“असदिति चेन्न प्रतिषेधमात्रत्वात्” इत्यादिषु कारणभूताद्ब्रह्मणः कार्यभूतस्य जगतोऽनन्यत्वमभ्युपगम्य ब्रह्मणो जगत्कारणत्वमुपपादितम्, इदानीं तदेवानन्यत्वमाक्षिप्य समाधीयते । तत्र
काणादाः प्राहुः- न कारणात्कार्यस्यानन्यत्वं सम्भवति, विलक्षणबुद्धिबोध्यत्वात्, न खलु तन्तुपटमृत्पिण्डघटादिषु कायर्कारणविषया बुद्धिरेकरूपा । शब्दभेदाच्च, न हि तन्तवः पट इत्युच्यन्ते, पटो वा तन्तव इति ।
कार्यभेदाच्च, न हि मृत्पिण्डेनोदकमाह्रियते घटेन वा कुड्यं निर्मीयते । कालभेदाच्च, पूर्वकालञ्च कारणम्,
अपरकालं च कार्यम् । आकारभेदाच्च, पिण्डाकारं कारणम्, कार्यं च पृथुबुध्नोदराकारम्, तथा सत्यामेव मृदि घटो नष्ट इति व्यवह्रियते । सङ्खयाभेदश्च दृश्यते बहवस्तन्तवः एकश्च पटः । कारकव्यापारवैयर्थ्यञ्च, कारणमेव चेत्कार्यं किं कारकव्यापारसाध्यं स्यात् ? सत्यपि कार्ये कार्योपयोगितया कारकव्यापारेण भवितव्यं चेत्, सर्वदा कारकव्यापारेण नोपरन्तव्यम् । सर्वस्य सर्वदा सत्त्वेन नित्यानित्यविभागश्च न स्यात् । अथ कार्यं सदेव पूर्वमनभिव्यक्तं कारकव्यापारेणाभिव्यज्यते, अतः कारकव्यापारार्थवत्त्वं नित्यानित्यविभागश्चोच्यते, तदसत्; अभिव्यक्तेरभिव्यक्तयन्तरापेक्षत्वेऽनवस्थानात्, अनपेक्षत्वे कार्यस्य नित्योपलब्धिप्रसङ्गात्, तदुत्पत्त्यभ्युपगमे चासत्कार्यवादप्रसङ्गात् । किञ्च कारकव्यापारस्याभिव्यञ्जकत्वे घटार्थेन कारकव्यापारेण करकादेरप्यभिव्यक्तिः प्रसज्यते, सम्प्रतिपन्नाभिव्यञ्जकभावेषु दीपादिष्वभिव्यङ्गयविशेषनियमादर्शनात्; न हि घटार्थमारोपितः प्रदीपः करकादीन्नाभिव्यनक्ति, अतोऽसतः कार्यस्योत्पत्तिहेतुत्वेनैव कारकव्यापारार्थवत्त्वम्, अतश्च सत्कार्यवादासिद्धिः । न च नियतकारणोपादानं सत एव कार्यत्वं साधयति, कारणशक्तिनियमादेव तदुपपत्तेः । नन्वसत् कार्यवादिनोऽपि कारकव्यापारो नोपपद्यते, प्रागुत्पत्तेः कार्यस्यासत्त्वात्, कार्यादन्यत्र कारकव्यापारेण भवितव्यम्; तत्रान्यत्वाविशेषात्तन्तुगतकारकव्यापारेण घटोत्पत्तिरपि प्रसज्यते, नैवम्; यत्कार्योत्पादनशक्तं यत्कारणम् तद्गतकारकव्यापारेण तत्कार्योत्पत्तिसिद्धेः । अत्राहुः- कारणादनन्यत्कार्यम्, न हि परमार्थतः कारणव्यतिरिक्तं कार्यं नाम वस्त्वस्ति; अविद्यानिबन्धनत्वात्सकलकार्यतद्य्ववहारयोः, अतो यथा कारणभूतात् मृद्द्रव्याद्घटादिषु विकारेषुपलभ्यमानाद्य्वतिरिक्तं घटशरावादिकार्यं व्यवहारमात्रालम्बनं मिथ्या, कारणभूतं मृद्द्रव्य
मेव सत्यम् तथा निर्विशेषसन्मात्रात् कारणभूताद्ब्रह्मणोऽन्योऽहङ्कारादिव्यवहारालम्बनः कृत्स्नः प्रपञ्चो मिथ्या, कारणभूतं सन्मात्रं ब्रह्मैव सत्यम्; तस्मात्कारणव्यतिरिक्तं कार्यं नास्तीति कारणादनन्यत्कार्यम् । न च वाच्यं
