04 तत्स्वाभाव्यापत्त्यधिकरणम्

इष्टादिकारिणो भूतसूक्ष्मपरिष्वक्ताः सानुशयाश्चन्द्रमसोऽवरोहन्तीत्युक्तम्, अवरोहप्रकारश्च 2अथैतमेवाध्वानं पुनर्निवर्त्तन्ते यथेतमाकाशमाकाशाद्वायुं वायुर्भूूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवति ्रअभ्रं भूत्वा मेधो भवति मेधो भूत्वा प्रवर्षति" इति वचनात् । यथेतमनेवं चेत्युक्तम्, तत्रा-स्याकाशादिप्रतिपत्तौ देवनुष्यादि भाववदाकाशादि भावः? उत तत्सादृश्यापत्तिमात्रमिति विशये श्रद्धावस्थस्य सोमभाववदविशेषादाकाशादिभावः- इति प्राप्ते तत्स्वाभाव्यापत्तिरेवेत्युच्यते । तत्स्वाभाव्यापत्तिः - तत्सादृश्यापत्तिरित्यर्थः । कुत एतत्? उपपत्तेः- सोमभावमनुष्यभावादौ हि सुखदुःखोपभोगाय तद्भावः;

अत्र त्वाकाशादौ सुखदुःखोपभोगाभावात् तद्भावानुपपत्तेस्तदापत्तिवचनं तत्संसर्गकृतत्सादृश्यापत्त्यभिप्रायः ॥ 22 ॥

॥ तत्स्वाभाव्यापत्त्यधिकरणं समाप्तम् ॥ 4 ॥