भूतेन्द्रियादीनां समष्टिसृष्टिः, जीवानां कर्तृत्वं च परस्माद्ब्रह्मण इत्युक्तं पुरस्तात् । जीवानां स्वेन्द्रियाधिष्ठानं च परायत्तमिति चानन्तरं स्थिरीकरणाय स्मारितम् । या त्त्वियं नामरूपव्याकरणात्मिका प्रपञ्चव्यष्टिसृष्टिः, सा किं समष्टिजीवरूपस्य हिरण्यगर्भस्यैव कर्म? उत तेजःप्रभृतिशरीरकस्य परस्यावादिसृष्टिवद्धिरण्यगर्भशरीरकस्य परस्य ब्रह्मणः, इतीदानीं चिन्त्यते । किं युक्तं? समष्टिजीवस्येति, कुतः “अनेन जीवेनात्मानऽनुपविश्य नामरूपे व्याकरवाणि” इति जीवकर्तृकत्वश्रवणात् । न हि परा देवता स्वेन
रूपेण नामरूपे व्याकरवाणीत्यैक्षत, अपि तु स्वांशभूतेन जीवरूपेण “अनेन जीवेनात्मना” इति वचनात् । नन्वेवं चारेणानुप्रविश्य परबलं सङ्कलयादीतिवत् व्याकरवाणीत्युत्तमपुरुषः कर्तृस्थक्रियश्च प्रविशतिर्लाक्षणिकः स्यात् । नैवं, तत्र राजचारयोः स्वरूभेदाल्लाक्षणिकत्वम् इह तु जीवस्यापि स्वांशत्वेन स्वरूपत्वात् तेन रूपेण प्रवेशो व्याकरणं चात्मन एवेति न लाक्षणिकत्वप्रसङ्गः । न च सहयोगलक्षणेयं तृतीया, कारकविभक्तौ सम्भवन्त्यामुपपदविभक्तेरन्याय्यत्वात् । न च करणे तृतीया ब्रह्मकर्तृकयोः प्रवेशव्याकरणयोर्जीवस्य साधकतमत्वाभावात् । न च जीवस्य कर्तृत्वं प्रवेशमात्रं पर्य्यवस्यति, नामरूपव्याकरणन्तु ब्रह्मण एवेति शक्यं वक्तुम्, कत्त्वाप्रत्ययेन समानकर्तृकत्वप्रतीतेः । जीवस्य स्वांशत्वेन स्वरूपत्वेऽपि परस्वरूपव्यावृत्त्यर्थः अनेन जीवेन" इति पराकत्वेन परामर्शः । अतो हिरण्यगर्भकर्तृकेयं नामरूपव्याक्रिया । अत एव च स्मृतिषु चतुर्मुखकर्तृकसृष्टिप्रकरणे नामरूपव्याकरणं सङ्कीर्त्यते “नामरूपञ्च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः” इत्यादि ॥ एवं प्राप्तेऽभिधीयते- संज्ञामूर्तिकॢप्तिस्तु इति । तु शब्दः पक्षं व्यावर्तयति; संज्ञामूर्तिकॢप्तिः- नामरूपव्याकरणम्, तत्त्रिवृत्कुर्वतः परस्यैव ब्रह्मणः, तस्यैव नामरूपव्याकरणोपदेशात् । त्रिवृत्करणं कुर्वत एव हि नामरूपव्याकरणमुपदिश्यते “सेयं देवतैक्षत हन्ताऽहमिमास्तस्त्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि तासां त्रिवृतं त्रिवृतमेकैकां करवाणि” इति समानकर्तृकत्वप्रतीतेः । त्रिवृत्करणं चतुर्मुखस्याण्डान्तर्वर्तिनो न सम्भवति, त्रिवृत्कृतैस्तेजोबन्नैर्ह्यण्ड