शुक्तिकारजतादीनामिव घटादिकार्याणामसत्यत्वाप्रसिद्धेर्दृष्टान्तानुपपत्तिरिति; यतस्तत्रापि युक्तया मृद्द्रव्यमात्रमेव सत्यतया व्यवस्थाप्यते, तदतिरिक्तं तु युक्तया बाध्यते, का पुनरत्र युक्तिः, मृद्द्रव्यमात्रस्यानुवर्त्तमानत्वं तदतिरिक्तस्य च व्यावर्तमानत्वम् । रज्जुसर्पादिषु ह्यनुवर्त्तमानस्याधिष्ठानभूतस्य रज्ज्वादेस्सत्यता व्यावर्त्तमानस्य च सर्पभूदलनाम्बुधारादेरसत्यता दृष्टा तथाऽनुवर्त्तमानमधिष्ठानभूतं मृद्द्रव्यमेव सत्यम् व्यावर्त्तमानास्तु घटशरावादयोऽसत्यभूताः । किञ्च सत आत्मनो विनाशाभावादसतश्च शशविषाणादेरुपलब्द्धयभावादुपलब्धिविनाशयोगि कार्यं सदसद्भयेमनिर्वचनीयमिति गम्यते । अनिर्वचनीयं च शुक्तिकारजतादिवन्मृषैव । तस्य चानिर्वचनीयत्वं प्रतीतिबाधाभ्यां सिद्धम् । किञ्च कार्यमुत्पादयन्मृदादिकारणद्रव्यं किमविकृतमेव कार्यमुत्पादयति ? उत किञ्चनविशेषमापन्नम् ? न तावदविकृतमुत्पादयति सर्वदोत्पादकत्वप्रसङ्गात् । नापि विशेषान्तरमापन्नम्, विशेषान्तरापत्तेरपि विशेन्तरापत्तिपूर्वकत्वेन भवितव्यम् तस्या अपि तथेत्यनवस्थानात् । अविकृतमेव देश
कालनिमित्तविशेषसम्बन्धं कार्यमुत्पादयतीति चेन्न; देशादिविशेषसम्बन्धोऽपि ह्यविकृतस्य विशेषान्तरमापन्नस्य च पूवर्वन्न सम्भवति । न च वाच्यम् मृत्सुवर्णदुग्धादिभ्यो घटरुचकदध्यादीनामुत्पत्तिर्दृश्यते; शुक्तिकारजतादिवत् देशकालादिप्रतिपन्नोपाधौ बाधश्च न दृश्यते, अतः प्रतीतिशरणानां कारणात्कार्योत्पत्तिरवश्याश्रयणीयेति; विकल्पासहत्वात्- किं हेमादिमात्रमेव स्वस्तिकादेरारम्भकम्, उत रुचकादि, अथ रुचकाद्याश्रयो हेमादिः ? न तावद्धेमादिमात्रमारम्भकम्; हेमव्यतिरिक्तस्य कार्यस्याभावात्, स्वात्मानं प्रत्यात्मन आरम्भकत्वासम्भवाच्च । हेमव्यतिरिक्तं स्वस्तिकं दृश्यत इति चेत्- न, हेमव्यतिरिक्तं तत्, हेमप्रत्यभिज्ञानात्तदतिरिक्तवस्त्वन्तरानुपलब्धेश्च । बुद्धिशब्दान्तरादिभिर्वस्त्वन्तरत्वं साधितमिति चेन्न, अनिरूपितवस्त्ववलम्बनानां बुद्धिशब्दान्तरादीनां शुक्तिकारजतशब्दबुद्धयादिवत् भ्रान्तिमूलत्वेन वस्त्वन्तरसद्भावस्यासाधकत्वात् । नापि रुचकादि स्वस्तिकादेरारम्भकम्, स्वस्तिके हि रुचकं पट इव तन्तवो भवतापि नोपलभ्यते । नापि रुचकाश्रयभूतं हेम, रुचकाश्रयाकारेण हेम्नः स्वस्तिकेऽनुपलब्धेः, अतो मृदादिकारणातिरिक्तस्य कार्यस्यासत्यत्वदर्शनाद्ब्रह्मव्यतिरिक्तं कृत्स्नं जगत्कार्यत्वेन मिथ्याभूतम्, तदिदं ब्रह्मव्यतिरिक्तमिथ्यात्वसुखप्रतिपत्तये