केवलेष्टापूर्त्तदत्तकारिणां धूमादिनामपि पितृयाणेन पथा गमनं कर्मफलावसाने पुनरावर्त्तनं चाम्नां तम् “यावत्सम्पातमुषित्वाऽथैततमेवाध्वानं पुनर्निवर्त्तन्ते” इति । तत्र प्रत्यवरोहन् जीवः किमनुशय
वान्प्रत्यवरोहति? उत न? इति संशय्यते; किं युक्तम्, कमर्णः कृत्स्नस्योपभुक्तत्वान्नानुशयवानिति प्राप्तम् । अनुशयो ह्युपभुक्तशिष्टं कर्म । तच्च कृत्स्नफलभोगे सति नावशिष्यते । यावत्सम्पातमुषित्वेति वचनात्कृत्स्नोपभोगश्च ज्ञायते । सम्पतन्त्यनेन स्वर्गं लोकमिति सम्पातः कर्मोच्यते । श्रुत्यन्तरं च “प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । तस्माल्लोकात्पुनरेत्यस्मै लोकायकर्मणे"इति ॥ एवं प्राप्तेऽभिधीयते- अनुशयवान्प्रत्यवरोहति इति । कुतः दृष्टस्मृतिभ्यां श्रुतिस्मृतिभ्यामित्यर्थः । श्रुतिस्तावत् “तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन् ब्राह्मयोनिं क्षत्रिययोनिं वैश्ययोनिं वा अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा” इति प्रत्यवरूढान्प्रतिश्रूयते । “अमुष्माल्लोकात्प्रत्यवरूढेषु रमणीयकर्माणो रमणीयां ब्राह्मणादियोनिं प्रतिपद्यन्ते; कपूयचरणाः- कुत्सितकर्माणः कुत्सितां श्वसूकरचण्डालादियोनिं पतिपद्यन्त इति प्रत्यवरूढानां पुण्यपापकर्मयोगं दर्शयति । स्मृतिरपि “वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुः श्रुतवित्तवृत्तसुखमेधसो हि जन्म प्रतिपद्यन्ते विष्वञ्चो विपरीता नश्यन्ति” इति । तथा “ततः परिवृत्तौ कर्मफलशेषेण जातिं रूपं वर्णं बलं मेधां प्रज्ञां द्रव्याणि धर्मानुष्ठानमिति प्रतिपद्यन्ते तच्चक्रवदुभयोर्लोकयोः सुख एव वर्त्तते” इति । “यावत्सम्पात"मिति फलदानप्रवृत्तकर्मविशेषविषयम्, “यत्किञ्चेह करोत्यय"मितीदमपि
“रमणीयचरणाः” “कपूयचरणाः” इति न चरणशब्देन पुण्यापापरूपं कर्माभिधीयते, चरणशब्दस्य लोकवेदयोराचारे प्रसिद्धेः, लौकिकाः खलु चरणमाचारः शीलं वृत्तमिति पर्यायानभिमन्यन्ते, वेदे च “यान्यनवद्यानि कर्माणि तानि सेवितव्यानि” “यान्यस्माकं सुचरितानि नानि त्वयोपास्यानि” इति चरणकर्मणी भेदेन व्यपदिश्येते; अतश्चरणाव्छीलाद् योनिविशेषप्राप्तिः, नानुशयादिति चेत्- तन्न, चरणश्रुतिः कर्मोपलक्षणार्थेति कार्ष्णाजिनिराचार्यो मन्यते, केवलादाचारात्सुखदुःखप्राप्त्यसम्भवात् । सुखदुःखे हि पुण्यपापरूपकर्मफले ॥ 9 ॥
एवं तर्ह्यफलत्वादाचारस्य स्मृतिविहितस्यानर्थक्यमेव चेत्- तन्न, तदपेक्षत्वात् पुण्यस्य कर्मणः । आचारवत एव पुण्यकर्मस्वधिकारः- “सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकमर्सु” “आचारहीनं न पुनन्ति वेदाः” इत्यादिवचनेभ्यः । अतश्चरणश्रुतिः कर्मोपलक्षणार्थेति कार्ष्णाजिनेरभिप्रायः ॥ 10 ॥
“पुण्यं कर्माचरति” “पापं कर्माचरति” इति कर्मणि चरतेः प्रयोगात्पृथङ्निर्देशस्य च प्रत्यक्षश्रुतिसिद्धाचारानुमितश्रुतिसिद्धविषयत्वेन गोवलीवर्द्दन्यायेनोपपत्तेः। मुख्ये सम्भवति न लक्षणा न्याय्येति सुकृतदुष्कृते एव चरणशब्दाभिधेये इति बादरिराचार्य्यो मन्यते । अत्र वादरिमतमेव स्वमतम्;
आचारानुमितश्रुतिविहि
तसन्ध्यावन्दनादेः कर्मान्तराधिकारसम्पादनं फलमिति तु स्वीकृतम्, अतः सानुशया एव प्रत्यवरोहन्ति ॥ 11 ॥
॥ कृतात्ययाधिकरणं समाप्तम् ॥ 2 ॥