ब्रह्मव्यतिरिक्तस्य वियदादेः कृत्स्नस्य कार्य्यत्वेनोत्पत्तावुक्तायां जीवस्य कार्य्यत्वेऽपि स्वरूपान्यथाभावलक्षणोत्पत्तिरपोदिता, तत्प्रसङ्केन जीस्वरूपं विशोदितम्; सम्प्रति जीवोपकरणानामिन्द्रियाणां प्राणस्य चोत्पत्त्यादिप्रकारो विशोध्यते । तत्र किमिद्रियाणां कार्य्यत्वं जीववत्? उत वियदादिवदिति चिन्त्यते । किं युक्तं? जीववदेवेत्याह पूर्वपक्षी तथा प्राणाः- इति । प्राणाः- इन्द्रियाणि । यथा जीवो नोत्पद्यते, तथेन्द्रियाण्यपि नोत्पद्यन्ते । कुतः? श्रुतेः । यथा जीवस्यानुत्पत्तिः श्रुतेरवम्यते, तथा प्राणानामप्यनुपत्तिः श्रुतेरेवावगम्यते । तथा प्राणा इति प्रमाणमप्यतिदिश्यते ॥ का पुनरत्र श्रुतिः " असद्वा इदमग्र आसीत् तदाहुः किं तदासीदिति ऋषयो वावते अग्रे सदासीत् तदाहुः के ते ऋषय इति प्राणा वाव ऋषयः" इति जगदुत्पत्तेः प्रागिन्द्रियाणां सद्भावः श्रूयते । प्राणशब्दे बहुवचनादिन्द्रियाण्येवेति निश्चीयते । न चेयं श्रुतिः “वायुश्चान्तरिक्षं चैतदमृतम्” “सैषाऽनस्तमिता देवता यद्वायु” इतिवच्चिरकालावस्थायित्वेन परिणेतुं शक्या, “असद्वा इदमग्र आसीत्” इति कृत्स्रनप्रपञ्चप्रलयवेलायामप्यवस्तित्वश्रवणात् । उत्पत्तिवादिन्यस्तु जीवोत्पत्तिवादिन्य इव नेतव्या इति ॥ एवं प्राप्तेऽभिधीयते वियदादिवदेव प्राणाश्चोत्पद्यन्ते; कुतः? “सदेव सोम्येदमग्र
आसीत्” “आत्मा वा इदमेक एवाग्र आसीत्” इत्यादिषु प्राक्सृष्टेरेकत्वावधारणात् “एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च” इति इन्द्रियाणामुत्पत्तिश्रवणाच्च, प्रागवस्तानासम्भवात् । न चात्मोत्पत्तिवादवदिन्द्रियोत्पत्तिवादाः परिणेतुं शक्याः, आत्मवदुत्पत्तिप्रतिषेधनुतीनां नित्यत्वश्रुतीनां चाऽदर्शनात्, “असद्वा इदमग्र आसीत्”
इत्यादिवाक्येऽपि प्राणशब्देन परमात्पैव निर्द्दिश्यते “सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते” इति प्राणशब्दस्य परमात्मन्यपि प्रसिद्धेः । “प्राणा वाव ऋषयः” इति ऋषिशब्दश्च सर्वज्ञे तस्मिन्नेव युज्यते, न त्वचेतनेष्विन्द्रियेषु । ऋषयः प्राणा इति च बहुवचनश्रुतिः कथमुपपद्यत इति चेत्तत्राह - ॥ 1 ॥
बहुवचनश्रुतिर्गौणी, बह्वर्थासम्भवात्; तस्यैव परमात्मनः सृष्टेः प्रागवस्थानश्रुतेरेव ॥ 2 ॥
इतश्च प्राणशब्दः परमात्मवचनः; वाचः- परमात्मव्यतिरिक्तविषयस्य नामधेयस्य वाग्विषयसूतवियदादिसृष्टिपूर्वकत्वात् । “तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत” इति नामरूपभाजामभावात् तदानीं वागादीन्द्रियकार्य्याभावाच्च तानि न सन्तीत्यर्थः ॥ 3 ॥
॥ इति प्राणोत्पत्त्यधिकरणम् ॥