05 नातिचिराधिकरणम्

आकाशप्राप्तिप्रभृति यावद्व्रीह्यादिप्राप्ति किं तत्र तत्र नातिचिरं तिष्ठति, उताऽनियमः? इति विशये नियमहेत्वाभावादनियरः- इति प्राप्त उच्यते नातिचिरेण इति । कुतः? विशेषात् उत्तरत्र व्रीह्यादिप्राप्तौ “अतो वै खलु दुर्निष्प्रपतर"मिति विशिष्यकृच्छ्निष्क्रमणत्वाभिधानात् पूर्वत्र

ह्याकाशादिप्राप्तावचिरं निष्क्रमणं गम्यते, दुर्निष्प्रपतरमिति छान्दसः तशब्दलोपः, दुर्निष्प्रपततरं

दुःखनिष्क्रमणतरमित्यर्थः ॥ 23 ॥

॥ नातिचिराधिकरणं समाप्तम् ॥ 5 ॥