काल्पनिकमृदादिसत्यत्वमाश्रित्य कार्यस्यासत्यत्वं प्रतिपादितम् । परमार्थतस्तु मृत्सुवर्णादिकारणमपि घटरुचकादिकार्यवन्मिथ्याभूतम्, ब्रह्मकार्यत्वाविशेषात् । “ऐतदात्म्यमिदं सर्वं तत्सत्यम्” “नेह नानास्ति किञ्चन” “मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति” “यत्र हि द्वैतमिव भवति तदितरं इतरं पश्यति” “यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्” “इन्द्रो मायाभिः पुरुरूप ईयते” इत्येवमेवादिभिः श्रुतिभिश्च ब्रह्मव्य
तिरिक्तस्य मिथ्यात्वमवगम्यते । न चागमावगतार्थस्य प्रत्यक्षविरोधः शङ्कनीयः । यथोक्तप्रकारेण कार्यस्य सर्वस्य मिथ्यात्वावगमात् प्रत्यक्षस्य सन्मात्रविषयत्वाच्च, विरोधे सत्यप्यसम्भावितदोषस्य चरमभाविनः स्वरूपसद्भावादौ प्रत्यक्षाद्यपेक्षत्वेऽपि प्रमितौ निराकाङ्क्षस्य निरवकाशस्य शास्त्रस्य बलीयस्त्वात्; अतः कारणभूताद्ब्रह्मणोऽन्यत्सर्वं मिथ्या । न च प्रपञ्चमिथ्यात्वेन जीवमिथ्यात्वमाशङ्कनीयम्, ब्रह्मण एव जीवभावात् । ब्रह्मैव हि सर्वशरीरेषु जीवमावमनुभवति, “अनेन जीवेनात्मनाऽनुप्रविश्य” “एको देवः सर्वभूतेषु गूढः” “एको देवो बहुधा निविष्टः” “एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते” “नान्योऽतोस्तिं द्रष्टा” इत्येवमादिभ्यः । नन्वेकमेव ब्रह्म सर्वशरीरेषु जीवभावमनुभवतीति चेत् “पादे मे वेदना शिरसि मे सुखम्” इतिवत्सर्वशरीरेषु सुखदुःखप्रतिसन्धानं स्यात्, जीवेश्वरबद्धमुक्तशिष्याचार्यज्ञत्वाज्ञत्वादिव्यवस्था च न स्यात् । अत्र केचिदद्वितीयत्वं ब्रह्मणोऽभ्युपयन्त एवैवं समादधते- एकस्यैव ब्रह्मणः प्रतिबिम्बभूतानां जीवानां सुखित्वदुःखित्वादय एकस्यैव मुखस्य प्रतिबिम्बानां मणिकृपाणदर्पर्णादिषूपलभ्यमानानामल्पत्वमहत्त्वमलिनत्वविमलत्वादिवत्तत्तदुपाधिवशाद्व्यवस्थाप्यन्ते । ननु “अनेन जीवेनात्मनाऽनुप्रविश्य” इत्यादिश्रुतेर्न जीवा ब्रह्मणो भिद्यन्त इत्युक्तम् सत्यं परमार्थतः, काल्पनिकं तु भेदमाश्रित्येयं व्यवस्थोच्यते । कस्य पुनः कल्पना ? न तावद्ब्रह्मणः, तस्य परिशुद्धज्ञानात्मनः कल्पनाशून्यत्वात् । नापि जीवानाम्, इतरेतराश्रयत्वप्रसङ्गात्, कल्पनाधीनो हि जीव भावः, जीवाश्रया च कल्पनेति । नैतदेवम्, अविद्याजीवभावयोर्बीजाङ्कुरन्यायेनानादित्वात् । किञ्च प्रासादनिगरणादिवदुपपन्न
