06 अन्याधिष्ठिताधिकरणम्

अवरोहन्तो जीवाः व्रीह्यादिभावेन जायन्त इति श्रूयते, “मेधो भूत्वा प्रवर्षति त इह व्रीहियवा आषधिवनस्पतयस्तिलमाषा जायन्ते” सति । ते किमन्यै र्भोक्तृभिव्रीह्यादिशरीरैरधिष्ठितान् व्रीह्यादीनाश्लिष्यन्ति? उत ते भोक्तारो व्रीह्यादिशरीरा जायन्ते? इति विशये “जायन्ते” इति वचनात् देवो जायते मनुष्यो जायत इतिवद्व्रीह्यादिशरीरा एव्नइति प्राप्ते उच्यते- अन्याधिष्ठिते इति । जीवान्तरेणाधिष्ठिते व्रीह्यादिशरीरे तेषां संश्लेषमात्रमेव । कुतः? पूर्ववदभिलापात्- आकाशादिमेधपर्यन्तवत् केवलतद्भावाभिलापात् । यत्र हि भोक्ततृत्वमभिप्रेतम्; तत्र तत्साधनभूतं कर्माभिलप्यते, रमणीयचरणाः कपूयचरणा इति । इह चाकाशादिवन्नाभिलप्यते कर्म, फलप्रदाने प्रवृत्तस्य स्वर्गोपभोग्यपलस्येष्टादेः कमर्णः स्वर्गोपभोगादेव समाप्तत्वात्, अनारब्धस्य “रमणीयचरणाः कपूयचरणाः” इति वक्ष्यमाणत्वात्, मध्ये कर्मान्तराभावाच्च । अत आकाशादिभाववचनवद् व्रीह्यादिभावेन जन्मवचनमौपचारिकम् ॥ 24 ॥

नैतदस्ति यदन्याधिष्ठिते व्रीह्यादिशरीरे संश्लेषमात्रम्, भोक्तृत्वहेत्वंभावान्न व्रीह्यादि भावेन जन्म इति भोक्तृत्वहेतुसद्भावात् स्वर्गोप भोग्यफलमिष्टादिकर्मैवाशुद्धं पापमिश्रम्, अग्नीषोमीयादिहिंसायुक्तत्वात् । हिंसा च “न हिंस्यात्सर्वा भूतानी” ति निषिद्धत्वात् पापमेव । न चात्र पदाहवनीयादिवदुत्सर्गापवाद भावः सम्भवति, भिन्नविषयत्वात् । अग्निषोमीयहिंसाविधिर्हिंसायाः क्रतूपकारकत्वं बोधयति, “न हिंस्या” दिति

तु हिंसायाः प्रत्यवायफलत्वम् । अथोच्येत- अग्नीषोमीयादिषु विधितः प्रवृत्तेनर् तद्विषयं निषेधविधिरास्कन्दति, रागप्राप्तविषयत्वात्तस्येति; नैवम्, इहापि रागप्राप्तेरविशिष्टत्वात् । “स्वर्गकामो यजेत” इत्येवमादौ हि कामिनः कर्त्तव्यतया यागाद्युपदेशात् यागादेः स्वर्गादिसाधनत्वमवगम्य फलरागत एव यागादौ प्रवर्त्तते । अग्नीषोमीयादिष्वपि तेषां फलसाधनभूतस्य यागादेरुपकारकत्वं शास्त्रादवगम्य रागादेव प्रवर्त्तते । लौकिक्यामपि

हिंसायां केनचित्प्रमाणेन िंहंसायाः स्वसमीहितसाधनत्वमवगम्य रागात्प्रवर्त्तत इति न कश्चन विशेषः । तथा नित्येष्वपि कर्मसु “सर्ववर्णानां स्वधर्मानुष्ठाने परमपरिमितं सुख"मित्यादिवचनात् फलसाधनत्वमवगम्य रागादेव प्रवृत्तिरिति तेषामप्युशुद्धियुक्तत्वम् । अत इष्टादीनां पापमिश्रत्वेनाशुद्धियुक्तानां स्वर्गेऽनुभाव्यं फलं स्वर्गेऽनुभूय हिंसांशस्य फलं व्रीह्यादिस्थावर भावेनानुभूयते । स्थावरभावं च पापफलं स्मरन्ति “शरीरजैः कर्मदोषैर्याति स्थावरतां नरः” इति । अतो व्रीह्यादिभावेन भोगायाऽनुशयिनो जायन्त इति चेत्- तन्न कुतः? शब्दात्- अग्नीषोमीयादेः संज्ञपनस्य स्वर्गलोकप्राप्ति हेतुतया हिंसात्वाभाव शब्दात् पशोर्हि संज्ञपननिमित्तां स्वर्गलोकप्राप्तिं वदन्तं शब्दमामनन्ति “हिरण्यशरीर ऊर्ध्वः स्वर्गं लोकमेति” इत्यादिकम् । अतिशयिताभ्युदयसाधनभूतो व्यापारोऽल्पदुःखदोऽपि न हिंसा, प्रत्युत रक्षणमेव । तथा च मन्त्रवर्णः “न वा उ एतन् म्रियसे न रिष्यसि देवान् इदेषि पथिभिः सुगेभिः । यत्र यन्ति सुकृतो नापि

दुष्कृतस्तत्रत्वा देवः सविता दधातु” इति । चिकित्सकं च तादात्विकाल्पदुःखकारिणमपि रक्षकमेव वदन्ति, पूजयन्ति च तज्ज्ञाः ॥ 25 ॥

इतश्चौपचारिकं व्रीह्यादिजन्मवचनम्, व्रीह्यादिभाववचनान्तरं “यो यो ह्यन्नमत्ति यो यो रेतः सिञ्चति तद्भूय एव भवति” इति रेतः सिग्भावोऽनुशयिनां श्रूयमाणो यथा तद्योगमात्रं प्रतिपादयति; तद्वद्व्रीह्यादि भावोऽपीत्यर्थः ॥ 26 ॥

योनिप्राप्तेः पश्चादेवानुशयिनां शरीरप्राप्तिः, तत्रैव सुखदुःखोपभोगसद्भावात्, ततः प्रागाकाशादिप्राप्तिप्रभृति तद्योगमात्रमेवेत्यर्थः ॥

॥ अन्याधिष्ठिताधिकरणं ॥ 6 ॥