20 तेजोधिकरणम्

ब्रह्मब्यतिरिक्तस्य कृत्स्नस्य ब्रह्मकार्य्यत्वमुक्तम्; इदानीं व्यवहितकार्य्याणां किं केवलात्तत्तदनन्तरकारणभूताद्वस्तुन उत्पत्तिः; अहोस्वित् तत्तद्रूपाद्व्रह्मण? इति चिन्त्यते । किं युक्तम्? केवला

त्तत्तद्वस्तुन इति कुतः? तेजस्तावत् अतः - मातरिश्वन एवोत्पद्ये “वायोरग्निः” इति ह्याह ॥ 10 ॥

आपोऽपि अतः - तेजस एवोत्पद्यन्ते “अग्नेरापः” “तदपोऽसृजत” इत्याह ॥ 11 ॥

पृथिवी अद्भ्य उत्पद्यते - “अद्भयः पृथिवी” “ता अन्नमसृजन्ते” इत्याह । नन्वन्नशब्देन कथं पृथिव्यभिधीयते? अत आह - ॥ 12 ॥

महाभूतसृष्ट्यधिकारात्पृथिव्येवान्नशब्देनोक्तेति प्रतीयते । अदनीयस्य सर्वस्य पृथिवीविकारत्वात्कारणे कार्य्यशब्दः । तथा वाक्यशेषे भूतानां रूपसंशब्दने “यदग्नेरोहितं रूपं तेजस्तद्रूपं यच्छुक्लं तदपां यत् कृष्णं तदन्नस्य” इत्यप्तेजसोः सजातीयमेवान्नशब्दवाच्यं प्रतीयते । शब्दान्तरं च समानप्रकरणे “अग्नेरापः अभ्द्यः पृथिवी” इति श्रूयते । अतः पृथिव्येवान्नशब्देनाच्यत इत्यभ्द्य एव पृथिवी जायते । उदाहृताः तेजःप्रभृतयः प्रदर्शनार्थाः । महदादयोऽपि स्वानन्तरवस्तुन एवोत्पद्यन्ते; यथाश्रुत्यभ्युपगमाविरोधात्, “एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी” तस्मादेतद्व्रह्म नामरूपपन्नं च

जायते" “तस्माद्वा एतस्मादात्मनः आकाशः संभूतः” “तत्तेजाऽसृजत” इत्यादयो ब्रह्मणः परम्परया कारणत्वेप्युपपद्यन्त इति ।

एवं प्राप्ते प्रचक्ष्महे - ॥13॥

तुशब्दात् पक्षो व्यावृत्तः, महदादिकार्याणामपि तत्तदनन्तरवस्तुशरीरकः स एव पुरुषोत्तमः कारणम्, कुतः? तदभिध्यानरूपात्तल्लिङ्गात्; अभिध्यानम् - बहु स्यामिति सङ्कल्पः “तत्तेज ऐक्षत बहु स्यां प्रजायेयेति, ता आप एक्षन्त वह्वयः स्याम प्रजायेमिह” इत्यात्मनो बहुभवनसङ्कल्परूपेक्षणश्रवणान्महदहङ्काराकाशादीनामपि कारणानां तथाविधेक्षापूर्विकैव स्वकार्यसृष्टिरिति गम्यते, तथाविधं चेक्षणं तत्तच्छरीरकस्य परस्यैव ब्रह्मण उपपद्यते । श्रूयते च सर्वशरीरकत्वेन सर्वात्मकत्वं परस्य ब्रह्मणोऽन्तर्याभिब्राह्मणे “यः पृथिव्यां तिष्ठन्, योऽप्सु तिष्ठन्, यस्तेजसि तिष्ठन् यो वायौ तिष्ठन्, य आकाशे तिष्ठन्” इत्यादि । सुवालोपनिपदि च “यस्य पृथिवी शरीर” मित्यारभ्य “यस्याहङ्कारः, शरीरं यस्य बुद्धिः शरीरं, यस्याव्यक्तं शरीर” मित्यादि । “एतस्माज्जायते प्राणो मनःसर्वेन्द्रियाणि च” इत्यादिषु । यच्चोक्तम् - श्रूयमाणा ब्रह्मणः प्राणादिसृष्टिः परम्परयाऽप्युपपद्यत इति; अत्रोच्यते - ॥ 14 ॥

