22 ज्ञाधिकरणम्

वियदादिवज्जीवो नोत्पद्यत इत्युक्तम्, तत्प्रसङ्गेन जीस्वरूपं निरूप्यते । किं सुगतकपिलाभिमतचिन्मात्रमेवात्मनः स्वरूपम्? उत कणभुगभिमतपाषाणकल्पस्वरूपमचित्स्वरूपमेवागन्तुक

चैतन्यगुणकम्? । अत ज्ञातृत्वमेवास्य स्वरूपम्? इति, किं युक्तं चिन्मात्रमिति । कुतः, तथा श्रुतेः । अन्तर्यामिब्राह्मणे हि “य आत्मनि तिष्ठ"न्निति माध्यन्दिनीयपर्यायस्य स्थाने “यो विज्ञाने तिष्ठ"न्निति काण्वा अधीयते तथा- “विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च” इति कर्तुरात्मनो विज्ञानमेव स्वरूपं श्रूयते । स्मृतिषु च ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः” इत्यादिष्वात्मनो ज्ञानस्वरूपत्वं प्रतीयते । अपरस्तु जीवात्मनो ज्ञानत्वे ज्ञातृत्वे च स्वाभाविकेऽभ्युपगम्यमाने तस्य सर्वगतस्य सर्वदा सर्वत्रोपलब्धिप्रसङ्गात्, करणानां च वैयर्थ्यात्, सुषुप्तिमूर्च्छादिषु सतोऽप्यात्मनश्चैतन्यानुपलब्धेर्जाग्रतस्सामग्रयां सत्यां ज्ञानोत्पत्तिदर्शनादस्य न ज्ञानस्वरूपम्;

नापि ज्ञातृत्वम्, आगन्तुकमेव चैतन्यं, सर्वगतत्वं चात्मनोऽवश्याभ्युपेत्यम्, सर्वत्र कार्य्योपलब्धेः सर्वत्रात्मनः सन्निधानाभ्युपगमाच्छरीरगमनेनैव कार्य्यसम्भवे सति गतिकल्पनायां प्रमाणाभावाच्च । श्रुतिरपि सुषुप्तिवेलायां ज्ञानाभावं दर्शयति “नाहं खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एव

इमानि भूतानि” इति । तथा मोक्षदशायां ज्ञानाभावं दर्शयति “न प्रेत्य सञ्ज्ञास्ति” इति; ज्ञानस्वरूपमित्यादिप्रयोगस्तु ज्ञानस्य तदसाधारणगुणत्वेन लाक्षणिक इति । एवं प्राप्ते प्रचक्ष्महे- ज्ञोऽत एव । ज्ञ एव- अयमात्माज्ञातृत्वस्वरूप एव, न ज्ञानमात्रम्, नापि जडस्वरूपः, कुतः? अत एव नुतेरेवेत्यर्थः । नात्मा श्रुते"रिति प्रकृता श्रुतिः- अतश्शब्देन परामृश्यते । तथा छान्दोग्ये प्रजापतिवाक्ये मुक्तामुक्तात्मस्वरूपकथने “अथ यो वेदेदं जिघ्राणीति स आत्मा” “मनसैवैतान्कामान्पश्यन् रमते य एते ब्रह्मलोके” “सत्यकामः सत्यसङ्कल्पः” “नोपजनं स्मरन्निदं शरीरम्” अन्यत्रापि “न पश्यो मृत्युं पश्यति” तथा वाजसनेयके “कतम आत्मा” इति पृष्टवा “योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः” इति; “तथा विज्ञातारमरे केन विजानीयात्” “जानात्येवायं पुरुषः”

तथा “एष हि द्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्त्ता विज्ञानात्मा पुरुषः” “एवमेवास्य परिद्रष्टुरिमाः षोडशकला” इति । यत्तूक्तं ज्ञातृत्वे स्वाभाविके सति सर्वगतस्य तस्य सर्वदा सर्वत्रोपलब्धिः प्रसज्येत इति; तत्रोच्यते - ॥ 19 ॥

नायं सर्वगतः, अपि त्वणुरेवायमात्मा; कुतः? उत्क्रान्तिगत्यागतिीनां श्रुतेः । उत्क्रान्तिस्तावच्छ्रूयते “तेन प्रद्योतेनैष आत्मानिष्क्रामति चक्षुषो वा मूर्ध्नो वा अन्येभ्यो वा शरीरदेशेभ्यः” इति । गतिरपि “ये वै केचास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति” इति । आगतिरपि “तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मणे” इति । विभुत्वे ह्येता उत्क्रान्त्यादयो नोपपद्येरन् ॥ 20 ॥

