत्वमित्यर्थः, एकवाक्यत्वावगतेः । तथा हि “प्राजीनशाल औपमन्यवः” इत्युपक्रम्य “उद्दालको ह वै भगवन्तोऽयमारुणिः सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छामः” इति वैश्वानरात्मबुभुत्सयौपमन्यवादयः पञ्च महर्षयः तमुहालकमुपेत्य तत्र वैश्वानरात्मवेदनमलभमानास्तेन च सहाश्वपतिं केकयं वैश्वानरात्मवेदिनमुपसङ्गम्य “आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो व्रूहि” इति पृष्ट्वा तत्सकाशात्परमात्मानं वैश्वानरं स्वलोकादिपृथिव्यन्तशरीरमुपास्यमवगम्य तत्फलं च सर्वलोकसर्वंभूतसर्वात्मान्नभूतब्रह्मानुभवमवगतवन्त इत्युपसंहारतो वाक्यस्यैकत्वमवगम्यते । एवमेकवाक्यत्वेऽवगते सत्यवयवविशेषेषूपास्तिवचनं फलनिर्देशश्च समस्तोपासनेैकदेशानुवादमात्रमिति निश्चीयते । क्रतुवत् - यथा “वैश्वानरं द्वादशकपालं निर्वषेत् पुत्रे जाते” इति विहितस्यैव क्रतोरेकदेशाः “यदष्टाकपालो भवति” इत्यादिभिरनूद्यन्ते; तथा समस्तोपासनमेव न्याय्यं न व्यस्तोपासनम् । तथा हि दर्शयतीयं श्रुतिः व्यस्तोपासनेऽनर्थं व्रुवती “मूर्द्धा ते व्यपतिष्यद्यन्मां नागमिष्यः” इति “अन्धोऽभविष्यो यन्मां नागमिष्यः” इत्यादिका । अत इदमप्यपास्तम्, यन्नामाद्युपासनसाम्यमुक्तम्, तत्र हि नामाद्युपासनेष्वनर्थो न श्रुतः, नामाद्युपासनेभ्यो भूमोपासनस्यातिशयितफलत्वं श्रुतम्
“एष तु वा अतिवदति यः सत्येनातिवदति"इति । तत एव तत्र भूमविद्यापरत्व्रेपि वाक्यस्य नामाद्युपासनानां सफलानां विवक्षितत्वम्, अन्यथाऽतिशयितफलत्वनिमित्तानिवादेन भूमविद्यास्तुत्यनुपपत्तेः । अतः समस्तोपासनमेव न्याय्यम् ॥ 55 ॥
॥ भूमज्यायस्त्वाधिकरणं समाप्तम् ॥