“सदेव सोम्येदमग्र आसीत्” “इदं वा अग्रे नैव किञ्चनासीत्” “आत्मा वा इदमेक एवाग्र आसीत्” इत्यादिषु कारणावस्थायां ब्रह्मैकमेव निरवयवमासीदिति कारणावस्थायां निरस्तचिदचिद्विभागतया निरवयवं ब्रह्मैवासीत्दियुक्तम्; तदविभागमेकं निरवयवमेव ब्रह्म बहु स्यामिति सङ्कल्प्य आकाशवाय्वादिविभागं ब्रह्मादिस्तम्बपर्यन्तं क्षेत्रज्ञविभागं चाभवदिति चोक्तम्; एवं सति तदेव परं ब्रह्म कृत्स्नं कार्यत्वेनोपयुक्तमित्यभ्युपगन्तव्यम् । अथ चिदंशः क्षेत्रज्ञविभागविभक्तः, अचिदंशश्चाकाशादिविभागविभक्त इत्युच्यते, तदा “सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम्” “ब्रह्मैकमेव आत्मैक एव” इत्येवमादयः कारणभूतस्य ब्रह्मणो निरवयवत्ववादिनः शब्दाः कुप्येयुः-बाधिता भवेयुः । यद्यपि सूक्षमचिदचिद्वस्तुशरीरं ब्रह्म कारणम्, स्थूलचिदचिद्वस्तुशरीरं ब्रह्मकायर्मित्यभ्युपगम्यते; तथापि शरीर्यंशस्यापि कार्यत्वाभ्युपगमादुक्तदोषो दुर्वारः, तस्य निरवयवस्य बहुभवनं च नोपपद्यते । कार्यत्वानुपयुक्तांशस्थितिश्च नोपपद्यते । तस्मादसमञ्जसमिवाभाति । अतो ब्रह्मकारणत्वं नोपपद्यते ॥ इत्याक्षिप्ते समाधत्ते -
तुशब्द उक्तदोषं व्यावर्तयति । नैवमसामञ्जस्यम्; कुतः ? श्रुतेः- श्रुतिस्तावन्निरवयवत्वं ब्रह्मणस्ततो विचित्रसर्गं चाह, श्रौतेऽर्थे यथाश्रुति प्रतिपत्तव्यमित्यर्थः । ननु च श्रुतिरपि अग्निना सिञ्चेदितिवत्परस्परान्वयायोग्यमर्थं प्रतिपादयितुं समर्था; अत आह- शब्दमूलत्वादिति । शब्दैकप्रमाणकत्वेन सकलेतरवस्तुविसजातीयत्वादस्यार्थस्य विचित्रशक्तियोगो न विरुध्यत इति न सामान्यतो दृष्टं साधनं दूषणं वा अर्हति ब्रह्मा ।
किञ्च, एवम्- वस्त्वन्तरसम्बन्धिनो धर्मस्य वस्त्वन्तरे चारोपणे सति, अचेतने घटादौ धर्मास्तद्विसजातीये चेतने नित्ये आत्मन्यपि प्रसज्यन्ते । तदप्रसक्तिश्च भावस्वभाववैचित्र्यादित्याह- विचित्राश्च हीति । यथा अग्निजलादीनामन्योन्यविसातीयानामोष्ण्यादिशक्तयश्च विसजातीया दृश्यन्ते; तद्वल्लोकदृष्टविसजातीये परे ब्रह्मणि तत्रतत्रादृष्टः सहस्रशः शक्तयस्सन्तीति न किञ्चिदनुपपन्नम् । यथोक्तं भगवता पराशरेण “निर्गुणस्याप्रमेयस्य शुद्धस्याप्यमलात्मनः । कथं सर्गादिकर्तृत्वं ब्रह्मणोऽभ्युपगम्यते” । इति सामान्यदृष्टया परिचोद्य “शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः । यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः । भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता” इति । श्रुतिश्च “किं स्विद्वनं क उ स वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा पृच्छतेदुतद्यदध्यतिष्ठद्भुवनानि धारयन् । ब्रह्म वनं ब्रह्म स वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा विब्रवीमि वो ब्रह्माध्यतिष्ठद्भुवनानि धारयन्” इति । सामान्यतो दृष्टं
चोद्यं सर्ववस्तुविलक्षणे परे ब्रह्मणि नावतरतीत्यर्थः ॥ इतश्च -
स्वपक्षेप्रधानादिकारणवादे लौकिकवस्तुविसजातीयत्वाभावेन प्रधानादेर्लोकदृष्टा दोषास्तत्र भवे
युरिति सकलेतरविलक्षणं ब्रह्मैव कारणमभ्युपगन्तव्यम् । प्रधानं च निरवयवम्; तस्य निरवयवस्य कथमिव महदादिविचित्रजगदारम्भ उपपद्यते । सत्त्वं रजस्तम इति तस्यावयवा विद्यन्त इति चेत् तत्रेदं विवेचनीयम् किं सत्त्वरजस्तमसां समूहः प्रधानम्; उत सत्त्वरजस्तमोभिरारब्धं प्रधानम् ? अनन्तरे कल्पे प्रधानं कारणमिति स्वाभ्युपगमविरोधः, स्वाभ्युपेतसङ्खयाविरोधश्च । समूहपक्षे च तेषां निरवयवत्वेन प्रदेशभेदमनपेक्ष्य संयुज्यमानानां न स्थूलद्रव्यारम्भकत्वसिद्धिः । परमाणुकारणवादेऽपि तथैव अणवो हि निरंशाः निष्प्रदेशाः प्रदेशभेदमनपेक्ष्य परस्परं संयुज्यमाना अपि न स्थूलकार्यारम्भाय प्रभवेयुः ।
सकलेतरवस्तुविसतीया परा देवता सर्वक्तयुपेता च । तथैव परां देवतां दर्शयन्ति हि श्रुतयः “पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च” तथा “अपहतपाप्मा विजरो विमृत्युर्विशोकोविजिघत्सोऽपिपासः” इति सकलेतरविसजातीयतां परस्या देवतायाः प्रतिपाद्य “सत्यकामः सत्यसङ्कल्पः” इति सर्वशक्तियोगं प्रतिपादयन्ति । तथा “मनोमयः प्राणशरीरो भारूपः सत्यकामः सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तो अवाक्यनादरः” इति च ।
यद्यप्येकमेव ब्रह्म सकलेतरविलक्षणं सर्वशक्ति; तथापि “न तस्य कार्यं करणं च विद्यते” इति करणविरहिणस्तस्य न कार्यारम्भः सम्भवतीति चेत्; तत्रोत्तरम्- “शब्दमूलत्वात्” “विचित्राश्च हि” इत्युक्तम् ।
शब्दैकप्रमाणकं सकलेतरविलक्षणं तत्तत्करणविरहेणापि तत्तत्कार्यसमर्थमित्यर्थः । तथा च श्रुतिः “पश्यत्यचक्षुः स शृणोत्यकर्णः । अपाणिपादो जवनो ग्रहीता” इत्येवमाद्या ।