एवं चोदनाद्यविशेषाद्विद्यैकत्वम्, एकत्वे च गुणोपसंहारः कर्त्तव्य इत्युक्तम्, अतः परं काश्चन विद्या अधिकृत्य प्रत्यभिज्ञाहेतुभूतचोदनाद्यविशेषोऽस्ति नेतीति निरूप्य निर्णीयते । अस्त्युद्गीथ
विद्या वाजिनां छन्दोगानां च । वाजिनां तावत् “द्व्रया ह प्राजापत्या देवाश्चासुराश्च” इत्यारभ्य “ते ह वा देवा ऊचुः हन्तासुरान् यज्ञ उद्गीथेनात्ययाम” इत्युद्गीयेनासुरविध्वंसनं प्रतिज्ञायोद्गीथे वागादीमनः पर्यन्तदृष्टावसुरैरभिभवमुक्त्वा “अथ हेममासन्यं प्राणमूचुः” इत्यादिनोद्गीथे प्राणदृष्टया असुरपराभवमुकत्वा “भवत्यात्मना परऽस्य द्विषन् भ्रातृव्यो भवति य एवं वेद” इति शत्रुपराजयफलायोद्गीथे प्राणदृष्टिविर्हिता । एवं छन्दोगानामपि “देवासुरा ह वै यत्र संयेतिरे” इत्यारभ्य “तद्धदेवा उद्गीथमाजह्रुरनेनैनानभिहनिष्यामः” इत्युद्गीथेनासुरपराभवं प्रतिज्ञाय तद्वदेवोद्गीथे वागादिदृष्टौ दोषमभिधाय “अथ ह य एवायं मुख्यप्राणस्तमुद्गीथमुपासाञ्चक्रिरे” सत्यादिनोद्गीथे प्राणदृष्टया असुरपराभवमुकत्वा 2यथाश्मानमाखणमृत्वा विध्वंसते एवं हैव स विध्वंसते य एवंविदि पापं कामयते" इति शत्रुपराभावायोद्गीथे प्राणदृष्टिर्विहिता, वेदनविषयविधिप्रत्ययाश्रवणेऽपि फल
साधनत्वश्रवणाद्वेदनविषयो विधिः कल्प्यते । उद्गीथविद्यायुाः क्रत्वर्थत्वेन क्रतुसाद्गुण्यफलत्वेऽप्यार्थवांदिकमपि फलं तदविरुद्धं ग्राह्यमेवेति देवताधिकरणे प्रतिपादितम् । तत्र संशय्यते किमत्र विद्यैक्यम्? उत नेति । किं युक्तं? विद्यैक्यमिति कुतः? उभयत्रोद्गीथस्यैवाध्यस्तप्राणभावस्योपास्यत्वश्रवणाच्चोदनाद्यविशेषात् । फलसंयोगस्तावच्छत्रुपरिभवरूपो न विशिष्यते, रूपमप्यध्यस्तप्राण भावोद्गीथाख्योंपास्यैक्यादविशिष्टम्, चोदना च विदिधात्वर्थगताऽविशिष्टा, आख्या चोद्गीथविद्येत्यविशिष्टा । अत्र राद्धान्तिच्छायया परिचोद्य परिहरति- अन्यथात्वं शब्दादिति चेन्नाविशेषात् इति । यदुक्तं विद्यैक्यमिति, तन्नोपपद्यते, रूपभेदात्; रूपान्यथात्वं हि शब्दादेव प्रतीयते; वाजसनेयके हि “अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्” इत्युद्गानस्य कर्त्तरि प्राणदृष्टयाऽसुरपराभवमुकत्वा “य एवं वेद” इति कर्तर्येव प्राणदृष्टिरेवं शब्दादवगम्यते, छान्दोग्ये “अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे” इत्युद्गानस्य कर्मण्युद्गीथे प्राणदृष्टयाऽसुरपराभवमुकत्वा “य एवंविदि पापं कामयते” इत्येवंशब्दात् कर्मण्येवोद्गीथे प्राणदृष्टिर्विहिता ।
अत एकत्र कर्त्तरि प्राणदृष्टिशब्दादन्यत्र कर्मणि प्राणदृष्टिशब्दाच्च रूपान्यथात्वं स्पष्टम् । रूपान्यथात्वे च विधेयभेदे सति केवलचोदनाद्यविशेषोऽकिञ्चित्कर इति विद्याभेद इति चेत्- तन्न, अविशेषेण ह्युभयत्रोद्गीथसाधनकपरपरिभव उपक्रमे प्रतीयते, वाजसनेयके “ते ह देवा ऊचुर्हन्तासुरान् यज्ञ उद्गीथेनात्ययाम” इत्युपक्रमे श्रूयते, छान्दोग्येऽपि “तद्ध देवा उद्गीथमाजह्रुरनेनैनानभिहनिष्यामः” इति । अत उपक्रमाविरोधाय “तेभ्य एष प्राण उदगायत्” इत्यध्यस्तप्राणभाव उद्गीथ उद्गानकर्मभूत एव
