जीवस्य कर्तृत्वं परमपुरुषायत्तमित्युक्तम्; इदानीं किमयं जीवः परस्मादत्यन्तभिन्नः? उत परमेव ब्रह्म भ्रान्तम्? उत ब्रह्मैवोपाध्यवच्छिन्नम्? अथ ब्रह्मांश? इति संशय्यते । श्रुतिविप्रतिपत्तेः संशयः । ननु
“तदनन्यत्वमारम्भणशब्दादिभ्यः” “अधिकं तु भेदनिर्द्देशा"दित्यत्रैवायमर्थो निर्णीतः । सत्यम्, स एव नानात्वैकत्वश्रुतिविप्रतिपत्त्याऽऽक्षिप्य जीवस्य ब्रह्मांशत्वोपपादनेन विशेषता निर्णीयते । यावद्धि जीवस्य ब्रह्मांशत्वं न निर्णीतं, तावज्जीवस्य ब्रह्मणोऽनन्यत्वं ब्रह्मणस्तस्मादधिकत्वं च न प्रतितिष्ठति । किं तावत्प्राप्तम्? अत्यन्तभिन्न इति; कुतः, “ज्ञाज्ञौ द्वावजावीशनीशा"वित्यादिना भेदनिर्द्देशात् । ज्ञाज्ञयोरभेद श्रुतयस्तु “अग्निना सिञ्चे"दितिवद्विरुद्धार्थप्रतिपादनादौपचारिक्यः । ब्रह्मर्णोऽशो जीवस्य ब्रह्मैकदेशत्वे तद्गता दोषा ब्रह्मणि भवेयुः । न च ब्रह्मखण्डो जीव इत्यशत्वोपपत्तिः, खण्डनानर्हत्वद्व्रह्मण।, प्रागुक्तदोषप्रसङ्गाच्च । तस्मादत्यन्तभिन्नस्य च तदंशत्वं दुरुपपादम्, यद्वा भ्रान्तं ब्रह्मैव जीवः, कुतः “तत्त्वमसि, अयमात्मा ब्रह्म”
इत्यादिब्रह्मात्मभावोपदेशात् । नानात्ववादिन्यस्तु प्रत्यक्षादिसिद्दार्थानुवादित्वादनन्यथासिद्धाद्वैतोपदेशपराभिः श्रुतिभिः प्रत्यक्षादय इवाविद्यान्तर्गताः ख्याष्यन्ते । अथवा ब्रह्मैवानाद्युपाध्यवच्छिन्नं जीवः । कुतः, तत एव ब्रह्मात्म भावोपदेशात् । न चायमुपाधिर्भ्रान्तिपरिकल्पित इति वक्तुं शक्यम्, बन्धमोक्षादिव्यवस्था
नुपपत्तेरिति । एवं प्राप्तेऽभिधीयते ब्रह्मांश इति कुतः? नानाव्यपदेशात्, अन्यथा च एकत्वेन व्यपदेशात् । उभयथा हि व्यपदेशो दृश्यते । नानात्वव्यपदेशस्तावत्स्त्रष्ट्टत्वसृज्यत्वनियन्तृत्वनियाम्यत्वसर्वज्ञत्वाज्ञत्व-स्वाधीनत्वपराधीनत्वशुद्धत्वाशुद्धत्वकल्याणगुणाकरत्वतद्विपरीतत्वपतित्वशेषत्वादिभिर्दृश्यते । अन्यथा चाभेदेन व्यपदेशोऽपि “तत्त्वमसि, अयमात्मा ब्रह्म"इत्यादिभिर्दृश्यते । अपि दाशकितवादित्वमधीयत एके “ब्रह्मदाशाब्रह्मदासा ब्रह्मेमे कितवाः” इत्याथवर्णिका ब्रह्मणो दाशकितवादित्वमप्यधीयते । ततश्च सर्वजीवव्यापित्वेनाभेदो व्यपदिश्यत इत्यर्थः ।
एवमुभयव्यपदेशमुख्यत्वसिद्धये जीवोऽयं ब्रर्ह्मेऽश इत्यभ्युपगन्तव्यः । न च भेदव्यपदेशानां प्रत्यक्षादिप्रसिद्धार्थत्वेनान्यथासिद्धत्वं, ब्रह्मसृज्यत्वतन्नियाम्यत्वतच्छरीरत्वतच्छेपत्वतदाधारत्वतत्पाल्यत्वतत्संहार्य्यत्वतदुपासकत्वतत्प्रसादलभ्यधर्मार्थकाममोक्षरूपपुरुषार्थभाकत्वादयः तत्कृतश्च जीवब्रह्मबणोर्भेदः प्रत्यक्षाद्यगोचरत्वोनान्यथासिद्धः, अतो न जगत्सृष्टयादिवादिनीनां प्रमाणान्तरसिद्धभेदानुवादेन मिथ्यार्थोपदेशपरत्वम् । न चाखण्डैकरसचिन्मात्रस्वरूपेण ब्रह्मणाऽऽत्मनोऽतद्भावानुन्धानं, बहुभवनसङ्कल्पपूर्वकवियदादिसृष्टिं, जीवभावेन तत्प्रवेशं, विचित्रनामरूपव्याकरणं, तत्कृतानन्तविषयानुभवनिमित्तसुखदुःखभागित्वं, भोक्तृत्वेन तत्र स्थित्वा तन्नियमनेनान्तर्यामित्वं, जीवभूतस्य स्वस्य कारणब्रह्मात्म भावानुसन्धानं, संसारमोक्षं, तदुपदेशशास्त्रं च कुर्वाणेन भ्रमितव्यमित्युपदिश्यते, तथा सति उन्मत्तप्रलपितत्वापातात् ॥ उपाध्यवच्छिन्नं ब्रह्म जीव इत्यपि न साधीयः, पूर्वनिर्दिष्टनियाम्य