तैकवेषायां अवस्तुभूतायामविद्यायां नेतरेतराश्रयत्वादयो वस्तुदोषा अनवकॢप्तिमावहन्ति । वस्तुतो ब्रह्माव्यतिरिक्तानां जीवानां स्वतो विशुद्धत्वेऽपि कृपाणादिगतमुखप्रतिबिम्बश्यामतादिवत् औपाधिकाशुद्धिसम्भवादविद्याश्रयत्वोपपत्तेः काल्पनिकत्वोपपत्तिः । प्रतिबिम्बगतश्यामतादिवज्जीवगताशुद्धिरपि भ्रान्तिरेव, अन्यथाऽनिर्म्मोक्षत्वप्रसङ्गात् । जीवानां भ्रमस्य प्रवाहानादित्वान्न तद्धेतुरन्वेषणीय इति । तदेतदविदिताद्वैतया थात्म्यानां भेदवादश्रद्धालुजनसबहुमानावलोकनलिप्साविजृम्भितम् । तथा हि; जीवस्याकल्पितस्वाभाविकरूपेणाविद्याश्रयत्वे ब्रह्मण एवाविद्याश्रयत्वमुक्तं स्यात् । तदतिरिक्तेन तस्मिन् कल्पितेनाकारेणाविद्याश्रयत्वे जडस्याविद्याश्रयत्वमुक्तं स्यात् । न खल्वद्वैतवादिनस्तदुभयव्यतिरिक्तमाकारमभ्युपगच्छन्ति । कल्पिताकारविशिष्टेन स्वरूपेणैवाविद्याश्रयत्वमिति चेत्, तन्न । स्वरूपस्य अखण्डैकरसस्याविद्यामन्तरेण विशिष्टरूपत्वसिद्धेः, अविद्याश्रयाकार एव हि निरूप्यते । किञ्च बन्धमोक्षादिव्यवस्थासिद्धयर्थं हि जीवाज्ञानवादाश्रयणम्,
सा तु व्यवस्था जीवाज्ञानपक्षेऽपि न सिध्यति । अविद्याविनाश एव हि मोक्षः, तत्रैकस्मिन् मुक्ते अविद्याविनाशादितरेऽपि विमुच्येरन् । अन्यस्यामुक्तत्वादविद्या तिष्ठतीति चेत् तर्ह्येकस्याप्यमुक्तिः स्यात्, अविद्याया अविनष्टत्वात् । प्रतिजीवमविद्याभेदः कल्प्यते, तत्र यस्याविद्या विनष्टा स मोक्ष्यते, यस्य त्वविनष्टा स वत्स्यत इति चेत्- तन्न; प्रतिजीवमिति जीवभेदमाश्रित्य ब्रूषे, स जीवभेदः किं स्वाभाविकः उताविद्याकल्पितः ? न तावत् स्वाभाविकः, अनभ्युपगमात् भेदसिद्धयर्थस्य चाविद्याकल्पनस्य व्यर्थत्वात् । अथाविद्याकल्पितः तत्रेयं जीवभेदकल्पिकाऽविद्या किं ब्रह्मणः, उत जीवानाम् ? ब्रह्मण इति चेत् आगतोऽसि मदीयं मार्गम् । अथ जीवानां किमस्या जीवभेदकॢप्तिसिद्धयर्थतां विस्मरसि । अथ प्रतिजीवं बद्धमुक्तव्यवस्थासिद्धयर्थं याः अविद्याः कल्प्यन्ते ताभिरेव जीवभेदोऽपीति मनुषे, जीवभेदसिद्धौ तास्सिद्धयन्ति तासु सिद्धासु जीवभेदसिद्धिरितीतरेतराश्रयत्वम् । न चात्र बीजाङ्कुरन्यायः सिद्धयति, बीजाङ्कुरेषु ह्यन्यदन्यद्बीजमन्यस्यान्यस्याङ्कुरस्योत्पादकम्, इह तु याभिरविद्याभिर्ये जीवाः कल्प्यन्ते तानेवाश्रित्य तासां सिद्धिरित्यशकनीयता । अथ बीजाङ्कुरन्यायेन पूर्वपूर्वजीवाश्रयाभिरविद्याभिरुत्तरोत्तरजीवकल्पनां मन्यसे, तथा सति जीवानां भङ्गुरत्वमकृताभ्यागमकृतविप्रणाशादिप्रसङ्गश्च; अत एव ब्रह्मणः पूर्वपूर्वजीवाश्रयाभिरविद्याभिरुत्तरोत्तरजीवभावकल्पनमित्यपि निरस्तम् । अविद्याप्रवाहेऽभ्युपगम्यमाने तत्तत्कल्पितजीवभावस्यापि तद्वत्प्रवाहानादिता स्यात् । न ध्रुवरूपता, आमो
क्षाच्च जीवस्य ध्रुवत्वमिष्टं न सिद्धयेत् । यच्चोक्तं अविद्याया अवस्तुरूपत्वेनानुपपन्नतैकवेषाया
