सोऽयं श्रेष्ठः प्राणः किं महाभूतद्वितीयवायुमात्रं तस्य वा स्पन्दरूपा क्रिया, अथवा वायुरेव कञ्चन विशेषमापन्नः- इति विशये वायुरेवेति प्राप्तं “यः प्राणः स वायु"रिति व्यपदेशात् । यद्वा वायुमात्रे प्राणत्वप्रसिद्धयभावाद्उछ्वासनिश्श्वासादिवायुक्रियायां प्राणशब्दप्रसिद्धेश्व तत्क्रियैव इति प्राप्ते वायुमात्रम्, न च तत्क्रिया इत्युच्यते; कुतः पृथगुपदेशात् “एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । स्वं वायु” रिति तत एव पृथगुपदेशाद्वायुक्रियाऽपि न भवति प्राणः, न हि तेजःप्रभृतीनां क्रिया तैः सह पृथग्द्रव्यतयोपदिश्यते “यः प्राणस्य वायु” रिति तु वायुरेवावस्थान्तरमापन्नः प्राणः; न तेजःप्रभृतिवत्तत्त्वान्तरमिति ज्ञापनार्थम् । उछ्वासनिश्श्वासादावपि प्राणः स्पन्दत इति क्रियावतित द्रव्य एव प्राणशब्दप्रसिद्धिः; न क्रियामात्रे । किमयं प्राणो वायोर्विकारःसन्नग्निवद्भूतान्तरम्? नेत्याह - ॥ 8॥
नायं भूतविशेषः अपि तु चक्षुरादिवज्जीवोपकरणविशेषः । तच्चोपकरणत्वमुपकरणविशेषभूतैन्द्रियैः सह शिष्ट्यादिभ्याऽवगम्यते । चक्षुरादिभिस्सहायं प्राणः शिष्यते प्राणसम्वादादिषु । तत्संजातीयत्वे हि तैस्सह शासनं युज्यते । प्राणशब्दपरिगृहीतेषु करणेष्वस्य विशिष्याभिदानमादिशब्देन गृह्यते, “अथ ह वा य एवायं मुख्यः प्राणः” “योऽयं मध्यमः प्राणः” इत्यादिषु विशिष्याभिधानात् । चक्षुरादिवदस्यापि करणत्वे तद्वदस्यापि जीवं प्रत्युपकारविशेषरूपक्रियया भवितव्यम्, सं तु न दृश्यते, अतो नायं चक्षुरादिवद्भवितुमर्हतीति चेत्, तत्राह- ॥ 9 ॥
अकरणत्वात्- करणं क्रिया, अक्रियत्वात् अस्य प्राणस्य जीवं प्रत्युपकारविशेषरूपक्रियारहितत्वाच्च यो दोष उद्भाव्यते, स नास्ति; यत उपकारविशेषरूपां शरीरेन्द्र्रयधारणादिरूपं क्रियां दर्शयति श्रुतिः “यस्मिन्नुत्क्रान्ते इदं शरीरं पापिष्ठतरमिव दृश्यते स एव श्रेष्ठः” इत्युक्त्वा वागाद्युत्क्रमणेऽपि शीरस्येन्द्रियाणां च स्थितिं दर्शयित्वा प्राणोत्क्रमणे शरीरेन्द्रियशैथिल्याभिधानात् । अतः प्राणापानव्यानोदानसमानाकारेण पञ्चधाऽवस्थितोऽयं प्राणः शरीरेन्दियधारणादिना जीवस्योपकरोतीति चक्षुरादिवत्करणत्वम् । नन्वेवं नामभेदात् कार्य्यभेदाच्च प्राणापानादयः तत्त्वान्तराणि स्युस्तत्राह - ॥ 10 ॥
यथा कामादिवृत्तिभेदे तत्कार्य्यभेदेऽपि न कामादिकं मनसस्तत्त्वान्तरं “कामस्सङ्कल्पो विचिकित्संश्रद्धाऽश्रद्धाधृतिरधृतिह्रर्वर्भीरित्येतत्सर्वं मन एव” इति वचनात् । एवं प्राणोऽपानो व्यान उदानस्समान इत्येतत्सर्वं प्राण एव” इति वचनादपानादयोऽपि प्राणस्यैव वृत्तिविशेषाः, न तत्त्वान्तरमित्यवगम्यते ॥ 11 ॥
॥ वायुक्रियाधिकरणं समाप्तम् ॥4 ॥