अतिक्रान्ताध्यायद्वयेन निखिलजगदेककारणं निरस्तनिखिलदोषगन्धमपरिमितोदारगुणसागरं सकलेतरविलक्षणं परं ब्रह्म मुमुक्षुभिरुपास्यतया वेदान्ताः प्रतिपादयन्तीत्ययमर्थः स्मृतिन्यायविरोधपरिहारपरपक्षप्रतिक्षेपवेदान्तवाक्यपरस्परविरोधपरिहाररूपकार्य्यस्वरूपसंशोधनैस्तद्दुर्धर्षणत्वहेतुभिः सह स्थापितः; अतोऽध्यायद्वयेन ब्रह्मस्वरूपं प्रतिपादितम् । उत्तरेणेदानीं तत्प्राप्त्युपायैः सह प्राप्तिप्रकारश्चिन्तयितुमिष्यते । तत्र तृतीयाध्याये उपायभूतोपासनविषया चिन्ता वर्त्तते। उपासनारम्भाभ्यर्हितोपायश्च प्राप्यवस्तुव्यतिरिक्तवैतृष्ण्यं, प्राप्यतृष्णा चेति; तत्सिद्धयर्थं जीवस्य लोकान्तरेषु सञ्चरतो जाग्रतः स्वपतः सुषुप्तस्य मूर्च्छतश्च दोषाः, परस्य च ब्रह्मणस्तद्रहितता, कल्याणगुणाकरत्वं च प्रथमद्वितीययोः पादयोः
प्रतिपाद्यते । तत्र देहाद्देहान्तरङ्गच्छन्नयं जीवो देहान्तरारम्भहेतुभिर्भूतसूक्ष्मैः सम्परिष्वक्त एव गच्छति, उत नेति चिन्तायां यत्र यत्र जीवो याति; तत्र तत्र भूतसूक्ष्माणां सुलभत्वादसम्प्ररिष्वक्तो यातीति प्राप्तम् । पश्चादपि पूर्वपक्षवीजान्युपन्यस्य निरसिष्यति । तत्र सिद्धान्तमाह तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः- इति ।
संज्ञामूर्तिकलृप्तिरिति मूर्तिशब्देन देहः प्रस्तुतः स तच्छब्देन परामृश्यते । तदन्तरप्रतिपत्तौ देहान्तरगमने भूतसूक्ष्मैः संपरिष्वक्तो जीवो रंहति गच्छतीत्यर्थः । कुतः प्रश्ननिरूपणाभ्यां, प्रश्नप्रतिवचनास्यां
पञ्चग्निविद्यायामेवं प्रश्नप्रतिवचने आम्नायेते, श्वेतकेतुं किलारुणेयं पाञ्चालः प्रवाहणः कर्मिणां गन्तव्यदेशं, पुनरावृत्तिप्रकारं देवयानपितृयाणपथव्यावर्त्तने, अमुष्यलोकस्याप्राप्तारं च, वेत्थेति पृष्ट्वेदमपि पप्रच्छ “वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति” इति । तत इमं पश्चिमं प्रश्नं प्रतिब्रुवंश्च द्यलोकमग्नित्वेन रूपयित्वा “तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति” इत्यादिना देवाख्या जीवस्य प्राणा अग्नित्वेन
रूपिते द्युलोके श्रद्दाख्यं वस्तु प्रक्षिपन्ति, सा च श्रद्धा सोमराजाख्यामृतमयदेहरूपेण परिणमते; तं चामृतमयं देहं त एव प्राणाः पर्ज्जन्येऽग्नित्वेन रूपिते प्रक्षिपन्ति स; च देहस्तत्र प्रक्षिप्तो वर्षं भवति; तच्छ वर्षं त एव प्राणाः पृथिव्यामग्नित्वरूपितायां प्रक्षिपन्ति, तच्च तत्र प्रक्षिप्तमन्नं भवति, तच्चान्नं त एव पुरुषेऽग्नित्वरूपिते प्रक्षिपन्ति । तत्र तच्च रेतोभवति, तच्च त एव योषायामग्नित्वरूपितायां प्रक्षिपन्ति, तच्च तत्र प्रक्षिप्तं गर्भो भवति इत्युकत्वाह “इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति” इत्येवं पञ्चम्यामाहुतौ हुतायामापः पुरुषशब्दा
