07 सन्ध्याधिकरणम्

एवं कर्मानुरूपगमनागमनजन्मादियोगेन जाग्रतो जीवस्य दुःखित्वं ख्यापितम् इदानीमस्य स्वप्नावस्था परीक्ष्यते, स्वप्नमधिकृत्य श्रूयते “न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथः सृजते, न तत्रानन्दा मुदः प्रमुदो भवन्त्यथानन्दान्मुदः प्रमुदः सृजते न तत्र वेशान्ताः पुष्करिण्यः स्त्रवन्त्यो वेशान्ताः पुष्करिण्यः भववन्त्यः सृजते स हि कर्त्ता” इति । तत्र संशयः- किमियं रथादिसृष्टिर्जीवेनैव क्रियते? आहोस्विदीश्वरेण इति । किं युक्तम्, सन्ध्ये सृष्टिर्जीवेनेति । कुतः? साध्यं- स्वप्न

स्थानमुच्यते “सन्ध्यं तृतीयं स्वप्नस्थानम्” इति वचनात् सा तु जीवेनैव क्रियते, सृजते स हि कर्त्ता इत्याह हि । स्वप्नदृग्जीव एव तत्र प्रतीयते ॥ 1 ॥

किञ्च एनं जीवं स्वप्ने कामानां निर्मातारमेकेशाखिनोऽधीयते, “य एषु सुप्तेषु जागर्त्ति कामं कामं पुरुषो निम्मिर्माणः” इति । पुत्रादयश्च तत्र काम्यमानतया कामशब्देन निर्दिश्यन्ते, नेच्छामात्रं, पूर्वत्र हि “सर्वान् कामाञ् छन्दतः प्रार्थयस्व” “शतायुषः पुत्रपौत्रान् वृणीष्व” इति पुत्रादय एव कामाः प्रकृताः, अतो रथादीन् जीवः स्वप्ने सृजति; जीवस्य च सत्यसङ्कल्पत्वं प्रजापतिवाक्ये श्रुतम्, अत उपकरणाद्यभावेऽपि सृष्टिरुपपद्यते । इति प्राप्तेऽभिधीयते -॥ 2 ॥

तुशब्दः पक्षं व्यावर्त्तयति; स्वप्ने रथपुष्करिण्याद्यर्थजातं मायामात्रं परमपुरुषसृष्टमित्यर्थः । मायाशब्दो ह्याश्चर्य

वाची “जनकस्य कुले जाता देवमायेव निर्मिता” इत्यादिषु तथा दर्शनात् । अत्रापि “न तत्र रथा न रथयोगा न पन्थानः”- सकलेतरपुरुषानुभाव्यतया न भवन्तीत्यर्थः । अथ “रथान् रथयोगान् पथः सृजते”, स्वप्नदृगनुभाव्यतया तत्कालमात्रावसानान् सृजत इत्याश्चर्यरूपत्वमेवाह । एवंविधाश्चर्यरूपा सृष्टिः सत्य सङ्कल्पस्य परमपुरुषस्यैवोपपद्यते, न जीवस्य; तस्य सत्यसङ्कल्पत्वादियुक्तस्यापि संसारदशायां कार्त्स्येनानभिव्यक्तस्वरूपत्वान्न जीवस्य तथाविधाश्चर्यसृष्टिरुपपद्यते । “कामं कामं पुरुषो निर्म्मिमाणः” इति च परमपुरुषमेव निर्मातारमाह" “य एषु सुप्तेषु जागतिर् तदेव शुक्रं तद्व्रह्म तदेवामृतमुच्यते । तस्मिल्ँलोकाः श्रिताः सर्वे तदु नात्येति कश्चन” इत्युपक्रमोपसंहारयोः परमपुरुषासाधारणस्वभावप्रतीतेः । अथ वेशान्तान् पुष्करिण्यः स्त्रवन्त्यः सृजते स हि कर्त्ता" इति च तया श्रुत्यैकार्थ्यात् परमपुरुषमेव कर्त्तारमाह । स्वाभाविकं चेज्जीवस्यापहतपात्मत्वादिकम्, कुतस्तन्नाभिव्यज्यत इत्यत आह - ॥ 3 ॥

तुशब्दः शङ्काव्यावृत्त्यर्थः, पराभिध्यानात्- परमपुरुषसङ्कल्पात्, अस्य जीवस्य स्वाभाविकं रुपन्तिरोहितम् अनादिकर्मपरम्परया कृतापराधस्य ह्यस्य स्वाभाविकं कल्याणरूपं परमपुरुषस्तिरोधापयति; ततस्तत्सङ्कल्पादेव ह्यस्य जीवस्य बन्धमोक्षौ श्रुतौ यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते अथ सोऽभयं गतो भवति यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति" “एष ह्येवानन्दयाति” “भीषाऽस्माद्वातः पवते” इत्यादिषु ॥ 4 ॥

सोऽपि तिरोभावो देहयोगद्वारेण वा भवति सूक्ष्माचिच्छक्तियोगद्वारेण वा; सृष्टिकाले देहावस्थेनाचिद्वस्तुना संयोगाद्भवति, प्रलयकाले नामरूपविभागानर्हातिसूक्ष्माचिद्वस्तुयोगात् । अतोऽनभिव्यक्तस्वरूपत्वात्स्वप्ने जीवो न रथादीन् सङ्कल्पमात्रेण स्त्रष्टुं शकनोति “तस्मिल्ँलोकाः श्रिताः सर्वे तदु नात्येति कश्चन” इति सर्वेषु सुप्तेषु जागरणं सर्वलोकाश्रयत्वमित्यादयो हि परमपुरुषस्यैव सम्भवन्ति । अतो जीवानामल्पाल्पकर्मानुगुलफलानुभवार्थं तावन्मात्रकालावसानान् तदेकानुभाव्यानर्थानुत्पादयति ॥ 5 ॥

इतश्च स्वाप्नार्था न जीवसङ्कल्पपूर्वकाः; यतः स्वप्नोऽभ्युदयानभ्युदययोः सूचकः श्रुतेरवगम्यते “यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने” इति; “अथ स्वप्ने पुरुषं कृष्णदन्तं पश्यति स एनं हन्ति” इत्यादेश्च । स्वप्नाध्यायविदश्च स्वप्नं शुभाशुभयोः सूचकमाचक्षते । सूचकत्वं च स्वसङ्कल्पायत्तस्य नोपपद्यते; तथा चाशुभस्यानिष्टत्वात् शुभस्य सूचकमेव सृष्ट्वा पश्येत् । अतः स्वप्ने सृष्टिरीश्वरेणैव कृता ॥ 6 ॥

॥ सन्ध्याधिकरणं समाप्तम् ॥ 1 ॥