यद्यपीश्वरः प्राक् सृष्टेरेक एव सन् सकलेतरविलक्षणत्वेन सर्वार्थशकितयुक्तः स्वयमेव विचित्रं जगत्स्रष्टुं शक्नोति; तथापीश्वरकारणत्वं न सम्भवति, प्रयोजनवत्त्वाद्विचित्रसृष्टेः, ईश्वरस्य च प्रयोजनाभावात् । बुद्धिपूर्वकारिणामारम्भे द्विविधं हि प्रयोजनं- स्वार्थः परार्थो वा । न हि परस्य ब्रह्मणः स्वभावत एवावाप्तसमस्तकामस्य जगत्सर्गेण किञ्चन प्रयोजनमनवाप्तमवाप्यते । नापि परार्थः, अवाप्तकामस्य परार्तता हि परानुग्रहेण भवति; न चेदृशगर्भजन्मजरामरणनरकादिनानाविधानन्तदुःखबहुलं जगत्करुणावान् सृजति, प्रत्युत सुखैकतानमेव जनयेज्जगत्करुणया सृजन्; अतः प्रयोजनताभावाद्ब्रह्मणः कारणत्वं नोपपद्यत इति ॥ एवं प्राप्ते प्रचक्ष्महे -
अवाप्तसमस्तकामस्य परिपूर्णस्य स्वसङ्कल्पविकार्यविविधविचित्रचिदचिन्मिश्रजगत्सर्गे लीलैव केवलं
प्रयोजनम्, लोकवत् । यथा लोके सप्तद्वीपा मेव मेदिनीमधितिष्ठतः सम्पूर्णशौर्यवीर्यपराक्रमस्यापि महाराजस्य केवललीलैकप्रयोजनाः कन्तुकाद्यारस्भादृश्यन्ते; तथैव परस्यापि ब्रह्मणः स्वसङ्कल्पमात्रावक२प्तजगज्जन्मस्थितिध्वंसादेर्लीलैव प्रयोजनमिति निरवद्यम् ॥
यद्यपि परमपुरुषस्य सकलेतरचिदचिद्वस्तुविलक्षणस्याचिन्त्यशक्तियोगात्प्राक्सृष्टेरेकस्य निरवयवस्यापि विचित्रचिदचिन्मिश्रजगत्सृष्टिः सम्भाव्येत, तथापि देवतिर्यङ्मनुष्यस्थावरात्मनोत्कृष्टमध्यमापकृष्टसृष्टया पक्षपातः प्रसृज्येत, अतिघोरदुःखयोगकरणान्नैर्घृण्यं चावर्जनीयमिति । तत्रोत्तरम्- न सापेक्षत्वादिति । न प्रसज्येयातां वैषम्यनर्घृण्ये, कुतः ? सापेक्षत्वात्- सृज्यमानदेवादिक्षेत्रज्ञकर्मसापेक्षत्वाद्विषमसृष्टेः । देवादीनां क्षेत्रज्ञानां देवादिशरीरयोगं तत्तत्कर्मसापेक्षं दर्शयन्ति हि श्रुतिस्मृतयः “साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा भवति पापः पापेन कर्मणा” तथा भगवता पराशरेणापि देवादिवैचित्र्यहेतुः सृज्यमानानां क्षेत्रज्ञानां प्राचीनकर्मशक्तिरेवेत्युक्तं “निमित्तमात्रमेवासौ सृज्यानां सर्गकर्माणि । प्रधानकारणीभूता यतो वै सृज्यशक्तयः । निमित्तमात्रं मुक्तवैव नान्यत्किञ्चिदपेक्षते । नीयते तपतां श्रेष्ठ स्वशक्तया वस्तु वस्तुताम्” इति । स्वशक्तयास्वकर्मणैव देवादिवस्तुताप्राप्तिरिति ।
प्राक्सृष्टेः क्षेत्रज्ञा नाम न सन्ति कुतः ? अविभागश्रवणात्, “सदेव सोम्येदमग्र आसीत्” इति; अतः तदानीं तदभावात्तत्कर्म न विद्यते, कथं तदपेक्षं सृष्टिवैषम्यमित्युच्यत इति चेन्न अनादित्वात् क्षेत्रज्ञानां
तत्कर्मप्रवाहाणां च । तदनादित्वेऽप्यविभाग उपपद्यते च; यतस्तत् क्षेत्रज्ञवस्तुपरित्यक्तनामरूपं ब्रह्मशरीरत्तयापि पृथग्व्यपदेशानर्हमतिसूक्ष्मम् । तथा अनभ्युपगमे अकृताभ्यागमकृतविप्रणाशप्रसङ्गश्च । उपलभ्यते च तेषामनादित्वं “न जायते म्रियते वा विपश्चित्” इति । सृष्टिप्रवाहानादित्वं च “सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्” इत्यादौ । “तद्धेदं तार्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत” इति नामरूपव्याकरणमात्रश्रवणात् क्षेत्रज्ञानं स्वरूपानादित्वं सिद्धम् । स्मृतावपि “प्रकृतिं पुरुषं चैव विद्धयनादी उभावपि” इति । अतस्सर्वविलक्षणत्वात्सर्वशक्तित्वाल्लीलैकप्रयोजनत्वात् क्षेत्रज्ञकर्मानुगुण्येन विचित्रसृष्टियागाद्ब्रह्मैव जगत्कारणम् ।
प्रधानपरमाण्वादीनां कारणत्वे यद्धर्मवैकल्यमुक्तं वक्ष्यमाणं च, तस्य सर्वस्य धर्मजातस्य कारणत्वोपपादिनो ब्रह्मण्यमुपपत्तेश्च ब्रह्मैव जगत्कारणमिति स्थितम् ॥
इति श्रीमद्भगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये द्वितीयस्याध्यायस्य प्रथमः पादः ॥