11 उभयलिङ्गाधिकरणम्

दोषदर्शनाद्वैराग्योदयाय जीवस्यावस्थाविशेषानिरूपिताः । इदानीं ब्रह्मप्राप्तितृष्णाजननाय प्राप्यस्य ब्रह्मणो निर्दोषत्वकल्याणगुणात्मकत्वप्रतिपादनायनारभते, तत्र जागरस्वप्रसुषुप्तिमुग्ध्युत्क्रान्तिषु स्थानेषु तत्तत्स्थानप्रयुक्ता जीवस्य ये दोषास्ते तदन्तर्यामिणः परस्य ब्रह्मणोऽपि तत्र तत्रावस्थितस्य सन्ति; नेति विचार्य्यते । किं युक्तम्? सन्तीति, कुतः? तत्तदवस्थशरीरेऽवस्थानात् । ननु “सम्भोगप्राप्तिरिति चेन्न वैशेष्यात्” “स्थित्यदनाभ्यां च” इत्यादिषुपरस्याकर्मचश्यत्वेन दोषाभाव उक्तः- तत्कथमकर्मवश्यस्य परस्य ब्रह्मणस्तत्तत्स्थानसम्बन्धाद्दोष उच्यते, इत्थमुच्यते - कर्माण्यपि देहसम्ब

न्धमापादयन्ति पुरुषार्थजननानि भवन्तीति “देहयोगाद्वा” इत्यत्रोक्तम् । तच्च दहेसम्बन्धस्यापुरूषार्थत्वेन भवति । इतरथा कर्माण्येव दुखं जनयिष्यन्ति किं देह सम्बन्धेन; अतोऽकर्मवश्यत्वे सत्यपि नानाविधाशुचिदेहसम्बन्धोऽपुरुषार्थ एव, अतस्तन्नियमनार्थं स्वेच्छया तत्प्रवेशेऽप्यपुरुषार्थसम्बन्धोऽवर्ज्जनीयः, पूयशोणितादिमज्जनं हि स्वेच्छाकारितमप्यपुरुषार्थ एव । अतो यद्यपि जगदेककारणं सर्वज्ञत्वादिकल्याणगुणाकरं च ब्रह्म, तथाऽपि “यः पृथिव्यां तिष्ठन्, य आत्मनि तिष्ठन्, यश्चक्षुपि तिष्ठन् यो रेतसि तिष्ठन्” इत्यादिवचनात् तत्र तत्रावस्थितस्य तत्तत्सम्बन्धरूपापुरुषार्थाः सन्ति इति एवं प्राप्ते प्रचक्ष्महे “न स्थानतोऽपि परस्य” इति न पृथिव्यात्मादिस्थानतोपि परस्य ब्रह्मणोऽपुरुषार्थगन्धः सम्भवति । कुतः? उभयलिङ्गं सर्वत्र हि यतः सर्वत्र श्रुतिस्मृतिषु परब्रह्मोभयलिङ्गम्- उभयलक्षणमभिधीयते- निरस्तनिखिलदोषत्वकल्याणगुणाकरत्वलक्षणोपेतमित्यर्थः “अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः” “समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशोद्धृतभूतसर्गः । तेजोबलैश्वर्यमहावबोधसुवीर्यशकत्यादिगुणैकराशिः । परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे” “समस्तहेयरहितं विष्ण्वाख्यं परमं पदम्” इत्यादि श्रुतिस्मृतिभ्य उभयलक्षणं हि ब्रह्मावगतम् ॥ 11 ॥

