21 आत्माधिकरणम्

वियदादेः कृत्स्नस्य परस्माद्व्रह्मण उत्पत्तिरुक्ता, इदानीं जीवस्याप्युत्पत्तिरस्ति नेति संशय्यते; किं युक्तमस्ततिि, कुतः, एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्तेः, प्राक्सष्टेरेकत्वावधारणाच्च । वियदादेरिव जीवस्याप्युत्पत्तिवादिन्यः श्रुतयश्च सन्ति- “यतः प्रसूता जगतः प्रसूूती तोयेन जीवान् व्यससर्ज भूम्याम्” “प्रजापतिः प्रजा असृजत” “सन्मूलाः सोभ्येमाः सर्वाः प्रजा सदायतना सत्प्रतिष्ठा” “यतो वा इमानि भृतानि जायन्त” इति । एवं सचेतनस्य जगत उत्पत्तिवचनाज्जीवस्याप्युत्पत्तिः प्रतीयते । न च वाच्यं ब्रह्मणो नित्यत्वात्तत्त्वमस्यादिभिश्च जीवस्य ब्रह्मत्वावगमात् जीवस्य नित्यत्वमिति “ऐतदात्म्यमिदं सर्वं” “सर्वं खल्विदं ब्रह्म” इत्येवगादिभिर्वियदादेरनि ब्रह्मत्वावगमात्तस्यापि नित्यत्वप्रसक्तेः । अतो जीवोऽपि वियदादिवदुत्पद्यत इत्येवं प्राप्तेऽभिधीयतेनात्मा श्रुतेरिति । नात्मोत्पद्यते; कुतः? श्रुतेः, “न जायते म्रियते वा विपश्चित्, ज्ञाज्ञौ द्वावजा"वित्यादिभिर्जीवस्योत्पत्तिप्रतिषेधो हि श्रुयते । आत्मनो नित्यत्वं च ताभ्यः श्रुतिभ्य एवावगम्यते “नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्” “अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे” इत्यादिभ्यः । अतश्च नात्मोत्पद्यते, कथं तर्हि एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपद्यते; इत्थमुपपद्यते । जीवस्यापि कार्य्यत्वात्कार्य्यकारणयोरनन्यत्वाच्च । एवं तर्हि वियदादिवदुत्पत्तिमत्त्वमङ्गीकृतं स्यात्; नेत्युच्यते । कार्य्यत्वं हि नामैकस्य द्रव्यस्यावस्थान्तरापत्तिः, तज्जीवस्याप्यस्त्येव । इयांस्तु विशेषः- वियदादेरचेतनस्य यादृशोऽन्यथाभावो न तादृशो जीवस्य, ज्ञानसङ्कोचविकासलक्षणो जीवस्यान्यथाभावः, वियदादेस्तु स्वरूपान्यथाभावलक्षणः । सेयं स्वरूपान्यथाभावलक्षणोत्पत्तिर्जीवे प्रतिषिध्यते ।

