सांख्यादिवेदबाह्यतन्त्राणां न्यायाभासमूलतया विप्रतिषेधाच्चासामञ्जस्यमुक्तम्, इदानीं स्वपक्षस्य विप्रतिषेधादिदोषाभावख्यापनाय ब्रह्मकार्य्यतयाऽभिमतचिदात्मकप्रपञ्चस्य कार्यताप्रकारो विशोध्यते । तत्र वियदुत्पद्यते न वेति संशय्यते । किं युक्तं न वियदुत्पद्यत इति, कुतः? अश्रुतेः; सम्भावितस्य हि श्रवणसम्भवः, असम्भावितस्य तु गगनकुसुमवियदुत्पत्त्यादेः शब्दाभिधेयत्वं न सम्भवति । न खलु निरवयवस्य सर्वगतस्याकाशस्यात्मन इव उतपत्तिर्निरूपयितुं शक्यते; अत एव चोत्पत्त्यसम्भवात् छान्दोग्ये
सृष्टिप्रकरणे तेजःप्रभृतीनामेवोत्पत्तिराम्नायते - “तदैक्षत बहु स्यां प्रजायेयेतितत्तेजोऽसृजत” इति । तैत्तिरीयकाथर्वणादिषु “तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः” “एतस्माज्जायते प्राणो मनः सर्वेन्दिऽयाणि च खं वायुर्ज्योतिराप” इत्यादिषु श्रूयमाणा वियदुत्पत्तिरर्थविरोधाद्वाध्यत इति ॥ 1 ॥ एवं प्राप्तेऽभिधीयते-
अस्ति त्वाकाशस्योत्पत्तिः । अतीन्द्रियार्थविषया हि श्रुतिः प्रमाणान्तरातीतामपि वियदुत्पत्तिं प्रतिपादयितुं समर्थैव । न च श्रुतिप्रतिपन्नेऽर्थे तद्विरोधिनिरवयवत्वादिहेतुकमनुत्पत्त्यनुमानमुदेतुमलम्; आत्मनोऽनुत्पत्तिर्न
निरवयवत्वप्रयुक्तेति वक्ष्यते । पुनश्चोदयति - ॥ 2 ॥
“तस्माद्वा एतस्मादात्मन आकाशः सम्भूत” इत्यादि वियदुत्पत्तिश्रुतिर्गौणीति कल्पयितुं युक्तम्, “तत्तेजोऽसृजत” इति सिसृक्षोर्ब्रह्मणः प्रथमं तेज उत्पद्यत इति तेजउत्पत्तिप्राथम्येन वियदुत्पत्तिप्रतिपादनासम्भवात् “वायुश्चान्तरिक्षं चैतदभृत"मिति वियतोऽभृतत्वशब्दाच्च । कथमेकस्य सम्भूतशब्दस्याकाशापेक्षया गौणत्वम्, अग्न्याद्यपेक्षया मुख्यत्वमिति चेत्तत्राह - ॥ 3 ॥
एकस्यैव “तस्माद्वा एतस्मादात्मन आकाशः संभूत” इत्याकाशे मुख्यात्वासम्भवात्, गौणतया प्रयुकस्य सम्भृतशब्दस्य वायोरग्विरित्यादिष्वनुक्तस्य मुख्यत्वं स्यादेव - ब्रह्मशब्दवत्; यथाब्रह्मशब्दः “तस्मादेतद्व्रह्म नामरूपमन्नं च जायते” इत्यत्र प्रधाने गौणतया प्रयुक्तस्तस्मिन्नं च जायते” इत्यत्र प्रधाने गौणतया प्रयुक्तस्तस्मिन्नेव प्रकरणे “तपसा चीयते ब्रह्म ततोऽन्नमभिजायत"इति ब्रह्मणि मुख्यतया प्रयुज्यते; तद्वत् । अनुषङ्गे
च श्रवणावृत्ताविवाभिधानावृत्तिर्विद्यत एवेत्यर्थः ॥ 4 ॥
परिहरति
छान्दोग्यश्रुत्यनुसारेणान्यासां वियदुत्पत्तिवादिनीनां श्रुतीनां गौणत्वं कल्पयितुं न युज्यते; यतः छान्दोग्यश्रुत्यैव वियदुत्पत्तिरङ्गीकृता । “येनाश्रुतं श्रुत"मित्यादिना ब्रह्मज्ञानेन सर्वज्ञानप्रतिज्ञानात्, तस्या हि प्रतिज्ञाया अहानिराकाशस्यापि ब्रह्मकार्य्यत्वेन तदव्यतिरेकादेव भवति ॥
इतश्च वियदुत्पत्तिश्छान्दोप्ये प्रतीयते “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीय"मिति प्राक्
सृष्टेरेकत्वावधारणशब्दात् “ऐतदात्म्यमिदं सर्वं” मित्येवामादिशब्देभ्यश्च कार्य्यत्वेन ब्रह्मणोऽव्यतिरेकप्रतीतेः, न च “तत्तेजोऽसृ
जत” इति तेजस उत्पत्तिश्रुतिर्वियदुत्पत्तिं वारयति, वियदुत्पत्त्यवचनमात्रेण तेजसः प्रतीयमानं प्राथम्यं श्रुत्यन्तप्रतिपन्नां वियदुत्पत्तिं न निवारयितुमलम् ॥ 6 ॥
तुशब्दश्चार्थे, “ऐतदात्म्यमिदं सर्व"मित्यादिभिराकाशस्य विकारत्ववचनेन तस्याकाशस्य ब्रह्मणोऽपि विभागः - उत्पत्तिरप्युक्तैव । लोकवत्- यथा लोक एते सर्वे देवदत्तपुत्रा” इत्यभिधाय तेषु केपाञ्चित् तत उत्पत्ति वचनेन सर्वेषामुत्पत्तिरुक्ता स्यात् तद्वत्, एवं च सति “वायुश्चान्तरिक्षं चैतदमृत"मिति सुराणामिव चिरकालस्थायित्वाभिप्रायम् ॥ 7 ॥
अनेनैव हेतुना मातविश्वनो वायोरप्युत्पत्तिर्व्याख्याता, वियन्मातरिश्वनोः पृथग्योगकरणं “तेजोऽतस्तथा ह्याह” इति मातरिश्वनः परामर्शार्थम् ॥ 8 ॥
तुशब्दोऽवधारणार्थः, असम्भवः - अनुत्पत्तिः । सतः ब्रह्मण एव तद्व्यतिरिक्तस्य कस्यचिदनुत्पत्तिर्न सम्भ
वति - अनुपपत्तेः; एतदुक्तं भवति - वियन्मातरिश्वतोरुत्पत्तिप्रतिपादनमुदाहरणार्थम्, उत्पत्त्यसम्भवस्तु सतः परमकारस्य परस्यैव ब्रह्मणः तद्वयतिरिक्तस्य कृत्स्नस्याव्यक्तमहदहङ्कारतन्मात्रेन्द्रियवियत्पवनादिकस्य प्रपञ्चस्यैकविज्ञानेन सर्वविज्ञानप्रतिज्ञादिभिरवगतकार्य्यभावस्यानुत्पत्तिर्नोपपद्यत इति ॥ 9 ॥
॥ वियदधिकरणं समाप्तम् ॥