30 श्रेष्ठाणुत्वाधिकरणम्

अणुश्चायं पूर्ववदुत्क्रान्त्यादिश्रवणात् “तमुत्क्रामन्तं प्राणोऽनूत्क्रामति” इत्यादिषु । अधिकाशङ्का तु “सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण” “प्राणे सर्वं प्रतिष्ठितं” “सर्वं हीदं प्राणेनावृतम्”

इत्यादिश्रवणात् महापरिमाण इति ॥ परिहारस्तु- उत्क्रानत्यादिश्रवणातापरिच्छिन्नत्वे निश्चिते सर्वस्य प्राणिजातस्य प्राणायत्तस्थितित्वेन वैभववादोपपत्तिः- इति ॥ 12 ॥

॥ श्रेष्ठाणुत्वाधिकरणं समाप्तम् ॥ 5 ॥