यथा जीवस्य प्रजापतिवाक्यावगतापहपाप्मत्वाद्युभवलिङ्गस्यापि देवादिदेहयोगरूपावस्थाभेदादपुरुषार्थयोगः; तथाऽन्तर्यामिणः परस्यापि स्वतोऽपहतपाप्मत्वाद्युभयलिङ्गस्य तत्तद्देवादिशरीरयोगरूपावस्थाभेदादपुरुषार्थयोगोऽवर्ज्जनीय इति चेत्- तन्न, प्रत्येकमतद्वचनात् “यः पृथिव्यां तिष्ठन्, य आत्मनि निष्ठ"न्नित्यादिषु प्रतिपर्यायं “स त आत्माऽन्तर्याम्यमृतः” इत्यन्तर्यामिणोऽमृतत्ववचनेन तत्र तत्र स्वेच्छयानियमनं कुर्वतस्तत्तत्सम्बन्धप्रयुक्तापुरुषार्थप्रतिषेधात् । जीवस्य तु तत् स्वरूपन्तिरोहितमिति “पराभिध्यानात्तु तिरोहित” मित्यत्रोक्तम् । ननु स्वेच्छया कुर्वतोऽपि तत्तद्वस्तुस्वभावायत्ता पुरुषार्थसम्बन्धोऽवर्ज्जनीय इत्युक्तम्; नैतद्युक्तं, न ह्यचिद्वस्त्वपि स्वभावतोऽपुरुषार्थस्वरूपं कमर्वश्यानां तु कर्मस्वभावानुगुण्येन परमपुरुषसङ्कल्पादेकमेव वस्तु कालभेदेन पुरुषभेदेन च सुखाय दुःखाय च भवति; वस्तुस्वरूपप्रयुक्ते तु ताद्रूप्ये सर्वं सर्वदा सर्वस्य सुखायैव दुःखायैव वा स्यात्; न चैवं दृश्यते; तथा चोक्तं “नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तम? । वस्त्वेकमेव दुःखाय सुखायेर्ष्यागमाय च । कोपाय च यतस्तस्माद्वस्तु वस्त्वात्मकं कुतः । तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते । तदेव कोपाय यतः प्रसादाय च जायते । तस्माद् दुःखात्मकं नास्ति न च किञ्चित्सुखात्मकम्” इति । अतो जीवस्य कर्मवश्यत्वात्तत्तत्कर्मानुगुण्येन तत्तद्वस्तुसम्बन्ध एवापुरुषार्थः स्यात्, परस्य तु ब्रह्मणः स्वाधीनस्य स एव सम्बन्धस्तत्तद्विचित्रनियमनरूपलीलारसायैव स्यात् ॥ 12 ॥

अपि चैके शाखिन एकस्मिन्नेव देहसंयोगे जीवस्यापुरुषाथर्ं परस्य तु तदभावं नियमनरूपैश्वर्यायत्तदीप्तियोगं च स्वशब्देनाधीयते “द्वा सुपर्णा सुयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति” इति । अथ स्यात् “अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि” इति ब्रह्मात्मकजीवानुप्रवेशपूर्वकं नामरूपव्याकरणमिति ब्रह्मणोऽपि तदात्मभूतस्य देवमनुष्यादिरूपत्वं तन्नामभाकत्वं चास्ति, ततश्च “ब्राह्मणो यजेत” इत्यादिविधिनिषेधशास्त्रगोचरत्वेन कर्मवश्यत्वमवर्ज्जनीयमिति तत्राह -

देवादिशरीरानुप्रवेशे तेन तेन रूपेण युक्तमप्यरूपवदेव तद् ब्रह्म रूपरहिततुल्यमेव; जीववच्छरीरित्वनिबन्धनं कमर्वश्यत्वम् अस्य न विद्यत इत्यर्थः । कुतः? निर्वाहकत्वेन प्रधानत्वात् । “अकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म” इति सर्वानुप्रवेशेऽपि नामरूपकार्यास्पर्शेन नामरूपयोर्निर्वोढ्ृत्वमेव ब्रह्मणः प्रतिपादयति । ननु तच्छरीरकत्वेन तदन्तर्यामित्वे कथमरूपवदिति रूपसम्बन्धरहिततुल्यत्वमुच्यते, इत्थं यथा जीवस्य तत्तज्जन्यसुखदुःखभाकत्वेन तत्तद्रूपसम्बन्धः, तथा तदभावात् परस्याऽरूपवत्त्वम् । विधिनिषेधशास्त्राण्यपि कर्मवश्यमेवाधिकुर्वन्ति, तस्मादरूपतुल्यमेव परं ब्रह्म । ततश्चान्तर्यामिरूपेणावस्थितमपि ब्रह्म निरस्तनिखिलदोषत्वकल्याणगुणाकरत्वरूपोभयलिङ्गमेव ॥ 14 ॥

ननु च “सत्यं ज्ञानमनन्तं ब्रह्म” इत्यादिभिर्निर्विशेषप्रकाशैकस्वरूपं ब्रह्मावगम्यते, अन्यत्तु सर्वज्ञत्वसत्यसङ्कल्पत्वजगत्कारणत्वसर्वान्तरात्मत्वसत्यकामत्वादिकं “नेति नेति” इत्यादिभिः प्रतिषिध्यमानत्वेन मिथ्याभूतमित्यवगन्तव्यम्, तत्कथं कल्याणगुणाकरत्वनिरस्तनिखिलदोषत्वरूपोभयलिङ्गत्वं ब्रह्मण इति; अत आह -

