इदानीमस्मात्परस्माज्जगन्निमित्तोपादानरूपपरमकारणात्परब्रह्मणः परमपि किञ्चित्तत्त्वमस्तीति कैश्चिद्धेत्वाभासैराशङ्कय निराक्रियते, अस्योपास्यस्य निर्दोषत्वानवधिकातिशयासङ्खयेयकल्या
णगुणाकरत्वस्थेम्ने । तत्रेयमाशङ्कायदिदं परं ब्रह्मोभयलिङ्गम्, एतस्मान्निखिलजगत्कारणात् परमपि किचित्तत्त्वमस्ति । कथम्? “अथ य आत्मा स सेतुर्विधृतिः” इत्यस्य परस्य सेतुत्वव्यपदेशात् । सेतुशब्दस्य च लोके कूलान्तरप्राप्तिहेतौ प्रसिद्धेः, इतोन्यदनेन प्राप्यमस्तीति गम्यते । तथा “एतं सेतुं तीर्त्वा अन्धसन्ननन्धो भवति” इति तरितव्यता चास्याभिधीयते । अतश्चान्यत्प्राप्यमस्ति, उन्मानव्यपदेशाच्च उन्मितं- परिमितम् इदं परं ब्रह्म “चतुष्पाद्व्रह्मषोडशकलम्” इति उन्मानव्यपदेशात् । स चायमुन्मानव्यपदेशस्तेन सेतुना प्रप्यस्यानुन्मितस्यास्तितां द्योतयति । तथा सम्बन्धव्यपदेशश्च सेतुसेतुमतोः प्रापकत्वप्राप्यत्वलक्षणो दृश्यते । “अमृतस्य परं सेतुं दग्धेन्धनमिवानलम्” “अमृतस्यैष सेतुः” इति, अतश्च परात्परमस्ति । भेदेन च परात्परं व्यपदिश्यते “परात्परं पुरुषमुपैति” “परात्परं यन्महतो महान्तम्” इति च । तथा “तेनेदं पूर्णं पुरुषेण सर्वम्” “ततो यदुत्तरतरं तदरूपमनामयम” इति । अत एभ्यो हेतुभ्यः परस्माद्व्रह्मणः परमपि किञ्चिदस्तीति गम्यते इति । एवं प्राप्तेऽभिधीयते - ॥ 30 ॥
तुशब्दः पक्षं व्यावर्त्तयति ।यत्तावदुक्तं सेतुव्यपदेशात् परात्परमस्तीति तन्नोपपद्यते । न ह्ययमत्र किचित्प्राप्यं प्रति सेतुरुच्यते “एषां लोकानामसम्भेदाय” इति सेतुसामान्येन सर्वलोकासङ्करकरत्वश्रुतेः । सिनोति- वध्नाति स्वस्मिन्सर्वं चिदचिद्वस्तुजातमसङ्कीर्णमिति सेतुरुच्यते । “एतं सेतुं तीर्त्वा” इति तरतिश्च प्राप्तिवचनः यथा वेदान्तं तरतीति ॥ 31 ॥
योऽयं “चतुष्पद्ब्रह्मषोडशकलं” “पादोऽस्य विश्वाभूतानि” इत्युन्मानव्यपदेशः, स बुद्धयर्थः- उपासनार्थः, “सत्यं
ज्ञानमनन्तं बअह्म” इत्यादिभिर्ज्जगत्कारणस्य ब्रह्मणोऽपरिच्छिन्नत्वावगमात् स्वत उन्मितत्वासम्भवात् । जगत्कारणत्वं हि तस्यैव श्रूयते “तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः” “सोऽकामयत बहुस्यां प्रजायेयेति” इति । अतो यथा “वाक्पादः प्राणः पादश्चक्षुष्पादो मनः पाद” इत्यादिना ब्रह्मणो वागादिपादव्यपदेश उपासनार्थः, एवमयमपि । स्वयमनुन्मितस्य कथमुपासनार्थतयाऽप्युन्मानसंभवस्तत्राह - ॥ 32 ॥
प्रतिपन्नवागादिस्थानविशेषरूपोपाधिभेदात्तत्सम्बन्धितयोन्मितत्वानुसन्धानं सम्भवति, यथा प्रकाशादेर्विततस्य वातायनघटादिस्थानभेदैः परिच्छिद्यानुसन्धानसम्भव इत्यथर्ः ॥ 33 ॥
यदुक्तम् “अमृतस्यैष सेतुः” इति प्राप्यप्रापकसम्बन्धव्यपदेशात् प्रापकात्परं प्राप्यमन्यदस्तीति; तन्न, प्राप्यस्य
