अस्मिन्नधिकरणेऽवान्तरशङ्कातत्परिहारबाहुल्यात् साध्यप्रतिपत्तिव्याकुलता स्यादिति परमसाध्योपसंहारेण तन्निवृत्त्यर्थं सूत्रमभिप्रयन् व्याचष्टे - अत इति । तथा हि सतीति - इयत्तानिषेधपरत्वे सति न केवलमुभयलिङ्गत्वाबाधः, अपि तूभयलिङ्गत्वमुपपादितं भवति हीत्यर्थः । ये तू भयलिङ्गत्वं
मूर्तामूर्तात्मकस्याचित्प्रपञ्चस्य ब्रह्मणो रूपत्वं “द्वे वाव ब्रह्मणो रूपे” इत्यादिनोपदिश्यते । “अथात आदेशो नेति नेति” इति मूर्त्तामूर्त्ताचिद्वस्तुरूपतया ब्रह्मण इयत्ता प्रतिषिद्धयते । “न ह्येतस्मादिति नेत्यन्यत्परमस्ति” इति ब्रह्मणोऽन्यदुष्कृष्टं न ह्यस्तीति प्रतिपादितम् । तदुपपादनाय “अथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम्” इति प्राणशब्दनिर्द्दिष्टेभ्यश्चेतनेभ्योऽप्येष सत्यमिति कदाचिदपि ज्ञानादिसङ्कोचाभावादुक्तम्। तथा “प्रधानक्षेत्रज्ञपतिर्गुणेशः” “पतिं विश्वस्यात्मेश्वरं” “नित्यो नित्यानां चेतनश्चेतनानाम्” इत्यादि श्रुतेश्चायमर्थोऽवगम्यते । तस्याचिद्वस्तुनो ब्रह्मरूपत्वप्रकार इदानीं चिन्त्यते, ब्रह्मणो निर्दोषत्वसिद्धयर्थं किमस्याचिद्वस्तुनो ब्रह्मरूपत्वमहिकुण्डलन्यायेन? उत प्रभाप्रभावतोरिवैकजातियोगेन? उत
जीवस्येव विशेषणविशेष्यतयांऽशांशिभावेन इति । इह स्थाप्यमानं विशेषणविशेष्यभावमङ्गीकृत्य “प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्” “तदनन्यत्वमारम्भणशब्दादिभ्यः” इत्यत्र सूक्ष्मचिदचिद्वस्तुविशिष्टाद्व्रह्मणः स्थूलचिदचिद्विशिष्टस्योत्पत्तिरनन्यत्व ं चोक्तम् । किं युक्तम्? अहिकुण्डलवदिति; कुतः? उभयव्यपदेशात्,
“ब्रह्मैवेदं सर्वम्” “आत्मैवेदं सर्वम्” इति तादात्म्यव्यपदेशात् “हन्ताऽहमिमास्तिस्त्रो देवता अनेन जीवेनौत्मनाऽनुप्रविश्य” इत्यादि भेदव्यपदेशाच्चाहेः कुण्डलभावर्जुभाववत्तस्यैव ब्रह्मणः संस्थानविशेषा एवाचिद्वस्तूनि ॥ 26 ॥
वाशब्दः पक्षव्यावृत्त्यर्थः । ब्रह्मस्वरूपस्यैवाचिद्रूपेणावस्थाने भेदश्रुतयो ब्रह्मणोऽपरिणामित्ववादिन्योऽपि वाधिता भवेयुः, अतो यथा तेजस्त्वेन प्रभातदाश्रययोर्भिन्नयोरपि तादात्म्यम्; एवमचित्प्रपञ्चस्य ब्रह्मणो रूपत्वमित्यर्थः ॥ 27 ॥
वाशब्दः पक्षद्वयव्यावृत्त्यर्थः । एकस्यैव द्रव्यस्यावस्थाविशेषयोगे ब्रह्मस्वरूपस्यैवाचिद्द्रव्यरूपत्वादुक्तदोषादनिर्मोक्षः, अथ प्रभातदाश्रययोरिवाचिद्व्रह्मणोर्व्रह्मत्वजातियोगमात्रम्; एवं तर्ह्यश्वत्वगोत्ववद्व्रह्मापीश्वरे चिदचिद्वस्तुनोश्चानुवर्तमानं सामान्यमिति सकलश्रुतिस्मृतिव्यवहारविरोधः पूवर्वदेव, “अंशो नानाव्यपदेशात्” “प्रकाशादिवत्तु नैवं परः” इति जीववत् पृथक्सिद्धयनर्हविशेषणत्वेनाचिद्वस्तुनो ब्रह्मांशत्वम्; विशिष्टवस्त्वेकदेशत्वेनाभेदव्यवहारो मुख्यः, विशेषणविशेष्ययोः स्वरूपस्वभावभेदेन भेदव्यवहारो मुख्यः, ब्रह्मणो निर्दोषत्वं च रक्षितम् । तदेवं प्रकाशजातिगुणशरीराणां मणिव्यक्तिगुण्यात्मनः प्रत्यपृथक्सिद्धिलक्षणविशेषणतया यथांशत्वं, तथेह जीवस्याचिद्वस्तुनश्च ब्रह्मप्रत्यंशत्वम् ॥
“स वा एष महानज आत्माऽजरोऽमरः, नास्य जरयैतज्जीर्यति” इत्यादिभिर्ब्रह्मणोऽचिद्धर्मप्रतिषेधाच्च विशेषणविशेष्यत्वेनैवांशांशिभाव इत्यर्थः । अतः सूक्ष्मचिदचिद्वस्तुविशिष्टं कारणभूतं ब्रह्म, स्थूलचिदचिद्वस्तुविशिष्टं कार्यभूतं ब्रह्मेति कारणात्कार्यस्यानन्यत्वं, कारणभूतब्रह्मविज्ञानेन कायर्स्य ज्ञाततेत्यादि सर्वमुपपन्नम्; ब्रह्मणो निर्दोषत्वं च रक्षितम् । ब्रह्मणोनिर्दोषत्वेन कल्याणगुणाकरत्वेन चोभयलिङ्गत्वमपि सिद्धम् ॥ 29 ॥
॥ अहिकुण्डलाधिकरणं समाप्तम् ॥