यथा च “सत्यं ज्ञानमनन्तं ब्रह्म” इत्यादिवाक्यावैयर्थ्यात् प्रकाशस्वरूपत्वं ब्रह्मणोऽभ्युपगम्यते । तथा सत्यसङ्कल्पत्वसर्वज्ञत्व(सर्व)जगत्कारणत्वसर्वात्मकत्वनिरस्त निखिलाविद्यादिदोषत्वाद्यभिधायिवाक्यावैयर्थ्यादुभयलिङ्गमेव ब्रह्म ॥ 15 ॥

किञ्च “सत्यं ज्ञानमनन्तम्” इत्यादि वाक्यं ब्रह्मणः प्रकाशस्वरूपतामात्रं प्रतिपादयति, नान्यत् सत्यसङ्कल्पत्वादिकं वाक्यान्तरावगतं निषेधति; “नेति नेति” इति चा निषेधस्य विषयोऽनन्तरमेव वक्ष्यते ॥ 16 ॥

दर्शयति च वेदान्त(वाक्य)गणः कल्याणगुणाकरत्वं निरस्तनिखिलदोषत्वं च “तमीश्वराणां परमं महेश्वरन्तं दैवतानां परमं च दैवतम् । स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः । न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानवलक्रिया च” “यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयन्तपः” “भीषाऽस्माद्वातः पवते भीषोदेति सूयर्ः” “स एको ब्रह्मण आनन्दः” । यतो वाचो निवर्त्तन्ते “आप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्न विभेति कुतश्चनेति” “निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्” इत्याति । स्मर्यते च “यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्” “मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् । हेतुनाऽनेन कौन्तेय जगद्धि परिवर्त्तते” “उत्तमः पुरुषस्त्वन्य परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य विभर्त्त्यव्यम ईश्वरः “सर्वज्ञः सर्वकृत्सर्वशक्तिर्ज्ञानबलर्द्धिमान् । अन्यूनश्चाप्यवृद्धिश्च स्वाधीनोऽनादिमान् वशी । क्लमतन्द्रीभयक्रोधकामादिभिरसंयुतः । निरवद्यः परः प्राप्तेर्निरधिष्ठोऽक्षरक्रमः” इत्यादिः । अतः सर्वत्रावस्थितस्यरपि ब्रह्मण उभयलिङ्गत्वात् तत्तत्स्थानप्रयुक्ताः दोषाः न परं ब्रह्म स्पृशन्ति ॥ 17 ॥

यतो नानाविधेषु स्थानेषु स्थितस्यापि परस्य ब्रह्मणो न तत्प्रयुक्तदोषभाक्तवम्, अत एव जलदर्पणादिप्रतिबिम्बितसूर्य्यादिवत् परमात्मा तत्र तत्रावस्थितोऽपि निर्दोष इति शास्त्रेषूपमा क्रियते “आकाशमेकं हि यथा घटादिषु पृथप्भवेत् । तथात्मैको ह्यनेकस्थो जलाधारोष्विवांशुमान् । एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत्” इत्यादिषु । अत्र चोदयति - ॥ 18 ॥

तुशब्दश्चोद्यं द्योतयति अम्बुवदिति सप्तम्यन्ताद्वतिः । अम्बुदपर्णादिषु यथा सूर्यमुखादयो गृह्मन्ते; न तथा पृथिव्यादिषु स्थानेषु परमात्मा गृह्मते । अम्ब्वादिषु हिसूर्यादयो भ्रान्त्या तत्रस्था इव गृह्यन्ते; न परमार्थतस्तत्रस्थाः । इह तु “यः पृथिव्यां तिष्ठन्” योऽप्सु तिष्ठन्” “य आत्मनि तिष्ठन्3 इत्येवमादिना परमार्थत एव परमात्मा पृथिव्यादिषु स्थितो गृह्यते । अतः सूर्यादेरम्बुदर्पणादिप्रयुक्तदोषाननुषङ्गस्तत्र तत्र स्थित्यभावादेव। अतो न तथात्वं दार्ष्टान्तिकस्य न दृष्टान्ततुल्यत्वमित्यर्थः । परिहरति - ॥ 19 ॥