तुशब्दोऽवधारणार्थः । अव्यक्तमहदहङ्काराकाशादिक्रमाद्विपर्ययेण यः सर्वेषां कार्य्याणां ब्रह्मानन्तर्यरूपः क्रमः “एतस्माज्जायते प्राणः” इत्यादिषु प्रतीयते, स च क्रमस्तत्तद्रूपाद्व्रह्मणस्तत्तत्कार्य्योत्पत्तेरेवोपपद्यते । परम्परया

कारणत्वे ह्यानन्नतर्यश्रवणमुपरुध्येत । अतः “एतस्माज्जायते” इत्यादिकमपि सर्वस्य ब्रह्मणः साक्षात्सम्भवोत्तम्भनम् ॥ 15 ॥

विज्ञानसाधनत्वादिन्द्रियाणि विज्ञानमित्युच्यन्ते; यदुक्तम् “एतस्माज्जायते” इत्यादिना सर्वस्य ब्रह्मणोऽनन्तरकार्य्यत्वं श्राव्यते; अतश्चानेन वाक्येन सर्वस्य साक्षाद्व्रह्मण उत्पत्तिरभिध्यानलिङ्गावगतोत्तभ्यत इति; तन्नोपपद्यते - क्रमविशेषपरत्वादस्य वाक्यस्य; अत्रापि सर्वेषां क्रमप्रतीतेः । स्वादिषु तावत् श्रुत्यन्तरसिद्धः क्रमोऽत्रापि प्रतीयते - तैः सह पाठलिङ्गाद्भूतप्राणयोरन्तराले विज्ञानमनसी अपि क्रमेणोत्पद्यत इति प्रतीयते । अतः सर्वस्य साक्षाद्व्रह्मण एव सम्भवस्योत्तम्भकमिदां वाक्यं न भवति इति चेत् तन्न, अविशेषात् “एतस्माज्जायते प्राणः” इत्यनेनाविशेषात् । विज्ञानमनसोः स्वादीनां च “एतस्माज्जायते” इत्यनेन साक्षात्सम्भवरूपसम्बनधस्याभिधेयस्य सर्वेषां प्राणादिपृथिव्यन्तानामविशिष्टत्वात्स एव विधेयः न क्रमः । श्रुत्यन्तरसिद्धक्रमविरोधाच्च नेदं क्रमपरम्, “पृथिव्यप्सु प्रलीयते” इत्यारभ्य “तमः एकीभवति” इत्यन्तेन क्रमान्तरप्रतीतेः, अतोऽव्यक्तादिशरीरकात् परस्माद्व्रह्मण एव सर्वकार्याणामुत्पत्तिः । तेजःप्रभृतयश्च शब्दास्तदात्मभूतं ब्रह्मैवाभिदधति ॥ 16 ॥

नन्वेवं सर्वशब्दानां ब्रह्मवाचित्वे सति तैस्तैश्शब्दैस्तत्तद्वस्तुव्यपदेशो व्युत्पत्तिसिद्ध उपरुध्येत; तत्राह-

तुशब्दश्चोदितशङ्कानिवृत्त्यर्थः; निखिलजङ्गमस्थावरव्यपाश्रयस्तत्तच्छव्दव्यपदेशो भाक्तः - वाच्यैकदेशे भज्यत इत्यर्थः । समस्तवस्तुप्रकारिणो ब्रह्मणः प्रकारभूतवस्तुग्राहिप्रत्यक्षादिप्रमाणाविषयत्वाद्वेदान्तश्रवणात्प्राक् प्रकार्य्यप्रतीतेः, प्रकारिप्रतीतिभावभावित्वाच्च तत्पर्य्यवसानस्य, लोके तत्तद्वस्तुमात्रे वाच्यैकदेशे ते ते शब्दा खखभङ्कत्वा भङ्कत्वाव्यपदिश्यन्ते । अथवा तेजःप्रभृतिभिः शब्दैस्तत्तद्वस्तुमात्रवाचितया व्युत्पन्नैर्ब्रह्मणो व्यपदेशो भाक्तः स्यात् - अमुख्यः स्यादित्याशङ्कयचराचरव्यपाश्रयस्तु - इत्यच्यते । चराचरव्यपाश्रयः तद्वयपदेशः - तद्वाचिशब्दः, चराचरवाचिशब्दो ब्रह्मण्यभाक्तो मुख्य एव, कुतः ब्रह्मभावभावित्वात् सर्वशब्दानां वाचकभावस्य, नामरूपव्याकरणश्रुत्या हि तथाऽवगतम् ॥ 17 ॥ ॥ तेजोधिकरणं समाप्तम् ॥