किं सुषुप्त एव प्रबोधसमये उत्तिष्ठति? उतान्य? इति संशये अस्य सकलोपाधिविनिर्मुक्तस्य ब्रह्मणि सम्पन्नस्य मुक्तादविलक्षणत्वेन प्राचीनशरीरेन्द्रियादिसम्बन्धाभावादन्यः- इति प्राप्त उच्यते- स एव त्विति । तु शब्दः पक्षं व्यावर्त्तयति; स एवोत्तिष्ठति, कुतः? कर्मानुस्मृतिशब्दविधिभ्यः । कर्म तावत्सुषुप्तेन पूर्वकृतं पुण्यपापरूपं तत्वज्ञानात्प्राक् तेनैव भोक्तव्यम् । अनुस्मृतिरपि य एवाहं सुप्तः स एव प्रतिबुद्धोऽस्मीति । शब्दोपि सुषुप्तप्रबुद्धस्स एवेति दर्शयति “त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा मशको वा दंशो वा मशमो वा यद्यद्भवन्ति तथा भवन्ति” इति । विधयश्च मोक्षा
र्थाः सुषुप्तस्यमुक्तत्वेऽनर्थकाः स्युः, न चासौ सर्वोपाधिविनिर्मुक्त आविर्भूतस्वरूपः “तद्यत्रैतत्सुषुप्तः” इति
सुषुप्तं प्रकृत्य “नाह खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामि” इति वचनात् । मुक्तस्य च “परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते” “स तत्र पर्येति जक्षत् क्रीडन् रममाणः” “स स्वराह् भवति तस्य सर्वेषु लोकेषु कामचारो भवति” “सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वशः” इति सर्वज्ञत्वादि श्रूयते, अतः सुषुप्तः संसरन्नेवायस्तसर्वकरणो ज्ञानभोगाद्यशक्तो विश्रमस्थानंपरमात्मानमुपसम्पद्याश्वस्तः पुनर्भोगायोत्तिष्टति ॥ 9 ॥
॥ कर्मानुत्मृतिशब्दविध्यधिकरणं समाप्तम् ॥ 3 ॥