एतदुक्तं भवति- भोग्यभोक्तृनियन्तृन् विविक्तस्वभावान् प्रतिपाद्य भोग्यगतमुत्पत्त्यादिकं भोक्तरिप्रतिषिध्य तस्य नित्यतां च प्रतिपाद्य भोग्यगतमुत्पत्त्यादिकं भोक्तृगतं चापुरुषार्थाश्रयत्वं नियन्तरिप्रतिषिध्य तस्य नित्यत्वं, निरवद्यत्वं, सर्वदा सर्वज्ञत्वं, सत्यसङ्कल्पत्वं,करणाधिपाधिपत्वं, विश्वस्यपतित्वं, च प्रतिपाद्य सर्वावस्थयोश्चिदचितोस्तं प्रतिशरीरत्वं तस्य चात्मत्वं प्रतिपादितम्, अतस्सर्वदाचिदचिद्वस्तुशरीरतया तत्प्रकारं ब्रह्म; कदाचित्स्वस्माद्विभक्तव्यपदेशानर्हतिसूक्ष्मदशापन्नचिदचिद्वस्तुशरीरं तिष्ठति, तत्कारणावस्थं ब्रह्म; कदाचिच्च विभक्तनामरूपस्थूलचिदद्विस्तु शरीरं, तच्च कार्य्यावस्थं, तत्र कारणावस्थस्य कार्यावस्थापत्तावचिदंशस्य कारणावस्थायां शब्दादिविहीनस्य भोग्यत्वाय शब्दादिमत्तयां स्वरूपान्यथाभावरूपविकारो भवति, चिदंशस्य च कर्मफलविशेषभोकतृत्वाय तदनुरूपज्ञानविकासरूपविकारो भवति, उभयप्रकारविशिष्टे नियन्त्रंशे तदवस्थतदुभयविशिष्टतारूपविकारो भवति; कारणावस्थाया अवस्थान्तरापत्तिरूपो विकारः प्रकारद्वये प्रकारिणि च समानः । अत एवैकस्यावस्थान्तरापत्तिरूपविकारापेक्षया “येनाश्रुतं श्रुत"मित्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय मृदादिदृष्टान्तः “यथा सोम्यैकेन” इत्यादिना निदर्शितः । ईदृशज्ञानसङ्कोचविकासकरतत्तद्देहसम्बन्धवियोगाभिप्रायाः जीवस्योत्पत्तिमरणवादिन्यः “प्रजापत्तिः प्रजा असृजत” इत्याद्याः श्रुतयः अचिदंशवत्स्वरूपान्यथात्वाभावाभिप्राया उत्पत्तिप्रतिषेधवादिन्यो नित्यत्ववादिन्यश्च “न जायते म्रियते” इत्याद्याः, “नित्यो नित्याना"मित्याद्याश्च श्रुतयः । स्वरूपान्यथात्वज्ञानसङ्कोचविकासरूपोभयविधानिष्टविकाराभावाभिप्रायः, “स वा एव महानज आत्माऽजरोऽमरोऽमृतो ब्रह्म” “नित्यो नित्याना"मित्याद्याः परविषयाः श्रुतयः । एवं सर्वदा चिदचिद्वस्तुविशिष्टस्य ब्रह्मणः प्राक्सृष्टेरेकत्वावधारणं च नामरूपविभागाभावादुप

पद्यते । “तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां नानात्वैकत्वे वदति इति । ये त्वविद्योपाधिकं जीवत्वं वदन्ति, ये च पारमार्थिकोपाधिकृतम्, ये च सन्मात्र स्वरूपं ब्रह्म स्वयमेव भोक्तृभोग्यनियन्तृरूपेण त्रिधाऽवस्थितं वदन्ति, सर्वेऽप्येते अविद्याशक्तेरुपाधिशक्तेर्भोक्तृभोग्यनियन्तृशक्तीनां च प्रलयकालेऽवस्थानेऽपि तदानीमेकत्वावधारणं नाम रूपविभागाभावादेवोपादयन्ति । “वैषम्यनैर्घृण्ये न सापेक्षत्वात् कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च” इति सूत्राभ्यां जीवभेदस्य तत्कर्मप्रवाहस्य चानादित्वाभ्युपगमाच्च । इयान् विशेषः- एकस्यानाद्यविद्या ब्रह्म स्वयमेव मुह्यति, अन्यस्य पारमार्थिकानाद्युपाधिना ब्रह्म स्वयमेव बध्यते, उपादिब्रह्मव्यतिरिक्तवस्त्वन्तराभावात् । अपरस्य ब्रह्मैव विचित्राकारेण परिणमते, कर्मफलानि चानिष्टानि भुङ्क्ते; नियन्त्रशस्य भोक्तृत्वाभावेऽपि सर्वज्ञत्वात्स्वस्मादभिन्नं भोक्तारमनुसन्दधातीति स्वयमेव भुङ्क्ते; अस्माकं तु स्थूलसूक्ष्मावस्थचिदचिद्वस्तुशरीरं ब्रह्म कार्यकारणोमयावस्थावस्थितमपि सर्वदा निरस्तनिरिखलदोषगन्धं सत्यसङ्कल्पत्वाद्यपरिमितोदारगुणसागरमवतिष्ठते । प्रकारभूतचिदचिद्वस्तुगता अपुरुषार्थाः स्वरूपान्यथाभावाश्चेति सर्वं समञ्चसम् ॥ 18 ॥ आत्माधिकरणं समाप्तम् ॥