34 पूर्वविकल्पाधिकरणम्

वाजसनेयकेऽग्निरहस्ये मनश्चिदादयोऽग्नयः श्रूयन्ते “मनश्चितो वाक्चितः प्राणचितश्चक्षश्चितः श्रोत्रचितः कर्मचितोऽग्निचितः” इति । तत्र संशयः- किमेते मनश्चिदादयः साम्पादिकत्वेन विद्यारूपा अग्नयः क्रियामयक्रत्वनुप्रवेशेन क्रियारूपाः? आहोस्विद्विद्यामयक्रत्वनुप्रवेशेन विद्यारूपा एवेति विशये क्रियारूपत्वं तावदाह । पूर्वविकल्पः- इत्यादिना । चित्याग्नित्वेन सम्पादितानामेषां मनश्चिदादीनां क्रत्वनुप्रवे

शसाकाङ्क्षाणां स्वदेशे क्रतुविंध्यभावात् पूर्वत्र “असद्वा इादमग्र आसीत्” इत्यादिनेष्टकचितस्याग्नेः प्रकृतत्वात् तस्य च क्रियामयक्रत्वव्यभिचारित्वेन तत्र क्रतुसन्निधानात् तत्प्रकरणगृहीता मनश्चिदादः तेनेष्टकचितेनाग्निना विकल्प्यमानाः क्रियारूपा एव स्युः । विद्यारूपाणापि क्रियामयक्रत्वनुप्रवेशेन क्रियारूपत्वं मानसग्रहवदुपपद्यते; यथा द्वादशाहे अविवाक्ये दशमेऽहनि मानसग्रहस्य मनोनिष्पास्यग्रहणासादनस्तोत्रशस्त्रप्रत्याहारणभक्षणत्वेन विद्यारूपस्यापि क्रियामयक्रत्वङ्गतया क्रियारूपत्वम्, तथेहापि ॥ 44 ॥

इतश्चेष्टकचितेनाग्निना मनश्चिदादीनां विकल्पः क्रियारूपत्वं चावगम्यत, “तेषामेकैक एव तावान् यावानसौ पूर्वः” इति पूर्वस्येष्यकचितस्याग्नेर्वीर्यं मनश्चिदादिष्वतिदिश्यते; तेन तुल्यकार्यत्वाद्विकल्पः, ततश्चेष्टकचितवत्तत्क्रतुनिवर्र्तनेन तदङ्गभूता मनश्चिदादयः क्रियामयक्रत्वनुप्रवेशेन क्रियारूपा एवेति । एवं प्राप्ते प्रचक्ष्महे- ॥ 45 ॥

तुशब्दः पक्षं व्यावर्त्तयति; यदुक्तं मनश्चिदादयः क्रियामयक्रत्वनुप्रवेशेन क्रियामया एवेति; नैतदस्ति, विद्यारूपा एवैते विद्यारूपक्रत्वन्वयिना इत्यर्थः । कुतः निर्धारणाद्दशर्नाच्च, निर्धारणं तावत् “ते हैते विद्याचित एव विद्याया हैवैत एवंविदश्चिता भवन्ति” इति वाह्मनश्चक्षुरादिव्यापाराणाम् इष्टकादिवच्चयनानुपपत्तेर्मनसासम्पादिताग्नित्वेन

विद्यारूपत्वे सिद्धेऽपि “विद्याचित एव” “विद्यया हैवैते” इति चावधारणं विद्यामयक्रत्वन्वयेन विद्यारूपत्वज्ञापनार्थमिति निश्चीयते । दृश्यते चात्रैषां शेषी विद्यारूपः क्रतुः “ते मनसैवाधीयन्त मनसैवाचीयन्त मनसैषु ग्रहा अगृह्यन्त मनसाऽस्तुवन्त मनसाऽशंसन् यत्किञ्च यज्ञे कर्म क्रियते यत्किञ्च यज्ञीयं कर्म मनसैव तेषु मनोमयेषु मनश्चित्सुमनोमयमक्रियत” इति । इष्टकचितेष्वग्निषु यत्क्रियामयं यज्ञीयं कर्म क्रियते, तन्मनोनिर्वर्त्येषु मनश्चिदाद्यग्निषु मनोमयमेवाक्रियतेति वचनात् क्रतुरपि विद्यामयोऽत्र प्रतीयते ॥ 46 ॥

नन्वत्र विधिपदाश्रवणात् फलसम्बन्धाप्रतीतेश्चेष्टकचिताग्न्युपस्थापितक्रियामयक्रतुप्रकरणाद्विद्यामयक्रत्वन्वयेन विद्यारूपतैषां बाध्येत, नेत्याह -