परमपुरुषस्य स्वप्राप्तौ स्वस्यैवोपायत्वोपपत्तेः, “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष विवृणुते तनूं स्वाम्” इत्यनन्योपायत्वश्रवणात् ॥ 34 ॥
यत्पुनरुक्तं “ततो यदुत्तरतरं” “परात्परं पुरुषम्” अक्षरात्परतः परः" इत्यादिभेदव्यपदेशात्परात्परमस्तीति, तन्नोपपद्यते, तत्रैव ततोऽन्यस्य प्रतिषेधात्, “यस्मात्परं नापरमस्ति किञ्चित् यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित्” यस्मादपरं परं नास्ति किञ्चित् न केनापि प्रकारेण परमस्तीत्यर्थः, तथाऽन्यत्रापि “न ह्येतस्मादिति नेत्यन्यत्परमस्तीति नेति” इति नेति निर्दिष्टादेतस्माद्व्रह्मणोऽन्यत्परं न ह्यस्तीत्यर्थः । तथा “न तस्येशे कश्चन
तस्य नाम महद्यशः” इति । तद्धि जगदुपादानकारणतयाऽनन्तरमुक्तं “सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि” स आपः प्रदुघे उभे इमे" इत्यादिना “अभ्द्यः सम्भूतो हिरण्यगर्भः इत्यष्टौ” इति च जगत्कारणं पुरुषमेनं प्रत्यभिज्ञापयति । “ततो यदुत्तरतर"मिति किमुच्यत इति चेत्, पूर्वत्र “वेदाहमेतं पुरुषं महान्तमाद्यिवर्णं तमसः परस्तात् । तमेवं विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय” इति परस्य ब्रह्मणो महापुरुषस्य वेदनमेवामृतत्वसाधनं, नान्योऽमृतत्वस्य पन्था इत्युपदिश्य तदुपपादनाय “यस्मात्परं नापरमस्ति
किञ्चिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम्” इति पुरुषस्य परत्वं तद्वयतिरिक्तस्य परत्वासम्भवं च प्रतिपाद्य “ततो यदुत्तरतरं तदरूपमनामयम् । य एतद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति” इति पूर्वोक्तमर्थं हेतुतो निगमयति । यदुत्तरतरं पुरुषतत्त्वं तदेवारूपमनामयं यतस्ततो य एतत्पुरुषतत्त्वं विदुः त एवामृता भवन्त्यथेतरे दुःखमेवापियन्तीति । अन्यथोपक्रमविरोधोऽनन्तरोक्तिविरोधश्च, “परात्परं पुरुषमुपैति दिव्यम्” इति पूर्वत्र “अक्षरात्परतः परः” इत्यक्षरादव्याकृताद्यः परः समष्टिपुरुषस्तस्मात्परो योऽदृश्यत्वादिगुणकः सर्वज्ञः परमपुरुषः स एवेहापि “परात्परः” इति समष्टिपुरुषात्परत्वेनोच्यते ॥ 35 ॥
अनेन ब्रह्मणा सर्वगतत्वं सर्वस्य जगतो व्याप्तत्वम्, आयामशब्दादिभ्यः- सर्वव्याप्तिवाचिशब्देभ्योऽवगम्यमानमस्मात्परं नास्तीत्यवगमयति । आयामशब्दस्तावत् तेनेदं पूर्णं पुरुषेण” सर्वं “यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा । अन्तबहिश्च तत्सर्वं व्याप्य नारायणः स्थितः” “नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः” । आदिशब्दात् “ब्रह्मैवेदं सर्वम्” आत्मैवेदं सर्व"मित्यादयो गृह्मन्ते । अत इदं परं ब्रह्मैव सर्वस्मात्परम् ॥ 36 ॥
॥ इति पराधिकरणम् ॥