27 अनियमाधिकरणम्

उपकोसलादिषु येषूपासनेष्वर्च्चिरादिगतिः श्रूयते, किं तन्निष्ठानामेव तया ब्रह्मप्रातिः, उत सर्वेषां ब्रह्मोपासननिष्ठानाम् इति संशये; इतरेष्वनाम्नानात 2ये चेमेऽरण्ये श्रद्धा तप इत्युपासते" “श्रद्धां सत्यमुपासते” इतीतरसकलब्रह्मविद्योपस्थापकत्वे प्रमाणाभावाच्च तन्निष्ठानामेव इति प्रातेऽभिधीयते- अनियमः इति । सर्वेषां- सर्वोपासननिष्ठानां तयैव गन्तव्यत्वात् तन्निषांनामवेति नियमो नास्ति । सर्वेषां तयैव गमने हि सति शब्दानुमानाभ्यां श्रुतिस्मृतिभ्यामविरोधः; अन्यथा विरोध एवेत्यर्थः । श्रुतिस्तावत् छन्दोग्यवाजसनेयवाक्ययोः पञ्चाग्निविद्यायामर्चिरादिमागर्ेण सर्वब्रह्मोपसननिष्ठानां गमनमाह-

“य एवमेताद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते तेऽचिर्षमभिसम्भवन्ति” इति वाजसनेयके; “तद य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्ति” इति छान्दोग्ये; 2ये चेमेऽरण्ये3 इत्यादिना श्रद्धापूर्वकं ब्रह्मोपासीनाँश्चोद्दिश्यार्चिरादिका गतिरुपदिश्यते, “सत्यं ज्ञानमनन्तं ब्रह्म” “सत्यं त्वेव विजिज्ञासितव्यम्” इति सत्यशब्दस्य ब्रह्मणि प्रसिद्धेः । तपश्शब्दस्यापि तेनैकार्थ्यात्सत्यतपश्शब्दाभ्यां ब्रह्मैवाभिधीयते । श्रद्धापूर्वकं ब्रह्मोपासनं चान्यत्र श्रुतम्, “सत्यं त्वेव विजिज्ञासितव्यम्” इत्युपक्रम्य “श्रद्धात्वेव विजिज्ञासितव्या” इति । स्मृतिरपि “अग्निर्ज्योतिरहः शुक्लः षण्मास उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः” इति सर्वेषां ब्रह्मविदामनेनैव मार्गेण गमनमित्याह - एवंजातीयमाः श्रुतिस्मृतयो बह्वयः सन्ति । एवं सर्वविद्यासाधारणीयं गतिः प्राप्तैवोपकोसलविद्यादावनूद्यते ॥ 32 ॥

॥ अनियमाधिकरणं समाप्तम् ॥