31 ज्योतिराद्यधिष्ठानाधिकरणम्

सश्रेष्ठानां प्राणानां ब्रह्मणानां ब्रह्मण उत्पत्तिरियत्ता परिमाणं चोक्तम्, तेषां प्राणा नामग्न्यादिदेवताधिष्ठितत्वं च पूर्वमेव “अभिमानिव्यपदेशस्तु विशेषानुगतिभ्या"मित्यनेन सूत्रेण प्रसङ्गादुपपादितम् जीवस्य च स्वभोगसाधनानामेषामधिष्ठातृत्वं लोकसिद्धम्, “एवमेवैष एतान् प्राणान् गृहीत्वा स्वेशरीरे यथा कामं परिवर्त्तते” इत्यादिनुतिसिद्धं च । तदिदं जीवस्याग्न्यादिदेवतानां च प्राणविषयमधिष्ठानं किं स्वायत्तम्? उत परमात्मायत्तमिति विशये नैरपेक्ष्यात्स्वायत्तम् ॥ इति प्राप्त उच्यते- ज्योतिराद्यधिष्ठानमिति । प्राणवता जीवेन सह ज्योतिरादीनामग्न्यादिदेवतानां प्राणविषयमधिष्ठानम्, तदामननात् तस्य परात्मन आमननाद्भवति । आमननम् आभिमुख्येन मननम्, परमात्मनः सङ्कल्पादेव भवतीत्यर्थः । कुत एतत्? शब्दात्- इन्द्रियाणां साभिमानिदेवतानां जीवात्मनश्च स्वकाय्यर्ेषु परमपुरुषमननायत्तत्वशास्त्रात् । यथाऽन्तर्य्यामि ब्राह्मणादिषु “योऽग्नौ तिष्ठन्नग्नेन्तरो यमग्निर्न वेद यस्याग्निः शरीरं योऽग्निमन्तरो यमयति स त आत्मान्तयोम्यमृतः” “यो वायौ तिष्ठन्” “य आदित्ये तिष्ठन्” “य आत्मनि तिष्ठन्” “यश्चक्षुषि तिष्ठन्” इत्यादि । यथा च “भीषास्माद्वातः पवते भीषोदेति सूर्य्यः । भीषाऽस्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः” इति । तथा “एतस्य वा अक्षरस्य प्रशासने गागिर् सूर्याचन्द्रमसौ विधृतौ तिष्ठतः” इत्यादि ॥ 13 ॥

सर्वेषां परमात्माधिष्ठितत्वस्य नित्यत्वात्, स्वरूपानुबन्धित्वेन नियतत्वाच्च तत्सङ्कल्पादेवैषामधिष्ठातृत्वमवर्जनीयम् । “तत्सृष्टवा तदेवानुप्राविशत् तदनुप्रविश्य सच्च त्यच्चाभवत्” इत्यादिनापरमपुरुषस्य नियन्तृत्वेन सर्वचिदचिद्वस्त्वनुप्रवेशः स्वरूपानुबन्धी श्रूयते; स्मर्यते च “विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्” इति ॥ 14 ॥ ॥

॥ ज्योतिराद्यधिष्ठानाधिकरणं समाप्तम् ॥ 6 ॥