श्रुतिलिङ्गवाक्यानां प्रकरणाद्वलीयस्त्वेन श्रुत्याद्यवगतः क्रतुरेषां तदन्वयश्च दुर्बलेन प्रकरणेन बाधितुं न शक्यते, श्रुतिस्तावत् “ते हैते विद्याचित एव” इति, तां विवृणोति “विद्यया हैवैत एवंविदश्चिता भवन्ति” इति । विद्ययाविद्यामयेन क्रतुना सम्बद्धा मनश्चिदादयश्चिता भवन्तीत्यर्थः । “तान् हैतानेवंविदे सर्वदा सर्वाणि भूतानि विचिन्वन्त्यपि स्वपते” इति लिङ्गम् । वाक्यं च “एवंविदे चिन्वन्ति” इति । समभिव्याहारो वाक्यम् । एवंविदे विद्यामयक्रतुमते सर्वदा सर्वणि भूतानि विचिन्वन्तीत्यर्थः । सर्वभूतकर्तृकं सर्वकालव्यापि चयनं मनसा सम्पादितं परिमितकर्तृकालक्रियामयेष्यकचितकार्यद्वारेण क्रत्वनुप्रवेशसम्भवमलभमानं विद्यामयक्रत्वनुप्रवेशे लिङ्गं भवति ॥ 47 ॥

यच्चेदमुक्तं- विधिप्रत्ययाश्रवणात् फलसम्बन्धाप्रतीतेश्च क्रियामयात्क्रतोरन्योऽत्र विद्यामयः क्रतुर्न सम्भवति इति, तत्राह-

इष्टकचितान्वयिनः क्रियामयात्कतोर्विद्यामयृोयं क्रतुः पृथक्तवेनानुबन्धादिभ्यः पृथक्तवहेतुभ्योऽवगम्यते । अनुबन्धाः यज्ञानुबन्धिनो ग्रहस्तोत्रशस्त्रादयः “मनसैषु ग्रहा अग्रह्यन्त मनसाऽस्तुवन्तमनसाऽशंसन्” इत्यादिना प्रतिपादिताः । आदिाब्देन श्रुत्यादयः पूर्वोक्ता गृह्यन्ते, श्रुतिलिङ्गादिभिः सानुबन्धैर्विद्यामयः क्रतुः पृथगवगम्यत इत्यर्थः । प्रज्ञान्तरपृथक्त्ववत्- यथा प्रज्ञान्तरं दहरविद्यादि क्रियामयात्क्रतोः पृथग्भूतं श्रुत्यादिभिरवगम्यते; एवमयमपि । एवं चानुबन्धादिभिः पृथग्भूते विद्यामये यज्ञेऽवगते सति विधिः परिकल्प्यते । दृष्टश्चानुवादसरूपेषु

कल्प्यमानो विधिः । तदुक्तं “वचनानि त्वपूर्वत्वात्” इति । फलं च “तेषामेवैकैक एव तावान् यावानसौ पूर्वः” इत्यतिदेशात् स्वक्रतुद्वारेणेष्टकचितस्याग्नेर्यत्फलं तदेव मनश्चिदादीनामपि स्वक्रतुद्वारेण फलमित्यवगम्यते । यत्पुनरतिदेशेन तुलयकार्यत्वावगमात् क्रियामयक्रत्वनुप्रवेशोऽवगम्यत इत्युक्तम्, तत्राह -

नावश्यमतिदेशादवान्तरव्यापारस्यापि तुल्यतया भवितव्यम्, येन क्रियामयक्रत्वनुप्रवेश एषां स्यात् । यस्मात्कस्माच्चित्सामान्यमात्रादतिदेशोपलब्धेः, उपलभ्यते हि “स एष एव मृत्युर्य एतस्मिन्मण्डले पुरुषः” इत्यादिषु संहर्तृत्वादिसामान्यमात्रादतिदेशः, न हि तत्र मण्डलपुरुषस्य मृत्युवत्तल्लोकापत्तिः- तद्देशप्राप्तिरपि भवति;

एवमिहापि मनश्चिदादीनामिष्टकचिताग्निवद्भावातिदेशमात्रेणेष्टकचिताग्निदेशरूपक्रियामयक्रत्वनुप्रवेशेनापि न भवितव्यम् । अत इष्टकचिताग्नेः स्वक्रतुद्वारेण यत्फलं तदेव मनश्चिदादीनामपि विद्यामयक्रतुद्वारेण फलमित्यतिदेशादवगम्यते ॥ 49 ॥

परेण च ब्राह्मणेनास्यापि मनश्चिदाद्यभिधायिनः शब्दस्यताद्विध्यम्- तद्विधत्वम्, विद्यामयप्रतिपादित्वमवगम्यते । परेण हि ब्राह्मणेन “अयं वाव लोक एषोऽग्निचितस्तस्याप एव परिश्रिताः” इत्यादिना “स यो हैतदेवं वेद लोकं पृणानमेनं भूतमेतत्सर्वमभिसमपद्यते” इति पृथक्फला विद्यैव विधीयते ः अतोऽग्निरद्दस्यस्य क्रियैकविषयत्वं नास्ति । एवं तर्हि विद्यामया मनश्चिदादयो वृहदारण्यकेऽनुबद्धव्याः किमर्थमिहानुबध्यन्ते; तत्रोच्यते- भूयस्त्वात्त्वनुबन्धः इति ः मनश्चिदादिषु सम्पादनीयानामग्न्यङ्गानां भूयस्त्वात्तत्सन्निधाविहानुबन्धः कृतः ॥ 50 ॥

॥ पूर्वविकल्पाधिकरणं समाप्तम् ॥