भिलप्या भवन्तीत्यर्थः । एवमुक्ते पूर्वास्वप्याहुतिष्वनुवर्त्तमानानामेवापां सूक्ष्मरूपाणामिदानीं पुरुषाकारत्वं भवतीत्युक्तं भवति । अत एवं प्रश्नप्रतिवचनाम्यां देहहेतुभूतैर्भूतसूक्ष्मैः सह तत्र तत्र यातीति गम्यते । नन्वापः पुरुषवचस इत्युक्तेऽपां पुरुषाकारपरिणामप्रतीतेर्गच्छता जीवेन तासामेव परिष्वङ्ग प्रतियते अतः कथं सर्वेषां भूतसूक्ष्माणां परिष्वङ्ग इति त तत्राह- ॥ 1 ॥
तु शब्दश्चोद्यं व्यावर्त्तयति । देहारम्भिकाणामपां केवलानां न देहारम्भसम्भवः, देहाद्यारम्भाय हि तासां त्रिवृतं त्रिवृतमेकैकामिति त्रिवृत्करणम् । केवलानामपां श्रवणं तु तासां भूयस्त्वात्, देहे च लोहितादिभूयस्त्वेनारम्भकेष्वपां भूयस्त्वं गम्यते ॥ 2 ॥
इतश्च भूतसूक्ष्मपरिष्वक्तस्य गमनमिति गम्यते, उत्क्रामति जीवे प्राणानां तदनुगतिः श्रूयते, “तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वेप्राणा अनूत्क्रामन्ति” इति, र्स्मयते च “मनः षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति । शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्” इति । न च निराश्रयाणां गतिरुपपद्य इति तदाश्रयभूतानां भूतसूक्ष्माणामपि गतिरभ्युपगन्तव्या ॥ 3 ॥
“यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति, वातं प्राणश्चक्षुरादित्यम्” इत्यादिना प्राणानां जीवमरणकालेऽग्न्यादिष्वप्ययश्रवणान्न तेषां जीवेन सह गमन मिति गतिश्रुतिरन्यथा नेयेति चेन्न- भाक्तत्वात् अग्न्यादिष्वप्ययश्रवणस्य । कथं भाक्तत्वम्? “ओषधीर्लोमानि वनस्पतीन्केशाः” इत्यनपियद्भिर्लोमादिभिः सह श्रवणात् । अतश्चक्षुराद्यप्ययश्रुतिरधिष्ठातृदेवतापक्रमणपरा ॥ 4 ॥
यदुक्तमद्भिस्सूक्ष्माभिर्भूतान्तरसंसृष्टाभिः परिष्वक्तो जीवो गच्छतीति प्रश्नप्रतिवचनाभ्यामवगम्यत इति; तन्नोपपद्यते, द्युलोकाग्निविषये प्रथमे होमेऽपां होम्यत्वाश्रवणात् । “तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति” इति श्रद्धैव होम्यत्वेन श्रुता । श्रद्धा नाम जीवस्य मनोवृत्तिविशेषत्वेन प्रसिद्धा । अतो नापस्तत्र होम्या इति चेत्- न, यतस्ताः- आप एव श्रद्धाशब्देन तत्राभिधीयन्तेः कुतः? प्रश्नप्रतिवचनोपपत्तेः “वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति” इति प्रश्नस्य प्रतिवचनोपक्रमे हि श्रद्धा द्युलोकाग्नौ होम्यत्वेन श्रुता; तत्र यदि श्रद्धाशब्देनापो नोच्येरन् ततोऽन्यथा प्रश्नोऽन्यथा प्रतिवचनमित्यसङ्गतं स्यात् । “इति तु पञ्चम्यामाहुतावापः पुरुषावचसः” इति प्रतिवचननिगमनं च श्रद्धाया अप्त्वमेव सूचयति । “वेत्थ यथा” इति हि प्रश्नगतः प्रकारः “इति तु पञ्चम्याम्” इतीतिशब्देन परिहारे निगम्यते । श्रद्धासोमराजवर्षान्नरेतोगर्भरूपेणाऽपां परिणाममुकत्वा ह्येवमापः पुरुषवचस इति निगम्यते । श्रद्धाशब्दस्य चाप्सु वैदिकप्रयोगो दृश्यते “अपः प्रणयति श्रद्धा वा आपः” इति । श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति" इति सोमाकारेण परिणामश्चापामेवोपपद्यते । अतो भूतान्तरसंसृष्टाभिरद्भिः सम्परिष्वक्तो जीवो रंहतीत्युपपन्नम् ॥ 5 ॥
यत्पुनरुक्तमद्भिः सम्परिष्वक्तो जीवो यातीत्ययमर्थ एतस्म्राद्वाक्यादवगम्यत इति; तन्नोपपद्यते, अस्मिन् वाक्ये जीवस्याश्रवणात् । अत्र हि श्रद्धादय एवाम्व्ववस्थाविशेषा होम्यत्वेन श्रुताः, न तु जीवस्तत्परिष्वक्त इति चेत्- तन्न, इष्टादिकारिणां प्रतीतेः- अस्मिन्नेव वाक्ये ह्युत्तरत्र ब्रह्मज्ञानविधुरेष्टापूर्वदत्तकारिणो द्युुलोकं प्राप्य सोमराजानो भवन्ति । पुण्यकर्मावसाने च पुनरागत्य गर्भं प्राप्तुवन्तीत्युच्यते “अथ य इमे ग्रामे इष्टापूर्तेर्दत्तमित्युपासते ते धूममभिसम्भवन्ति” इत्यारभ्य “पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति” “तस्मिन् यावत्स्म्पातमुषित्वा अथैतमेवाध्वानं पुनर्निवर्तन्ते” “यो यो ह्यन्नमत्ति योयो रेतः सिञ्चति तद्भूय एव भवति” इति । अत्रापि द्युलोकाग्नौ “श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा
सम्भवति” इति तदेकार्थत्वाच्छ्द्धावस्थदेहविशिष्टः सोमरूपदेहविशिष्टो भवतीत्युक्तमिति गम्यते । देहस्य जीवविशेषणत्तैकस्वरूपस्य वाचकः शब्दो विशेष्ये जीव एव पर्यवस्यति, अतः सम्परिषवक्तो जीवो यातीत्युपपद्यते । ननु च “तं देवा भक्षयन्ति” इति देवैर्भक्ष्यमाणत्ववचनात्सोमो राजेति न जीव उच्यते, जीवस्यानदनीयत्वात् तत्राह- ॥ 6 ॥
वाशब्दश्चोद्यं व्यावर्त्तयति । इष्टादिकारिणोऽनात्मवित्त्वात्स देवानां भोगोपकरणत्वेनेहामुत्र च वर्तते । इहेष्टादिना तदाराधनं कुर्वन्नुपकरोति, आराधनप्रतीतैर्देवैर्दत्तममुं लोकं प्राप्य तत्र तत्समानभोगस्तदुपकरणं भवति । “यथापशुरेवं स देवानाम्” इत्यनात्मविदो देवानामुपकरणत्वं दर्शयति श्रुतिः । स्मृतिरप्यात्मविदां ब्रह्मप्राप्तिमनात्मविदां च देवभोग्यत्वं दर्शयति “देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि” इति । अतो जीवस्य देवानां भोगोपकरणत्वाभिप्रायमन्नत्वेन भक्ष्यत्ववचनम्, अतस्तद्भाक्तम्, तेन तृप्तिरेव च देवानां भक्षणमिति श्रूयते " न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति" इति । तस्माद्भूतसूक्ष्मैः सम्परिष्वक्तो जीवो रंहतीति सिद्धम् ॥ 7 ॥
॥ इति तदन्तरप्रतिपत्त्यधिकरणम् ॥ 1 ॥