त्वादिव्यपदेशवाधादेव । न हि देवदत्तादेरेकस्यैव गृहाद्युपाधिभेदान्नियन्तृनियाम्यभावादिसिद्धिः । अत उभयव्यपदेशोपपत्तये जीवोऽयं ब्रह्मर्णोऽश इत्युभ्युपेत्यम् ॥ 42 ॥
“पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि” इति मन्त्रवर्णाच्च ब्रह्मांशो जीवः । अंशवाची हि पादशब्दः । “विश्वाभूतानि” इति जीवानां बहुत्वाद्वहुवचनं मन्त्रे, सूत्रेऽप्यंश इत्येकवचनं जात्यभिप्रायम् । “नात्मा श्रुते” रित्यत्राप्येकवचनं जात्यभिप्रायम् “नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्” इत्यादिश्रुतिभ्य ईश्वराद्भेदस्यात्मनां बहुत्वनित्यत्वयोश्चाभिधीयमानत्वात् । एवं नित्यानामात्मनां बहुत्वे प्रामाणिके सति ज्ञानस्वरूपत्वेन सर्वेषाभेकरूपत्वेऽपि भेदकाकार आत्मयाथात्म्यवेदनक्षमैरवगम्येत । “असन्ततेश्चाव्यतिकर” इत्यनन्तरमेव च आत्मबहुत्वं वक्ष्यति ॥ 43 ॥
ममैवांशो जीवलोके जीवभूतः सनातन” इति जीवस्य पुरुषोत्तमांशत्वं स्मर्यते, अतश्चायमंशः । अंशत्वेऽपि जीवस्य ब्रह्मैकदेशत्वेन जीवगता दोषा ब्रह्मण एवेत्याशङ्क्याह - ॥ 44 ॥
तु शब्दश्चोद्यं व्यावर्तयति; प्रकाशादिवज्जीवः परमात्मर्नोऽशः, यथाऽग्न्यादित्यादेर्भास्वतो भोरूपः प्रकार्शोऽशो भवति, यता गवाश्वशुक्लकृष्णादीनां गोत्वादिविशिष्टनां वस्तूनां गोत्वादीनि विशेषणान्यंशाः, यथा वा देहिनो देवमनुष्यादेर्देर्होऽशः, तद्वत् । एकवस्त्वेकदेशत्वं ह्यंशत्वम्, विशिष्टस्यैकस्य वस्तुनो विशेषणमंश एव । तथा च विवेचकाः विशिष्टे वस्तुनि विशेषणांशोऽयं विशेष्यांशोऽयमिति व्यपदिशन्ति । विशेषणविशेष्ययोरंशांशित्वेऽपि स्वभाववैलक्षण्यं दृश्यते । एवं जीवपरयोर्विशेषणविशेष्ययोरंशाशित्वं स्वभावभेदश्चोपपद्यते । तदिदमुच्यते- नैवं पर इति, यथाभूतो जीवः, तथा भूतो न परः । यथैव हि प्रभायाः प्रभावानन्यथाभूतः, तथा प्रभास्थानीयात् स्वांशाज्जीवादंशी परोऽप्यर्थान्तरभूत इत्यर्थः । एवं जीवपरयोर्विशेषणविशेष्यत्वकृतं स्वभाववैलक्षण्यामाश्रित्य भेदनिर्द्देशाः प्रवर्तन्ते । अभेदनिर्द्देशास्तु पृथक्सिद्धयनर्हविशेषणानां विशेष्यपर्यन्तत्वमाश्रित्य मुख्यत्वे नोपपद्यन्ते । “तत्त्वमसि, अयमात्मा ब्रह्म” इत्यादिषु, तच्छब्दब्रह्मशब्दवत् त्वमयमात्मेति शब्दा अपि जीवशरीकब्रह्मवाचकत्वेनैकार्थाभिधायित्वात् इत्ययमर्थः प्रागेव प्रपञ्चितः ॥ 45 ॥