पाकादिष्वोदनादिवत्सौकर्यातिशयविवक्षया कर्त्तृत्वेनोच्यते; अन्यथोपक्रमगत उद्गीथशब्दः कर्त्तरिलाक्षणिकः स्यात्, अतो विद्यैक्यम् । इतिप्राप्ते प्रचक्ष्महे ॥ 6 ॥
नवेति पक्षं व्यावर्तयति, न चैतदस्ति, यद्विद्यैक्यमिति; कुतः? प्रकरणभेदात् “ओमित्येतदक्षरमुद्गीथमुपासीत” इति प्रकृतमुद्गीथावयवभूतं प्रणवं प्रस्तुत्य “एतस्य वा अक्षरस्योपव्याख्यानं भवति” “देवासुरा ह वै यत्र संयेतिरे” इत्यारभ्य “अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे” इत्युद्गीथाववयभूतप्रणवविषयमुपासनं छन्दोगा अधीयते; वाजिनस्तु तादृशप्राचीनप्रकरणाभावात्" हन्तासुरान् यज्ञ उद्गीथेनात्ययाम" इति कृत्स्नमुद्गीथं प्रस्तुत्य “अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गाय” इत्यादिकृत्स्नोद्गीथविषयमधीयते; अतः प्रकरणभेदेन विधेयभेदः, विधेयभेदे च रूपभेद इति न विद्यैक्यम् । किञ्च “अथ ह एवायं मुख्य ः प्राणस्तमुद्गी
थमुपासाञ्चक्रिरे” इति पूर्वप्रकृतः उद्गीथावयवभूतः प्रणव एवाध्यस्तप्राणभावश्छन्दोगानामुपास्यः, वाजिनान्तु कृत्स्नस्योद्गीथस्य कर्त्तोद्गाता प्राणदृष्टयापास्य इति । “अथ हेममासन्यं प्राणमुचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत” इत्युद्गातरि प्राणाध्यासं निर्दिश्य “य एवं वेद” इत्युद्गातैवाध्यस्तप्राणभाव उपास्यो विधीयते, अतश्च रूपभेदः । न चोद्गातर्युपास्ये विहिते “उद्गीथेनात्ययाम” इत्याख्यायिकोपक्रमविरोधः शङ्कनीयः; उद्गातुरुपासने उद्गीथस्योद्गानकर्मभूतस्यावश्यापेक्षितत्वात्तस्यापि परपरिभवाख्यं फलं प्रति हेतुत्वात् । अतो रूपभेदाद्विद्याभेद इति चोदनाद्यविशेषेऽपि न विद्यैक्यम् । परोवरीयस्त्वादिवत्यथैकस्यामपि शाखायामुद्गीथावयवभूते प्रणवे परमात्मदृष्टिविधानसाम्येऽपि हिरण्मयपुरुषदृष्टिविधानात् परोवरीयस्त्वादिगुणविशिष्टदृष्टिविधानमर्थान्तरभूतम् ॥ 7 ॥
उद्गीथविद्येति संज्ञैक्यात् तत्- विद्यैक्यमुक्तं चेत्- तत् संज्ञैक्यं विधेयभेदेऽप्यस्त्यैव; यथा अग्निहोत्रसंज्ञानित्याग्निहोत्रे, कुण्डपायिनामयनाग्निहोत्रे च, यथा चोद्गीथविद्येति छान्दोग्ये प्रथमप्रापाठकोदितासु बह्वीषु विद्यासु ॥ 8 ॥
छान्दोग्ये प्रथमप्रपाठके उवरास्वपि विद्यासूद्गीथावयवस्य प्रणवस्य प्रथमप्रस्तुतस्योपास्यत्वेन व्याप्तेश्च तन्मध्यगतस्य “तद्ध देवा उद्गीथमाजह्रुः” सत्युद्गीथशब्दस्य प्रणवविषयत्वमेव समञ्जसम् । अवयवे च समुदायशब्दः “पटो दग्धः” इत्यादिषु दृश्यते । अतश्चोद्गीथावयवभूतः प्रणव एवोद्गीथशब्दनिर्दिष्ट इति स एव प्राण
दृष्टययोपास्यः छान्दोग्ये प्रतिपत्तव्यः । वाजसनेयके तु कृत्स्नोद्गीथविषय उद्गीथशब्द इति कृत्स्नोद्गीथस्य कर्त्तोद्गाता प्राणदृष्टयोपास्य इति विद्यानानात्वं सिद्धम् ॥ 9 ॥
॥ अन्यथात्वाधिकरणं समाप्तम् ॥