मुत्पाद्यते, चतुर्मुखस्य चाण्डे सम्भवः स्मर्य्यते “तस्मिन्नण्डेऽभवद्व्रह्मा सर्वलोकपितामहः” इति । अस्त्रिवृत्करणं च परस्यैव ब्रह्मणः, तत्समानकर्तृकं नामरूपव्याकरणञ्च तस्यैवेति विज्ञायते । कथं तर्ह्यनेन जीवेनेति सङ्गच्छते; “आत्मना जीवेन” इति सामानाधिकरण्यात् जीवशरीरं परं ब्रह्मैव जीशब्देनाभिधीयते, यथा “तत्तेज ऐक्षत” “तदपोऽसृजत” “ता आप ऐक्षन्त” “ता अन्नमसृजन्त” इति तेजःप्रभृतिशरीरकं परमेव ब्रह्माभिधीयते । अतो जीवसमष्टिभूतहिरण्यगर्भशरीरकस्य परस्यैव ब्रह्मणः कर्म नामरूपव्याकरणम् । एवं च “प्रविश्य नामरूपे व्याकरवाणि” इति प्रविशतिरुत्तमपुरुषश्चाक्लिष्टौ मुख्यार्थावेव भवतः । प्रवेशव्याकरणयोः समानकर्तृकत्वमप्युपपद्यते । चतुर्मुखशरीरकस्य परस्यैव ब्रह्मणः कर्म देवादिविचित्रसृष्टिरिति चतुर्मुखकर्तृकसृष्टिप्रकरणे नामरूपव्याक्रियोपदेशश्चोपपद्यते । अतः “सेयं देवता” इत्यादिवाक्यस्यायमर्थः- इमास्तेजोवन्नरूपास्तिस्त्रो देवताः अनेन जीवेन जीसमष्टिविशिष्टेनात्मना ऽनुप्रविश्य नामरूपे व्याकरवाणिदेवादिविचित्रसृष्टितन्नामधेयानि च करवाणि तदर्थमन्योन्यसंसर्गमप्राप्तानामेषां तेजोवन्नानां विशेषसृष्टयसमर्थानां तत्सामर्थ्यायैकैकां त्रिवृतं करवाणीति, अतः परस्यैव ब्रह्मणः कर्मेदं नामरूपव्याकरणम् ॥ 17 ॥
अथ स्यात् नामरूपव्याकरणस्य त्रिवृत्करणेनैककर्तृकत्वात्परमात्मकर्तृकत्वमिति न शक्यते वक्तुं, त्रिवृ
त्करणस्यापि जीवकर्तृकत्वसम्भवात् । अण्डसृष्टवृत्तरकालं हि चतुर्मुखसअष्टजीवेषु त्रिवृत्करणप्रकार उपदिश्यते- “यथा तु खलु सोम्येमास्तिस्त्रो देवताः पुरुषं प्राप्य त्रिवृत् त्रिवृदेकैका भवति तन्मे विजानीहीति” “अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो भागस्तत्पुरीषं भवति यो मध्यमस्तन्मासं योऽणिष्ठस्तन्मनः” इत्यादिना । तथा
पूर्वस्मिन्नपि वाक्ये “यदग्नेरोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत् कृष्णं तदन्नस्यर” इत्यादिना चतुर्मुखसृष्टाग्न्यादित्यचर्न्दविद्युत्सु त्रिवृत्करणं श्रूयते “सेयं देवतेमास्तिस्त्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरोत् तासां त्रिवृतं त्रिवृतमेकैकामकरोत्” इति ॥
तत्राह -
यदुक्तमण्डसृष्टयुत्तरकालं चतुर्मुखसृष्टदेवतादिविषयोऽयं “तासां त्रिवृतं त्रिवृतमेकैकामकरो"दिति त्रिवृत्करणोपदेश इति, तन्नोपपद्यते “अन्नमशितं त्रेदाविधीयते” इत्यत्र मांशमनसोः पुरीषादणुत्वेनाणीयस्त्वेन च व्यपदिष्टयोः कारणानुविदायित्वेनाऽ्रऽप्यतैजसत्वप्रसङ्गात्, “आपः पीताः” इत्यत्रापि मूत्रप्राणयोः स्थविष्ठाणीयसोः पार्थिवत्वतैजसत्वप्रसङ्गाच्च । न चैवमिष्यते; मांसादेर्हि भौमत्वमिष्यते पुरीषवन्मांसमनसी अपि भौमे - पार्थिवे इष्येते “अन्नमशितं त्रेधा” इति प्रक्रमात्, यथाशब्दमितरयोश्च इतरयोरपि “आपः पीतास्तेजो
