08 उपसंहारदर्शनाधिकरणम्

परस्य ब्रह्मणः सर्वज्ञस्य सत्यसङ्कल्पस्य स्थूलसूक्ष्मावस्थसर्वचेतनाचेतनवस्तुशरीरतया

सर्वप्रकारत्वेन सर्वात्मत्वं सकलेतरविलक्षणत्वं चाविरुद्धमिति स्थापितम्; इदानीं सत्यसङ्कल्पस्य परस्य ब्रह्मणः सङ्कल्पमात्रेण विचित्रजगत्सृष्टियोगो न विरुद्ध इति स्थाप्यते । ननु च परमिरशक्तीनां कारककलापोपसंहारसापेक्षत्वदर्शनेन सर्वशक्तेर्ब्रह्मणः कारककलापानुपसंहारेण जगत्कारणत्वविरोधः कथमाशङ्कयते ? उच्यते; लोके तत्तत्कार्यजननशक्तियुक्तस्यापि तत्तदुपकरणापेक्षित्वदर्शनात्सर्वशक्तियुक्तस्य परस्य ब्रह्मणोऽपि तत्तदुपकरणविरहिणः स्रष्टृत्वं नोपपद्यत इति कस्यचिन्मन्दधियः शङ्का जायत इति सा निराक्रियते । घटपटादिकारणभूतानां कुलालकुविन्दादीनां तज्जननसामर्थ्ये सत्यपि कानिचिदुपकरणान्युपसंहत्यैव जनयितृत्वं दृश्यते । तज्जननाशक्ताः कारककलापोपसंहारेऽपि जनयितुं न शक्नुवन्ति; शक्ताः पुनः कारककलापोपसंहारे जनयन्तीत्येतानेव विशेषः । ब्रह्मणोऽपि सर्वशक्तेः सर्वस्य जनयितृत्वं तदुपकरणानामनुपसंहारे नोपपद्यते, प्राक्सृष्टेश्चासहायत्वं “सदेव सोम्येदमग्र आसीत्” “एको ह वै नारायण आसीत्” इत्यादिषु पतीयते; अतः स्रष्टृत्वं नोपपद्यत इत्येवं प्राप्तम् । तदिदमाशङ्कते- उपसंहारदर्शनान्नेति चेदिति ।

परिहरति - न क्षीरवद्धीति । न सर्वेषां कार्यजननशक्तानामुपसंहारसापेक्षत्वमस्ति; यथा क्षीरजलादेर्दधिहिमजननशक्तस्य तज्जनने; एवं ब्रह्मणोऽपि स्वयमेव सर्वजननशक्तेः सर्वस्य जनयितृत्वमुपपद्यते । हीति प्रसिद्धवन्निर्द्देशश्चोद्यस्य मन्दताख्यापनाय । क्षीरादिष्वातञ्चनाद्यपेक्षा न दध्यादिभावाय; अपि तु शैध्य्रार्थं रसविशेषार्थं च ॥

यथा देवादयः स्वे स्वे लोके सङ्कल्पमात्रेण स्वापेक्षितानि सृजन्ति तथाऽसौ पुरुषोत्तमः कृत्स्नं जगत् सङ्कल्पमात्रेण सृजति । देवादीनां वेदावगतशक्तीनां दृष्टान्ततयोपादानम्, ब्रह्मणो वेदावकतशक्तेः सुखग्रहणायेति प्रतिपत्तव्यम् ॥ इति उपसंहारदर्शनाधिकरणम् ॥