च शब्दोऽवधारणे । यद्यपि शरीरवियोगरूपत्वेन उत्क्रान्तिः स्थिरस्यात्मनः कथञ्चिदुपपद्यते; गत्यागती तु न कथञ्चिदुपपद्येते । अतस्ते स्वात्मनैव सम्पाद्ये ॥ 21 ॥

“योऽयं विज्ञानमयः प्राणेषु” इति जीवं प्रस्तुत्य “स वा एव महानज आत्मा” इति महत्वश्रुतेर्नाणुर्जीव इति चेन्नेतराधिकाराज्जीवादितरस्य प्राज्ञस्य तत्राधिकारात्, यद्यप्युपक्रमे जीवः प्रस्तुतः तथाऽपि यस्यानुवित्तः प्रतिबुद्ध आत्मेति मध्ये परः प्रतिपाद्यते इति तत्सम्बन्धीदं महत्त्वम्, न जीवस्य ॥ 22 ॥

साक्षादणुशब्द एव श्रूयते “एषोऽणुरात्मा चेतसा वेदिव्तयो यस्मिन्प्राणः पञ्चधा संविवेश” इति । उद्धृत्य मानम्- उन्मानम्, अणुसदृशं वस्तूद्धृत्य तन्मानत्वं जीवस्य श्रुयते “बालाग्रशतभागस्य शतधा कल्पितस्य च भागो जीवः स विज्ञेयः” इति । “आराग्रमात्रो ह्यवरोऽपि दृष्ट” इति च, अतोऽणुरेवायमात्मा ॥ 23 ॥

अथ स्यादात्मनोऽणुत्वे सकलशरीरव्यापिनी वेदना नोपपद्यत इति, तत्र मतान्तरेण परिहारमाह -

यथा हरिचन्दनविन्दुर्देहैकदेशवर्त्यपि सकलदेहव्यापिनमाह्लादं जनयति, तद्वदात्माऽपि देहैकदेशवर्त्तीसकलदेशवर्तिर्नी वेदनामनुभवति ॥ 24 ॥

हरिचन्दनविन्द्वादेर्द्देहदेशविशेषावस्थितिविशेषात् तथा भावः, आत्मनस्तु तन्न विद्यत इति चेत् न- , आत्मनोऽपि देहदेशविशेषे स्थित्यभ्युपगमात् हृदयदेश ह्यात्मनः स्थितिः श्रूयते “हृदि ह्ययमात्मा तत्रैकशतं नाडीना” मिति । तथा “कतम आत्मा” इति प्रकृत्य “योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः” इति, आत्मनो देशविशेषस्थितिख्यापनाय चन्दनदृष्टान्तः प्रदर्शितः । न तु चन्दनस्य देशविशेषापेक्षा । एकदेशवर्त्तिनः सकलदेहव्यापिकार्य्यकरत्वप्रकारं स्वमतेनाह - ॥ 25 ॥

वाशब्दो मतान्तरव्यावृत्त्यर्थः, आत्मा स्वगुणेन ज्ञानेन सकलदेहं व्याप्यावस्थितः, आलोकवत्; यता मणिद्युमणिप्रभृतीनामेकदेशवर्त्तिनामालोकोऽनेकदेशव्यापी दृश्यते तद्वद्धृदयस्थस्यात्मनो ज्ञानं सकलदेहं व्याप्य वर्त्ततेः ज्ञातुः प्रभास्थानीयस्य ज्ञानस्य स्वाश्रयादन्यत्र वृत्तिर्मणिप्रभावदुपपद्यते- इति प्रथमसूत्रे स्थापितम् । ननूक्तं ज्ञानमात्रमेवात्मेति तत्कथं ज्ञानस्य स्वरूपव्यतिरिक्तगुणत्वमुच्यते; तत्राह - ॥ 26 ॥

यथा पृथिव्या गन्धस्य गुणत्वेनोपलभ्यमानस्य ततो व्यतिरेकः, तथा जानामीति ज्ञातुर्गुणत्वेन प्रतीयमानस्य ज्ञानस्यात्मनो व्यतिरेकः सिद्धः; दर्शयति च नुतिः “जानात्येवायं पुरुषः” इति ॥ 27 ॥

स्वशब्देनैव विज्ञानं विज्ञातुः पृथगुपदिश्यते “न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते” इति । यत्तूक्तं “यो विज्ञाने तिष्ठन्, विज्ञानं यज्ञं तनुते, ज्ञानस्वरूपमत्यन्तनिर्मलम्” इत्यादिषु ज्ञानमेवात्मेति व्यपदिश्यत इति; तत्राह- ॥ 28 ॥

