32 इन्द्रियाधिकरणम्

किं सर्वे प्राणशब्दनिर्दिष्टा इन्द्रियाणि, उत श्रेष्ठप्राणव्यतिरिक्ता एवेति विशये प्राण

शब्दवाच्यत्वात्करणत्वाच्च सर्व एवेन्द्रियाणि ॥ इति प्राप्त उच्यते- श्रेष्ठव्यतिरिक्ता एव प्राणा इद्रियाणि, कुतः

श्रेष्ठादन्येष्वेव प्राणेषु तद्व्यपदेशात् । “इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः” इत्यादिभिश्चक्षुरादिषु समनेस्केष्वेवेन्द्रियशब्दो व्यपदिश्यते ॥ 15 ॥

“एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च” इत्यादिष्विन्द्रियेभ्यः प्राणस्य पृथक् श्रवणात् प्राणव्यतिरिक्तानामेवेन्द्रियत्वमवगम्यते । मनसः पृथक्श्रवणेऽपि तस्यान्यत्रेन्द्रियान्तर्भाव उक्तः

“मनःषष्ठानीन्द्रियाणि” इत्यादौ । वैलक्षण्यं चक्षुरादिभ्यः श्रेष्ठप्राणस्योपलभ्यते, सुषुप्तौ हि प्राणस्य वृत्तिरुपलभ्यते, चक्षुरादीनां तु वृत्तिर्नोपलभ्यते । कार्य्यं च चक्षुर्वागादीनां समनस्कानां ज्ञानकर्मसाधनत्वम्, प्राणस्य तु शरीरेन्द्रियधारणम्, प्राणाधीनधारणत्वात्त्विन्द्रियेषु प्राणशब्दव्यपदेशः, तथा च श्रुतिः “त एतस्यैव सर्वेरूपमभवन् तस्मादेत एतेनाख्यायन्ते” इति । रूपमभवन् शरीरमभवन् तदधीनप्रवृत्तयोऽभवन्नित्यर्थः ॥ 16 ॥

॥ इति इन्द्रियाधिकरणम् ॥