28 प्राणाणुत्वाधिकरणम्

" त एते सर्व एव समाः सर्वेऽनन्ताः" इत्यानन्त्यश्रवणाद्विभुत्वं प्राणानाम् इति प्राप्तेऽभिधीयते प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति" इत्युत्क्रान्त्यादिश्रवणात्परिमितत्वे सिद्धे सत्युत्क्रान्त्यादिषु पार्श्वस्थैरनुपलभ्यमानत्वादणवश्च प्राणाः । आनन्त्यश्रुतिस्तु “अथ यो हैताननन्तानुपास्ते” इत्युपासनश्रवणाद् उदास्यप्राणविशेषण भूतकार्य्यबाहुल्याभिप्राया ॥ 6 ॥

प्राणसम्वादे शरीरस्थितिहेतुत्वेन श्रेष्ठतया निर्णीतो मुख्यप्राणः “आनीदवातं स्वधया तदेक” मिति महाप्रलयसमये स्वकार्य्य भूतप्राणनसद्भावनवणात् “एतस्माज्जायत” इति जन्मश्रवणस्य जीवजन्मनवणवदुपपत्तेर्नोत्पद्यते इत्याशङ्कय प्राक्सृष्टेरेकत्वावधारणादिविरोधात् “एतस्माज्जायते प्राणः” इति पृथिव्यादितुल्योत्पत्तिश्रवणादुत्पत्तिनिषेधाभावाच्च, जायता एव श्रेष्ठश्च प्राण इत्युच्यते । “आनीदावात"मिति तु न जैवंश्रेष्ठं प्राणम

भिप्रेत्योच्यते, अपि तु परस्य ब्रह्मण एकस्यैव विद्यमानत्वमुच्यते “अवात” मिति तत्रैव श्रवणात् । पूर्वेणैव तुल्यन्यायत्वेऽपि पृथग्योगकरणमुत्तरचिन्तार्थम् ॥ 7 ॥

प्राणाणुत्वाधिकरणं समाप्तम् ॥ 3 ॥