उक्तमुपासिसिषोपजननार्थं जीवस्य सर्वावस्थासु सदोषत्वं, प्राप्यस्य च परम
पुरुषस्य निर्दोषत्वं, कल्याणगुणाकरत्वं, सर्वस्मात्परत्वं च । अतः परमुपासनं विवक्षन्नुपासीनानां परस्मा
देवास्मात्पुरुषात्तत्प्राप्तिरूपमपवर्गाख्यं फलमिति संप्रति ब्रूते । तुल्यन्यायतया शास्त्रीयमैहिकामुष्मिकमपि फलम् अत एव परस्मात्पुरुषाद्भवतीति सामान्येन “फलमतः” इत्युच्यते ः कुत एतत्? उपपत्तेः- स एव हि सर्वज्ञः सर्वशक्तिर्महोदारो यागदानहोमादिभिरुपासनेन चाराधित ऐहिकामुष्मिकभोगजातं स्वस्वरूपावाप्तिरूपमपवर्गं च दातुमीष्टे; न ह्यचेतनं कर्म्म क्षणध्वंसि कालान्तरभाविफलसाधनं भवितुमर्हति ॥ 37 ॥
“स वा एष महानज आत्माऽन्नादो वसुदानः” “एष ह्येवानन्दयाति” इति भोगापवर्गरूपं पलमयमेव ददातीति हि श्रूयते । सम्प्रति पूर्वपक्षमाह - ॥ 38 ॥
अत एव- उपपत्तेः, शास्त्राच्च यागदानहोमोपासनरूपधर्ममेव फलप्रदं जैमिनिराचार्यो मन्यते । लोके हि कृष्यादिकं दानादिकं च कर्म साक्षाद्वा एरम्परया वा स्वयमेव फलसाधनं दृष्टम्; एवं वेदेऽपि यागदानहोमादानां साक्षात्फलसाधनत्वाभावेऽपि परम्परया अपूर्वद्वारेण फलसाधनत्वमुपपद्यते । तथा “यजेत स्वर्गकामः” इत्यादिशास्त्रमपि सिषाधयिषितस्वर्गस्य कर्त्तव्यतया यागाद्यभिदधदन्यथानुपपत्त्या अपूर्वद्वारेण फलसाधनत्वमवगमयति ॥ 39 ॥
तुशब्दः पक्षव्यावृत्त्यर्थः; पूर्वोक्तं परमपुरुषस्यैव फलप्रदत्वं भगवान् वादरायणो मन्यतेः कुतः? हेतुव्यपदेशात्- यज देवपूजायामिति देवताराधनभूतयागाद्याराध्यभूताग्निवाय्यवादिदेवतानामेव तत्तत्फलहेतुतया तस्मिन्स्तस्मिन्नपि वाक्ये व्यपदेशात् “वायव्यं श्वेतमालभेत भूतिकामो वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति” इत्यादिषु कामिनः सिषाधयिषितफलसाधनत्वप्रकारोपदेशो
ऽपि विध्यपेक्षित एवेति नातत्परत्वशङ्का युक्ता । एवमपेक्षितेऽपि फलसाधनत्वप्रकारे शब्दादेवावगते सति तत्परित्यागमश्रुतापूर्वादिपरिकल्पनं च प्रामाणिका न सहन्ते । लिङादयोऽपि देवताराधनभूतयागादेः प्रकृत्यर्थस्य कर्तृव्यापारसाध्यतां व्युत्पत्तिसिद्धां शब्दानुशासनानुमतामभिदधति; नान्यदलौकिकमिति प्रागेवोक्तम् । तदेवं “वायुर्वै क्षेपिष्ठा देवता” इत्यादिशब्दाद्वाय्वादीनां फलप्रदत्वमवगम्यते । वाय्वाद्यात्मना च परमपुरुष एवाराध्यतया फलप्रदायित्वेन चावतिष्ठित इति श्रूयते- “इष्टापूर्त्तं बहुधा जातं जायमानं विश्वं विभर्ति भुवनस्य नाभिः । तदेवाग्निस्तद्वांयुस्तत्सूर्यस्तदुचन्द्रमाः” इति; अन्तर्यामिब्राह्मणे च “यो वायौ तिष्ठन् यस्य वायुः शरीरं, योऽग्नौ तिष्ठन्, य आदित्ये तिष्ठन्” इत्यादि श्रूयते । स्मर्यते च “यो यो यां यां तनुं भक्तः श्रद्धयाऽर्चितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव दिधाम्यहम् ॥ स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च ततः कामान्मयैव विहितान् हि तान्” इति । अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च" इति, प्रभुरिति फलप्रदायीत्यर्थः । “देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि । यान्ति मद्याजिनोऽपि माम्” इति च । लोके च कृष्यादिभिर्विचित्ररूपान् द्रव्यविशेषान् सम्पाद्य तै राजानं भृत्यद्वारेण साक्षाद्वाऽर्चयन्ति, अर्च्चितश्च राजा
तत्तदर्चनानुगुणं पलं च प्रयच्छन् दृश्यते । वेदान्तास्तु अतिपतितसकलेतरप्रमाणसम्भावनाभूमिं निरस्तसमस्ताविद्यादिदोषगन्धं स्वाभाविकानवधिकातिशयापरिमितोदारगुणसागरं पुरुषोत्तमं प्रतिपाद्य तदाराधनरूपाणि च यागदानहोमात्मकानि, स्तुतिनमस्कारकीर्त्तनार्चनद्यानानि च तदाराधनानि, आराधितात्परस्मात्पुरुषाद्भोगापवर्गरूपं फल च वदन्तीति सर्वं समञ्जसम् ॥ 40 ॥
॥ इति फलाधिकरणम् ॥ 8 ॥
इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये तृतीयस्याध्यायस्य द्वितीयः पादः ॥