पृथिव्यादिस्थानान्तर्भावात् स्थानिनः परस्य ब्रह्मणः स्वरूपतो गुणतश्च पृथिव्यादिस्थानगतवृद्धिह्रासादिदोषभाक्त्वमात्रं सूर्यादिदृष्टान्तेन निवर्त्त्यते । कथमिदमवगम्यते? उभयसामञ्जस्यादेवम् उभयदृष्टान्तसामञ्जस्यादेवमिति निश्चीयते । “आकाशमेकं हि यथा घटादिषु पृथग्भवेत्” । जलाधारेष्विवांशुमान्” इति दोषवत्स्वनेकेषु वस्तुषु वस्तुतोऽवस्थितस्याकाशस्य, वस्तुतोऽनवस्थितस्यांशुमतश्चोभयस्यदृष्टान्तस्योपादानं हि परमात्मनः पृथिव्यादिगतदोषभाक्तवनिवत्तर्नमात्रे प्रतिपाद्ये समञ्जसं भवति । घटकरकादिेषु यथा वृद्धिह्रासभाक्षु पृथक् पृथक् संयुज्यमानमप्याकाशं वृद्धिह्रासादिदोषैर्न स्पृश्यते; यथा च जलाधारेषु विषमेषु दृश्यमानोंऽशुमांस्तद्गतवृद्धिह्रासादिभिर्न स्पृश्यते,

तथाऽयं परमात्मा पृथिव्यादिषु नानाकारेष्वचेतनेषु चेतनेषु च स्थितस्तत्तद्गतवृद्धिह्रासादिदोषैरसंस्पृष्टः सर्वत्र वर्त्तमानोऽप्येक एवास्पृष्टदोषगन्धः कल्याणगुणाकर एव । एतदुक्तं भवति - यथा जलादिषु वस्तुतोऽनवस्थितस्यांशुमतो हेत्वभावाज्जलादिदोषानभिष्वङ्गः, तथा पृथिव्यादिष्ववस्थितस्यापि परमात्मनो दोषप्रत्यनीकाकारतया दोषहेत्वभावान्न दोषसम्बन्ध इति, दर्शनाच्च दृश्यते चैवं सर्वात्मना साधर्म्याभावेऽपि विवक्षितांशसाधर्म्याद् दृष्टान्तोपादानम्, सिंह इव माणवक इत्यादौ ।

अतः स्वभावतो निरस्तनिखिलाज्ञानादिदोषगन्धस्य समस्तकल्याणगुणाकरस्य पृथिव्यादिस्थानतोऽपि न दोषसम्भवः ॥ 20 ॥ अथ स्यात् “द्वे वाव ब्रह्मणो रूपे मूर्त्तं चामूर्तमेव च” इति प्रकृत्य समस्तंस्थूलसूक्ष्मरूपं प्रपञ्चं ब्रह्मणो रूपत्वेन परामृश्य “तस्य ह वा एतस्य पुरुषस्य रूपं यथा महारजनं वासः” इत्यादिना आकारविशेषं चाभिधाय “अथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत्परमस्ति” इति सर्वं प्रकृतं ब्रह्मणः प्रकारमितिशब्देन परामृश्य तत्सर्वं प्रतिषिध्य सर्वविशेषाधिष्ठानं सन्मात्रमेव ब्रह्म; विशेषास्त्वेवंविधं स्वस्वरूपमजानता ब्रह्मणा कल्पिता इति दर्शयति; अतः कथमुभयलिङ्गत्वं ब्रह्मण इति

। अत्राह -

नैतदुपपद्यते- यद्व्रह्मणः प्रकृतविशेषवत्त्वं “नेति नेति” इति प्रतिषिध्यत इति, तथा सति भ्रान्तजल्पितायमानत्वात् । न हि ब्रह्मणो विशेषणतया प्रमाणान्तराप्रज्ञातं सर्वं तद्विशेषणत्वेनोपदिश्य पुनस्तदेवानुन्मत्तः

प्रतिषेधति । यद्यपि निर्द्दिश्यमानेषु केचन पदार्थाः प्रमाणान्तरप्रसिद्धाः; तथाऽपि तेषां ब्रह्मणः प्रकारत्वमप्रज्ञातमेव, इतरेषां तु स्वरूपं ब्रह्मणः प्रकारत्वं चाज्ञातम् । अतस्तेषामनुवादासम्भवादत्रैवोपदिश्न्ते । अतस्तन्निषेधो नोपपद्यते । यस्मादेवम् तस्मात् प्रकृतैतावत्त्वं ब्रह्मणः प्रतिषेधतीदं वाक्यम् । ये ब्रह्मणो विशेषाः प्रकृताः; तद्विशिष्टतया ब्रह्मणः प्रतीयमानेयत्ता “नेति

नेति” इति प्रतिषिध्यते ः नेति नेति- नैवं नैवम्, उक्तप्रकारमात्रविशिष्टं न भवति ब्रह्म; उक्त प्रकारविशिष्टतया या ब्रह्मण इयत्ता प्रकृता; साऽत्रेतिशब्देन परामृश्यत इत्यर्थः । यतश्च निषेधानन्तरं ब्रह्मणो भूयो गुणजातं ब्रवीति, अतश्च प्रकृतविशेषणयोगित्वमात्रं ब्रह्मणः प्रतिषेधति । ब्र्रवीति हि भूयो गुणजातं, “न ह्येतस्मादिति नेत्यन्यत्

