03 अनिष्टादिकार्यधिकरणम्

केवलेष्टापूर्त्तदत्तकारिणश्चन्द्रमसं गत्वा सानुशया एव निवर्त्तन्त इत्युक्तम्, इदानीमनिष्टादिकारिणोऽपि चन्द्रमसं गच्छन्ति नेति चिन्त्यते । ये विहितं न कुर्वन्ति, ये च निषिद्धं कुवर्न्ति, ते उभयेऽपि पापकर्माणोऽनिष्टादिकारिणः । किं युक्तं? ते अपि चन्द्रमसं गच्छन्तीति; कुतः, तेषामपि हि तद्गमनं श्रुतं “ये वै केचास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति” इत्यविशेषेण सवोषामेव गतिश्रवणात् । एवं तर्हि सुकृतदुष्कृतकारिणोरुभयोरप्यविशिष्टैव गतिः स्यात्, नेत्याह - ॥12 ॥

तुशब्दः शङ्कां व्यावर्त्तयति, इतरेषामनिष्टादिकारिणां चन्द्रारोहावरोहौ संयमनेयमशासने तत्प्रयुक्तयातना

अनुभूयैव, नान्यथा; कुतः, तद्गतिदर्शनात्; दृश्यते हि पापकर्मणां यमवश्यतया तद्गमनम् “अयं लोको नास्ति न पर इतिमानी पुनः पुनर्वशमापद्यते मे” “वैवस्वतं सङ्गमनं जनानां यमं राजानम्” इत्यादिषु ॥ 13 ॥

स्मरन्ति च सर्वेषां यमवश्यतां पराशरादयः “सर्वे चैते वशं यान्ति यमस्य भगवन् किल” इत्यादिषु ॥ 14 ॥

पापकर्मणां गन्तव्यत्वेन रौरवादीन् सप्त नरकानपि स्मरन्ति । ननु सप्तसु लोकेषु गच्छतां कथं यमसदनप्राप्तिः, अत आह - ॥ 15 ॥

तेष्वपि सप्तसु यमाज्ञयैव गमनादविरोधः । अतोऽनिष्टादिकारिणामपि यमलोकं प्राप्य स्वकर्मानुरूपं यातनाश्चानुभूय पश्चाच्चन्द्रारोहावरोहौ स्तः । इति प्राप्त उच्यते - ॥ 16 ॥

तुशब्दः पक्षव्यावृत्त्यर्थः । अनिष्टादिकारिणामपि चन्द्रप्राप्तिरस्तीत्येतन्नोपपद्यते; कुतः? विद्याकर्मणोरिति विद्याकर्मणोः फलभोगार्थत्वाद्देवयानपितृयाणयोः । एतदुक्तं भवति - अनिष्टादिकारिणां यथा विद्याविधुर

त्वाद्देवयानेन पथा गमनं न सम्भवति; तद्वदेवेष्टापूर्तदत्तविधुरत्वात्पितृपाणेन चन्द्रगमनमपि न सम्भवतीति । देवयानपितृयाणयोर्विद्याविषयत्वं पुण्यकर्मविषयत्वं च कथमवगम्यत इति चेत्- प्रकृतत्वात्तयोः । प्रकृता हि देवयाने विद्या, पितृयाणे च कर्म, “तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धां तप इत्युपासते” इत्युकत्वा “तेऽर्च्चिषमभिसम्भवन्ति अर्चिषोऽहः” इत्यादिना देवयानवचनात्, “अथ य इमे ग्रामे इष्टापूर्त्ते दत्तमित्युपासते” इत्युकत्वा “ते धूममभिसम्भवन्ति” इत्यादिना पितृयाणवचनाच्च । “ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति” इत्येतदपि वचनं “य इष्टादिकारिणस्ते सर्वे” इति परिणेयम् । ननु पापकर्मणां चन्द्रगमनाभावे पञ्चमाहुत्यसम्भवात् शरीरारम्भ एव नोपपद्यते; “पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति” इति हि शरीरारम्भः श्रूयते, स चाहुतिश्चन्द्रप्राप्तिपूविर्केति दर्शितम्; अतः शरीरारम्भायैव तेषामपि चन्द्रारोहावरोहाववश्याभ्युपेत्यावित्यत आह - ॥ 17 ॥

न तृतीयस्य स्थानस्य शरीरारम्भाय पञ्चमाहुत्यपेक्षा; कुतः? तथोपलब्धेः- तृतीयस्थानशब्देन केवलपाप

कर्माण उच्यन्ते, तेषां देहारम्भे पञ्चमाहुत्यनपेक्षत्वमुपलभ्यते “वेत्थ यथा केनासौ लोको न सम्पूर्यते” इत्यस्य प्रश्नस्य प्रतिवचने “अथैतयोः पथोर्न कतरेण च तानीमानि क्षुद्राण्यसकृदावर्त्तीनि भूतानि भवन्ति जायस्य म्रियस्वेत्येतत्तृतीयं स्थानं तेनासौ लोको न सम्पूर्यते” इति तृतीयस्थानस्य द्युलोकारोहावरोहाभावेन द्युलोकासंपूर्तिवचनादस्य तृतीयस्थानस्य शरीरारम्भाय न पञ्चमाहुत्यपेक्षा । पञ्चम्यामाहुतावितिं चापां

पञ्चमाग्निसम्बन्धस्य पुरुषवचस्त्वहेतुत्वमात्रं प्रतिपादयति, नान्यन्निवारयति, अवधारणाश्रवणात् ॥ 18 ॥

पुण्यकर्मणामपि केषाचित्पञ्चमाहुत्यनपेक्षया देहारम्भो लोके स्मर्यते द्रौपदीधृष्टद्युम्नप्रभृतीनाम् ॥ 19 ॥

श्रुतावपि दृश्यते केषाञ्चित्पञ्चमाहुत्यनपेक्षया देहारम्भः “तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्ति अण्डजं जीवजमुद्भिज्जम्” इति एवमुद्भिज्जस्वेदजयोर्भूतयोः पञ्चमाहुतिमन्तरेणोत्पत्तिर्द्दश्यते । ननु स्वेदजानामत्र न सङ्कीर्त्तनमस्ति “त्रीण्येव वीजानि” इति वचनात्; तत्राह - ॥ 20 ॥

संशोकजस्य स्वेदजस्यापि “अण्डजं जीवजमुद्भिज्जम्” इत्यत्र तृतीयेनोद्भिज्जशब्देनावरोधः सङ्ग्रहो विद्यते इत्यर्थः; अतः केवलपापकर्मणां चन्द्रप्राप्तिर्न सम्भवति ॥ 21 ॥

॥ अनिष्टादिकायर्धिकरणं समाप्तम् ॥ 3 ॥