10 मुग्धाधिकरणम्

मुग्धमधिकृत्य चिन्त्यते । किमियं मूर्च्छा सुषुप्त्यादिष्वन्यतमाऽवस्था? उतावस्थान्तरम्? इति विशये सुषुप्त्यादीनामन्यतमावस्थायामेव मूर्च्छाप्रासिद्धयुपपत्तेरवस्थान्तरकल्पने प्रमाणाभावादन्यतमावस्था इति प्राप्त उच्यते- मुग्धेऽर्द्धसम्पत्तिरिति । मुग्धे पुरुषे यातस्यावस्था सा मरणायार्द्धसम्पत्तिः, कुतः- परिशेषात् । न तावत्स्वप्नजागरौज्ञानाभावात्, निमित्तवैरूप्यादाकारवैरूप्याच्च, न सुषुप्तिमरणे, निमित्तं हि मूर्च्छाया अभिधातादिः, पारिशेष्यान्मरणायार्द्धसम्पत्तिर्मूर्च्छा, मरणं हि सर्वप्राणदेहसम्बन्धोपरतिः, सूक्ष्मप्राणदेहसम्बन्धावस्थितिर्मूर्च्छा ॥ 10 ॥ ॥

॥ मुग्धाधिकरणम् समाप्तम् ॥ 4 ॥