अशित” मिति पर्याययोर्यथाशब्दं विकारा इष्यन्ते । “आपः पीतास्त्रेधा विधीयन्ते” इत्यपामेव त्रेधा परिणामः शब्दात्प्रतीयते; तथा “तेजोऽशितं त्रेधा विधीयते इत्यपिक तेजस एव त्रेधा परिणामः शब्दात्प्रतीयते; अतः पुरीषमांसमनांसि पृथिवीविकाराः, मूत्रलोहितप्राणाः अव्विकाराः, अस्थिमज्जावाचस्तेजोविकारा इति प्रतिपत्तव्यम्; “अन्नमयं हि सोम्य मनः, आपोमयः प्राणः तेजोमयी वाक्” इति वाक्यशेषाविरोधाच्च । अतः तासां त्रिवृतं त्रिवृतमेकैकामकरो"दित्युक्तस्त्रिवृत्करणप्रकारः “अन्नमशित"मित्यादिना न प्रदर्श्यते; तथा सति मनः- प्राणवाचां त्रयाणामप्यणीयस्त्वेन तैजसत्वात् " अन्नमयं हि सोम्य मनः” इत्यादिर्विरुध्यते । प्रागेव त्रिवृत्कृतानां पृथिव्यादीनां पुरुषं प्राप्तानाम् “अन्नमशित"मित्यादिनैकैकस्य त्रेधा परिणाम् उच्यते । अण्डसृष्टेः प्रागेव च तेजोवन्नानां त्रिवृत्करणेन भवितव्यम्, अत्रिवृत्कृतानां तेषां कार्य्यारम्भासामर्थ्यात् । अन्योन्यसंयुक्तानामेव हि कार्य्यारम्भसामर्थ्यम्; तदेव च त्रिवृत्करणम् । तथा च स्मर्थ्यते “नानावीर्य्याः पृथग्भूतास्ततस्ते सहतिं विना । नाशकनुवन्प्रजाः स्त्रष्टुमसमागम्य कृत्स्नशः ॥ नाशकनुवन्प्रजाः स्त्रष्टुमसमागम्य कृत्स्नशः ॥ समेत्याऽन्योन्यसंयोगं परस्परसमाश्रयाः । महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते” इति । अत एवच “अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरोत्तासां त्रिवृतं त्रिवृतमेकैकामकरो”
दिति पाठक्रमोऽर्थक्रमेण बाध्यते । अण्डान्तर्वर्त्तिष्वग्न्यादित्यादिषु त्रिवृत्करणप्रदर्शनं श्वेतकेतोः शुश्रूषोरण्डान्तर्वर्तित्वेन; तस्य वहिष्ठवस्तुषु त्रिवृत्करणप्रदर्शनायोगात् त्रिवृत्कृतानां कार्य्येष्वग्न्यादित्यादिषु क्रियते । स्यादेतत् “अन्नमशितम्, आपः पीताः, तेजोऽशित"मिति त्रिवृत्कृतानामन्नादीनामेकैकस्य तेजोवन्नात्मकत्वेन त्रिरूपस्य कथमन्नमापस्तेज इत्येकैवरूपेण व्यपदेश उपपद्यते इति; तत्राह - ॥ 18 ॥
वैशेष्यं- विशेषभावः । त्रिवृत्करणेन त्रिरूपेऽप्यककस्मिन्नन्नाद्याधिक्यात्तत्र तत्रान्नादिवादः । द्विरुक्तिरध्यायपरिसमाप्तिं द्योतयति ॥ 19 ॥
॥ संज्ञामूर्तिक्लृप्त्यधिकरणम् ॥ 8 ॥