तु शब्दश्चोद्यं व्यावर्तयति । तद्गुणसारत्वात् विज्ञानगुणसारत्वादात्मनो विमानमिति व्यपदेशः, विज्ञानमेवास्य सारभूतो गुणः, यथा प्राज्ञस्यानन्दः सारभूतोगुण इति प्राज्ञ आनन्दशब्देन व्यपदिश्यते “यदेष आकाश आनन्दो न स्यात्, आनन्दो ब्रह्मेति व्यजाना"दिति प्राज्ञस्य ह्यानन्दस्सारभूतो गुणः “स एको ब्रह्मण आनन्दः, आनन्दं ब्रह्मणो विद्वान्न विभेति कुतश्चने"ति, यथा वा “सत्यं ज्ञानमनन्तं ब्रह्मे"ति विपश्चितः प्राज्ञस्य ज्ञानशब्देन व्यपदेशः “सह ब्रह्मणा विपश्चिता, यस्सर्वज्ञ” इत्यादिषु प्राज्ञस्य ज्ञानं सारभूतो गुण इति विज्ञायते ॥ 29 ॥

विज्ञानस्य यावदात्मभाविधर्मत्वात् तेन तद्व्यपदेशो न दोषः । तथा च खण्डादयो यावत्स्वरूपभाविगोत्वादिधर्मशब्देन गौरिति व्यपदिश्यमाना दृश्यन्ते स्वरूपनिरूपणधर्मत्वादित्यर्थः । चकारात् ज्ञानवदात्मनोऽपि स्वप्रकाशत्वेन विज्ञानमिति व्यपदेशे न दोष इति समुच्चिनोति ॥ यच्चोक्तं सुषुप्त्यादिषु ज्ञानाभावात् ज्ञानस्य न स्वरूपानुबन्धिधर्मत्वमिति, तत्राह -

तुशब्दश्चोदिताशङ्कानिवृत्त्यर्थः । अस्य ज्ञानस्य सुषुप्त्यादिष्वपि विद्यमानस्य जागर्यादिष्वभिव्यक्तेस्सम्भवात्, स्वरूपानुबन्धिधर्मत्वोपपत्तिः (पुंस्त्वादिवत्) । यथा पुंस्त्वाद्यसाधारणस्य धातोर्बाल्यावस्थायां सतोऽप्यनभिव्यक्तस्य युवत्वेऽभिव्यक्तौ पुंसस्तद्वत्ता न कादाचित्की भवति । सप्तधातुमयत्वं हि शरीरस्य स्वरूपानुबन्धि । * तत्सप्तधातु त्रिमलं द्वियोनि चतुर्विधाहारमयं शरीरम् इति शरीरस्वरूपव्यपदेशात् । सुषुप्त्यादिष्वप्यहमर्थः प्रकाशत इति प्रागेवोक्तम् । तस्य विद्यमानस्य ज्ञानस्य विषयगोचरत्वं जागर्यादावुपलभ्यते । एते चात्मनो ज्ञातृत्वादयो धर्माः प्रागेवोपपादिताः । अतो ज्ञातृत्वमेव जीवात्मनः स्वरूपम् । स चायमात्माऽणुपरिमाणः । * न प्रेत्य संज्ञास्तीत्यपि न मुक्तस्य ज्ञानाभाव उच्यते, अपि तु * एतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यतीति संसारदशायां यद्भूतानुविधायिप्रयुक्तं जन्मनाशादिदर्शनं तन्मुक्तस्य न विद्यते, * न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् । सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वशः ।, * नोपजनं स्मरन्निदं शरीरम्, * मनसैतान् कामान् पश्यन्रमते इत्यादिश्रुत्यैकार्थ्यात् ।

अन्यथा सर्वगतत्वपक्षे तस्य ज्ञानमात्रत्वपक्षे च नित्यमुपलब्ध्यनुपलब्धी सहैव प्रसज्येयाताम्; अन्यतरनियमो वा- उपलब्धिरेव वा नित्यं स्यात्, अदनुपलब्धिरेव वा; एतदुक्तं भवति- लोके तावद्वर्तमानयोरात्मोपलब्ध्यनुपलब्ध्योरयं ज्ञानात्मा सर्वगतो हेतुः स्यात्; उपलब्धेरेव वा- अनुपलब्धेरेव वा; उभयहेतुत्वे सर्वदा- सर्वत्रोभयं प्रसज्येत यद्युपलब्धेरेव, सर्वस्य सर्वदा सर्वत्रानुपलभ्भो न स्यात्, अथानुपलब्धेरेव सर्वदा सर्वत्रोपलब्धिर्न स्यात्- इति । अस्माकं शरीरस्यान्तरेवावस्थितत्वादात्मनस्तत्रैवोपलब्धिर्नान्यत्रेति व्यवस्थासिद्धिः । करणायत्तोपलब्धेरपि सर्वेषामात्मनां सर्वगतत्वेन सर्वैः करणै सर्वदा संयुक्तत्वाददृष्टादेरप्यनियमादुक्तदोषः समानः ॥ 32 ॥ ॥ ज्ञाधिकरणं समाप्तम् ॥