परमस्ति अथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्य"मिति । अयमर्थः- इति नेति नेति यद्व्रह्म प्रतिपादितं, तस्मादेतस्मादन्यद्वस्तु परं न ह्यस्ति ब्रह्मणोऽन्यत्स्वरूपतो गुणतश्चोत्कृष्टं नास्तीत्यर्थः । तस्य च ब्रह्मणः सत्यस्य सत्यमिति नामधेयं तस्य च निर्वचनं “प्राणा वै सत्यं तेषामेष सत्यम्” इति । प्राणशब्देन प्राणसाहचर्य्याज्जीवाः परामृश्यन्ते, ते तावत् सत्यं, वियदादिवत्स्वरूपान्यथाभावरूपपरिणामाभावात् तेषामेष सत्यं तेभ्योऽप्येष परमपुरुषः सत्यम्, जीवानां कर्मानुगुण्येनज्ञानसङ्कोचविकासौ विद्येते; परमपुरुषस्य त्वपहतपाप्मनस्तौ न विद्येते । अतस्तेभ्योऽप्येष सत्यम् । अतश्चैवं वाक्यशेषोदितगुणजातयोगात् “नेति नेति"ति ब्रह्मणः सविशेषत्वं न प्रतिषिध्यते अपि तु पूर्वप्रकृतेयत्तामात्रम् । अत उभयलिङ्गमेव परं ब्रह्म ॥ 21 ॥

ब्रह्मणः प्रमाणान्तरागोचरत्वेन तत्सम्बन्धितया मूर्त्तामूर्त्तादिरूपानुवादेन तन्निषेधासंभवात् प्रकृतेयत्ताप्रतिषेथ उक्तः; तदेव प्रमाणान्तरागोचरत्वं द्रढयति -

तत्- ब्रह्म प्रमाणन्तरेण नैव व्यज्यते, आह हि शास्त्रं “न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्” “न चक्षुषा गृह्मते नापि वाचा” इत्यादि । हेत्वन्तरं चाह - ॥ 22 ॥

अपि च संराधने- सम्यक्प्रीणने भक्तिरूपापन्ने निदिध्यासन एवास्य साक्षात्कारो नान्यत्रेति श्रुतिस्मृतिभ्यामवगम्यते । “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यः तस्यैष आत्मा विवृणुते ेतनूं स्वाम्” “ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः” इति श्रुतिः । स्मृतिरपि “नाहं वेदैनर् तपसा न दानेन न चेज्यया” “भक्तया त्वनन्यया शक्यः अहमेवंविधोऽर्ज्जुन ! । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परं " इति । भक्तिरूपापन्नमेवोपासनं संराधनं तस्य प्रक्षणनमिति प्रीणमेवोक्तम् । अतो निदिध्यासनाय ब्रह्मस्वरूपमुपदिशत् “द्वे वाव ब्रह्मणः” इत्यादिशास्त्रं ब्रह्मणो मूर्त्तामूर्त्तरूपद्वयादिविशिष्टतां प्रागसिद्धां नानुवदितुं क्षमम् ॥ 23॥

इतश्च प्रकृतैतावत्त्वमेव प्रतिषेधति न मूर्त्तामूत्तादिविशिष्टत्वम्; यतः साक्षात्कृतपरब्रह्मस्वरूपाणां वामदेवादीनां दर्शने प्रकाशादिवत् ज्ञानानन्ददिस्वरूपवन्मूर्त्तादिप्रपञ्चविशिष्टताया अपि ब्रह्मगुणत्वावैशेष्यं प्रतीेयते “तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे ्रअहं मनुरभवं सूर्य्यश्च” इत्यादि । ब्रह्मस्वरूपभूतप्रकाशानन्दादिश्च तेषां वामदेवादीनां संराधनात्मके कर्मण्यभ्यासात् उपलभ्यते, तद्वच्चाभ्यस्तसंराधनानां तेषां मूर्त्तामूर्त्तादिविशिष्टत्वमप्यविशेषेण प्रतीयत इत्यर्थः । उक्तं ब्रह्मण उभयलिङ्गत्वमुपसंहरति - ॥ 24 ॥

अत उक्तैर्हेतुभिर्ब्रह्मणोऽनन्तेन कल्याणगुणगणेन विशिष्टत्वं सिद्धम्, तथा हि सत्युभयलिङ्गं ब्रह्मोपपन्नं भवति ॥ 25 ॥

॥ उभयलिङ्गाधिकरणं समाप्तम् ॥