इदानीं सुषुप्तिस्थानं परीक्ष्यते, इदामाम्नायते “यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानाति आसु तदा नाडीषु सृप्तो भवति” इति; तथा “अथ यदा सुषुप्ताह भवति यदा न कस्यचन वेद
हिता नाम नाड्यो हि द्वासप्ततिसहस्त्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते” इति; तथा “यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य ! तदा सम्पन्नो भवति” इति । एवं नाड्यः पुरीतद्व्रह्म सुषुप्तिस्थानत्वेन श्रूयतेः किमेषां विकल्पः? समुच्चयो वेति विशये निरपेक्षत्वप्रतीतेर्युगपदनेकस्थानवृत्त्यसम्भवाच्च विकल्पः- इति प्राप्ते उच्यते- तदभावः- इति । तदभावः- स्वप्नाभावः- सुषुप्तिर्नाडीषु पुरितत्यात्मनि च भवति, एषां स्थानानां समुच्चय इत्यर्थः । कुतः? तच्छ्रुतेः- त्रयाणां स्थानत्वश्रुतेः । न च कार्यभेदेन समुच्चये सम्भवति पाक्षिकबाधगर्भविकल्पो न्यायः । सम्भवति च प्रासादखट्वापर्यङ्कवन्नाड्यादीनां कार्यभेदः । तत्र नाडीपुरीततौ प्रासादखट्वास्थानीयौ; ब्रह्म तु पर्यङ्कस्थानीयम् । अतो ब्रह्मैव साक्षात्सुषुप्तिस्थानम् ॥ 7 ॥
यतो ब्रह्मैव साक्षात्सुषुप्तिस्थानम्, अतोऽस्माद्व्रह्मणः एषां जीवानां प्रवोधः श्रूयमाण उपपद्यते, “सत आगम्य न विदुः सत आगच्छामहे” इत्यादिषु ॥ 8 ॥
॥ तदभावाधिकरणं समाप्तम् ॥