अयमात्मा ज्ञाता स चाणुपरिमाण इत्युक्तम्, इदानीं किं स एव कर्त्ताः उत स्वयमकर्तैव सन्नचेतनानां गुणानां कर्तृत्वमात्मन्यध्यस्यतीति चिन्त्यते । किमत्र युक्तम् अकर्तैवात्मेति, कुतः? आत्मनो ह्यकर्तृत्वं गुणानामेव च
कर्तृत्वमध्यात्मशास्त्रेषु श्रूयते । तथा हि कठवल्लीषु जीवस्य “न जायते म्रियते” इत्यादिना जन्मजरामरणादिकं सर्वं प्रकृतिधर्मं प्रतिषिध्य हननादिषु क्रियासु कर्तृत्वमपि प्रतिषिध्यते “हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते” इति । हन्तारमात्मानं जानन्न जानात्यात्मानमित्यर्थः । तथा च भगवता स्वयमेव जीवस्याकर्तृत्वं स्वरूपं; कर्तृत्वाभि
मानस्तुरव्यामाह इत्युच्यते- “प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्त्ताऽहमिति मन्यते ॥ नान्यं गुणेभ्यः कर्त्तारं यदा द्रष्टाऽनुपश्यति । कार्य्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ॥ पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते” इति च । अतःपुरुषस्य भोक्तृत्वमेव प्रकृतेरेव तु कर्तृत्वम् इति ॥ एवं प्राप्ते प्रचक्ष्महेकत्राशास्त्रार्थवत्वात् इति । आत्मैव कर्त्ता । न गुणाः, कस्मात्? शास्त्रार्थवत्त्वात्; शास्त्राणि हि “यजेत स्वर्गकाम” मुमुक्षुबर्रह्मोपासीत" इत्येवमादीनि स्वर्गमोक्षादिफलस्य भोक्तारमेव कर्तृत्वे नियुञ्जते, न ह्यचेतनस्य कर्तृत्वेऽन्यो नियुज्यते । शासनाच्च शास्त्रम्, शासनं च प्रवर्तनं; शास्त्रस्य च प्रवर्तकत्वं बोधजननद्वारेण, अचेतनं च प्रधानं न बोधयितुं शक्यम् । अतः शास्त्रफलं प्रयोक्तरि" सति । यदुक्तं “हन्ता चेन्मन्यते” इत्यादिना हननक्रियायामकर्तृत्वमात्मनः श्रूयत इति; तदात्मनो नित्यत्वेन हन्तव्यत्वा भावादुच्यते यच्च “प्रकृतेः क्रियमाणा"नीत्यादिना गुणानामेव कर्तृत्वं स्मथ्यत इति; तत्सासारिकप्रवृत्तिष्वस्यं कर्तृता सत्त्वरजस्तमोगुणसंसर्गकृता; न स्वरूपप्रयुक्तेति प्राप्ताप्राप्तविवेकेन गुणानामेव कर्तृत्वमित्युच्यते । तथा च तत्रैवोच्यते “कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु” सति । तथा तत्रैवात्मनश्च कर्तृत्वमभ्युपेत्योच्यते “तत्रैवं सति कर्त्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः” इति । “अधिष्ठानं तथा कर्त्ता करणं च पृथग्विधम् । विविधाच पृथक् चेष्टा दैवं चैवात्र पञ्चमम्” इत्यधिष्ठानादिदैवपर्य्यन्तसापेक्षे सत्यात्मनः कर्तृत्वे य आत्मानमेव केवलङ्कर्त्तारं मन्यते, न स पश्यतीत्यर्थः ॥ 33 ॥
“स यथा महाराज” इति प्रकृत्य “एवमेवैष एतान्प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते” इति प्राणानामुपादाने विहारे च कर्तृत्वमुपदिश्यते ॥ 34 ॥
“विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च” इति लौकिकवैदिकक्रियासु कर्तृत्वव्यपदेशाच्च कर्त्ता । विज्ञानशब्देन नात्मनो व्यपदेशः, अपि त्वन्तःकरणस्य बुद्धेरिति चेत्- एवं सति निर्देशविपर्ययः स्यात् बुद्धेः करणत्वाद्विज्ञानेनेति करणविभक्तिनिर्देशः स्यात् ॥ 35 ॥
आत्मनोऽकर्तृत्वे दोष उच्यते । यथाऽऽत्मनो विभुत्वे नित्योपलब्ध्यनुपलब्धिप्रसङ्ग इत्यादिनोपलब्धेरनियम उक्तः; तद्वदात्मनोऽकर्तृत्वं प्रकृतेश्च कर्तृत्वे तस्याः सर्वपुरुषसाधारणत्वात्सर्वाणि कर्माणि सवोषां भोगाय स्युः, नैव वा कस्यचित् । आत्मनां विभुत्वाभ्युपगमात्सन्निधानमपि सर्वोषामविशिष्टम्,अत एव चान्तःकरणादीनामपि नियमो नोपपद्यते; यदायत्ता व्यवस्था स्यात् ॥ 36 ॥
बुद्धेः कर्तृत्वे कर्त्तुरन्यस्य भोक्तृत्वानुपपत्तेर्भोक्तृत्वशक्तिरपि तस्य एव स्यादित्यात्मनो भोक्तृत्वशक्तिर्हीयेत । भोक्तृत्वं च बुद्धेरेव सम्पद्यत इत्यात्मसद्भावे प्रमाणाभावश्च स्यात् । “पुरुषोऽस्ति भोक्तृभावात्” इति हि तेषामभ्युपगमः ॥ 37 ॥
बुद्धेः कर्तृत्वे मोक्षसाधनभूतसमाधावपि सैव कर्त्री स्यात् । स च समाधिः प्रकृतेरन्योऽस्मीत्येवंरूपः, न च प्रकृतेरन्योऽस्मीति प्रकृतिः समाधातुमलम् ॥ अतोऽप्यात्मैव कर्त्ता । नन्वात्मनः कर्तृत्वेऽभ्युगम्यमाने सर्वदा कर्तृत्वं नोपरमेतेत्यत्राह - ॥ 38 ॥
वागादिकरणसम्पन्नोऽप्यात्मा यदेच्छति, तदा करोति, यदा तु नेच्छति, तदा न करोति; यथा तक्षा वास्यादकरणमात्रधानेऽपीच्छानुगुण्येन करोति, न करोति च । बुद्धेस्त्वचेतनायाः कर्तृत्वे तस्याः भोगवाञ्छादिनियमकारणाभावात् सर्वदा कर्तृत्वमेव स्यात् ॥ 39 ॥ ॥ कर्त्रधिकरणं समाप्तम् ॥