एवं प्रभाप्रभावद्रूपेण शक्तिशक्तिमद्रूपेण शरीरात्मभावेन चांशांशिभावं जगद्ब्रह्मणोः पराशरादयः स्मरन्ति- “एकदेशस्थितस्याग्नेर्ज्योत्स्ना विस्तारिणी यथा । परस्य ब्रह्मणः शक्तिस्तथेदमखिलं जगत् ॥ यत्किञ्चित्सृज्यते येन सत्त्वजातेन वै द्विज! । तस्य सृज्यस्य सम्भूतौ तत्सर्वं वै हरेस्तनुः” इत्यादिना । चकाराच्छृतयोऽपि “यस्यात्मा शरीरम्” इत्यादिन्राऽऽत्मशरीरभावेनांशांशित्वं वदन्तीत्युच्यते । एवं ब्रह्मणोंऽशत्वे ब्रह्मप्रवर्त्त्यत्वे ज्ञत्वे च सर्वेषां समाने केषाञ्चिद्वेदाध्ययनतदर्थानुष्ठानाद्यनुज्ञा, केषाञ्चित्तत्परिहारः, केषाञ्चिद्दर्शनस्पर्शनाद्यनुज्ञा, केषाञ्चित्तत्परिहारश्च, शास्त्रेषु कथमुपपद्यत इत्याशङ्क्याह - ॥ 46 ॥
सर्वेषां ब्रह्मांशत्वज्ञत्वादिनैकरूपत्वे सत्यपि ब्राह्मणक्षत्रियवैश्यशूद्रादिरूपशुच्युशुचिदेहसम्बन्धनिबन्धनावनुज्ञापरिहारावुपपद्यते; ज्योतिरादिवत् यथाऽग्नेग्नित्त्वेनैकरूपत्वेऽपि श्रोत्रियागारादग्निराह्रयते, श्मशानादेस्तु परिह्रियते, यथा चान्नादि श्रोत्रियादेरनुज्ञायते; अभिशस्तादेस्तु परिह्रियते ॥ 47 ॥
ब्रह्मांशत्वादिनैकरूत्वे सत्यपि जीवानामन्योन्यभेदादणुत्वेन प्रतिशरीरं भिन्नत्वाच्च भोगव्यतिकरोऽपि न सम्भवति । भ्रान्तब्रह्मजीववादे चोपहितब्रह्मजीववादे च जीवपरयोर्जीवानां च भोगव्यतिकरादयः सर्वे दोषास्सन्तीत्यभिप्रायेण स्वपक्षे भोगव्यतिकराभाव उक्तः । ननु भ्रान्तजीववादेऽप्यविद्याकृतोपाधिभेदाद्भोगव्यवस्थादय उपपद्यन्ते; अत
आह - ॥ 48 ॥
अखण्डैकरसप्रकाशमात्रस्वरूपस्य स्वरूपतिरोधानपूर्वकोपाधिभेदोपपादनहेतुराभासः एव, प्रकाशैकस्वरूपस्य प्रकशतिरोधानं प्रकाशनाश एवेति प्रागेवेपपादितम् । आभासा एवेति वा पाठः तथा सति हेतव आभासाः, चकारात् “पृथगात्मानं प्रेरितारं च मत्वा, ज्ञाज्ञौ द्वौ तयोरन्यः पिप्पलं स्वाद्वत्ति” इत्यादिश्रुतिविरोधश्च । अविद्यापरिकल्पितोपाधिभेदे हि सर्वोपाधिरुपहितस्वरूपस्यैकत्वाभ्युपगमाद्भोगव्यतिकरस्तदवस्थ एव । पारमार्थिकोपाध्युपहितब्रह्मजीववादे उपाधिभेदहेतुभृतानाद्यदृष्टवशाद्वयवस्था भविष्यतीत्याशङ्क्याह - ॥ 49 ॥
उपाधिपरम्पराहेतुभूतस्यादृष्टस्यापि ब्रह्मस्वरूपाश्रयत्वेन नियमहेत्वभावादव्यवस्थैव, उपाधिभिरदृष्टैश्च स्वसम्बन्धेन ब्रह्मस्वरूपच्छेदासम्भवात् ॥ 50 ॥
अदृष्टहेतुभूताभिसन्ध्यादिष्वपि उक्तादेव हेतोरनियम एव ॥ 51 ॥
यद्यप्येकमेव ब्रह्मस्वरूपम्, तच्छेदानर्हं नानाविधोपाधिभिः सम्बध्यते; तथाऽप्युपाधिसम्बन्धिब्रह्मप्रदेशभेदादुपपद्यत एव भोगव्यवस्थेति चेत्- तन्न, उपाधीनां तत्र तत्र गमनात्सर्वप्रदेशानां सर्वोपाध्यन्तर्भावाद्व्यतिकरस्तदवस्थ एव । प्रदेशभेदेन सम्बन्धेऽपि सर्वस्य ब्रह्मप्रदेशत्वात्तत्तत्प्रदेशसम्बन्धि दुःखं ब्रह्मण एव स्यात् । पूर्वत्र “नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा” “उपलब्धिवदनियम” इत्याभ्यां सूत्राभ्यां वेदाबाह्यानां सर्वगतजीववादिनां दोष उक्तः; अत्र तु “आभास एव च” इत्यादिभिः सूत्रैर्वेदावलम्बिनामात्मैकत्ववादिनां दोष उच्यते ॥ 52 ॥
॥ इत्यंशाधिकरणम् ॥ 7 ॥
इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये प्रथमस्याध्यस्य तृतीयः पादः ॥॥