इदं जीवस्य कर्तृत्वं किं स्वातन्त्र्ेण? उत परमात्मायत्तम्? इति । किं प्राप्तं? स्वातन्त्र्ेणेति । परमात्मायत्तत्वे हि विधिनिषेधशास्त्रानर्थक्यं प्रसज्येत । यो हि स्वबुद्धया प्रवृत्तिनिवृत्त्यारम्भशक्तः; स एव नियोज्यो भवति । अतः स्वातन्त्रेणास्य कर्तृत्वम् इति प्राप्तेऽभिधीयते-परात्तु तच्छ्रूतेः- इति । तु शब्दः पक्षं व्यावर्तयति; तत्- कर्तृत्वम् अस्य जीवस्य परात्- परमात्मन एव हेतोर्भवति, कुतः श्रुतेः “अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा, य आत्मनि निष्ठन्नात्मनोऽन्तरो यमयति यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृत” इति । स्मृतिरपि “सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च” “ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन! तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया” इति । नन्वेवं विधिनिषेधशास्त्रानर्थक्यं प्रसज्येतेत्युक्तं, तत्राह - ॥ 40 ॥
सर्वासु क्रियासु पुरुषेण कृतं प्रयत्नमुद्योगमपेक्ष्यान्तर्यामी परमात्मा तदनुमतिदानेन प्रवर्तयति; परमात्मा
नुमतिमन्तरेणास्य प्रवृत्तिर्नोपपद्यते इत्यर्थः । कुत एतत्? विहितप्रतिषिद्धावैयर्थ्यादिभ्यः, आदिशब्देनानुग्रहनिग्रहादयो गृह्यन्ते । यथा द्वयोः साधारणे धने परस्वत्वापादनमन्यतरानुमतिमन्तरेण नोपपद्यते, अथाऽपीतरानुमितिः स्वेनैव कृतेति तत्फलं तस्यैव भवति; पापकर्म्मसु निवर्तनशक्तस्याप्यनुमन्तृत्वं न निर्दयत्वमावहतीति साङ्ख्यसमवनिरूपणे प्रतिपादितम् । नन्वेवम् “एष ह्येव साधु कम्मर् कारयति तं यमेभ्या लोकेभ्य उन्निनीषति एष एवासाधु कमर् कारयति तं यमधो निनीषति” इत्युन्निनीषयाऽधोनिनीषया च स्वयमेव साध्वसाधुनी कर्मणी कारयत्येतन्नोपपद्यते । उच्यते- एतन्न सर्वसाधारणं, यस्त्वतिमात्रपरमपुरुषानुकूल्ये व्यवस्थितः प्रवर्त्तते, तमनुगृह्णन् भगवान्स्वयमेव स्वप्राप्त्युपायेष्वतिकल्याणेषु कर्मस्वेव रुचिं जनयति, यश्चातिमात्रप्रातिकूल्ये व्यवस्थितः प्रवर्त्तते; तं निगृह्णन्स्वप्राप्तिविरोधिष्वधोगतिसाधनेषु कर्मसु रुचिं जनयति । यथोक्तं भगवता स्वयमेव “अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्त्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः” इत्यारभ्य “तेषां सततयुक्तानां भजतां प्रतीतिपूर्वकम् । ददामि बुद्धियोगन्तं येन मामुपयान्ति ते ॥
तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्म भावस्थो ज्ञानदीपेन भास्वता” इति; तथा “असत्यमप्रतिष्ठं ते जगदारहुनीश्वरम्” इत्यादि, “मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः” इत्यन्तमुकत्वा “तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । क्षिपाम्यजस्त्रमशुभानासुरीष्वेव योनिषु” इत्युक्तम् ॥ 41 ॥ । इति परायत्ताधिकरणम् ।