नेतरेतराश्रयत्वादयो वस्तुदोषा अनवकॢप्तिमावहन्तीति, तथा सति मुक्तान् परं च ब्रह्माश्रयेदविद्या; शुद्धविद्यास्वरूपत्वादशुद्धिरूपा न तत्र प्रसजतीति चेत् किमुपपत्त्यनुवर्त्तिन्यविद्या ? एवं तर्ह्युक्ताभिरुपपत्तिभिर्ज्जीवानपि नाश्रयेत् । किञ्च जीवाश्रयाया अविद्यायास्तत्त्वज्ञानोदयान्नाशे सति जीवो नश्येद्वा, न वा ? यदि नश्येत्स्वरूपोच्छित्तिलक्षणो मोक्षः स्यात्; नो चेदविद्यानाशेप्यनिर्मोक्षः, ब्रह्मस्वरूपव्यतिरिक्तजीवत्वावस्थानात् ।
यच्चोक्तं मणिकृपाणदर्पणादिषूपलभ्यमानमुखमलिनत्वविमलत्वादिवच्छुद्धयशुद्धयादिव्यवस्थोपपत्तिरिति । तत्रेदं विमर्शनीयम्; अल्पत्वमलिनत्वादय औपाधिका दोषाः कदा नश्येयुरिति । कृपाणाद्युपाध्यपगम इति चेत् किं तदाल्पत्वाद्याश्रयः प्रतिबिम्बं तिष्ठति वा, न वा ? तिष्ठतीति चेत् तत्स्थानीयस्य जीवस्यापि स्थितत्वादनिर्मोक्षप्रसङ्गः । नश्यति चेत् तद्वदेव जीवनाशात्स्वरूपोच्छित्तिलक्षणो मोक्षः स्यात् । किञ्च यस्य ह्यपुरुषार्थरूपदोषप्रतिभासः तस्य तदुच्छेदः पुरुषार्थः । तत्र किमौपाधिकदोषप्रतिभासो बिम्बस्थानीयस्य ब्रह्मणः,उत प्रतिबिम्बस्थानीयस्य जीवस्य, उतान्यस्य कस्यचित् ? आद्ययोः कल्पयोर्दृष्टान्तोऽयं न सङ्गच्छते, मुखस्य मुखप्रतिबिम्बस्य चाल्पत्वादिदोषप्रतिभासशून्यत्वात्, न हि मुखं तत्प्रतिबिम्बं वा चेतयते, ब्रह्मणो दोषप्रतिभासे ब्रह्माविद्याप्रसङ्गश्च । तृतीयोऽपि कल्पो न कल्पते जीवब्रह्मव्यतिरिक्तस्य द्रष्टुरभावात् । किञ्च अविद्याकल्प्यस्य जीवस्य कल्पकः क इति निरूपणीयम् । न तावदविद्या, अचेतनत्वात् । नापि जीवः, आत्माश्रयदोषप्रसङ्गात्, शुक्तिकारजतादिवदविद्याकल्प्यत्वाच्च जीवभावस्य, ब्रह्मैव कल्पकमिति चेत् ब्रह्माज्ञानमेवायतम् । किञ्च ब्रह्माज्ञानानभ्युपगमे किं ब्रह्म जीवान् पश्यति वा न वा ? न पश्यति चेत् ईक्षापूर्विका विचित्रसृष्टिर्नामरूपव्याकरणमित्यादि ब्रह्मणो न स्यात् । अथ पश्यति, अखण्डैकरसं ब्रह्म नाविद्यामन्तरेण जीवान् पश्यतीति ब्रह्माज्ञानप्रसङ्गः, अत एव मायाऽविद्याविभागवादोपि निरस्तः, अज्ञानमन्तरेण हि मायिनोऽपि ब्रह्मणो
जीवदर्शित्वं न स्यात् । न च मायावी परानदृष्ट्वा मोहयितुमलम् । नापि माया मायाविनो दर्शनसाधनम्, दृष्टेषु परेषु तन्मोहनसाधनमात्रत्वात्तस्याः । अथ ब्रह्मणो माया तस्य जीवदर्शित्वं कुर्वती जीवमोहनस्य हेतुरिति मन्यसे
तर्हि परिशुद्धस्याखण्डैकरसस्वप्रकाशस्य ब्रह्मणःपरदर्शनं कुवर्ती माया, मायाऽपरपर्याया अविद्यैव स्यात् । अथ मतम् विपरीतदर्शनहेतुरविद्या, माया तु मिथ्याभूतं ब्रह्मव्यतिरिक्तं मिथ्यात्वेनैव दर्शयन्ती न ब्रह्मणो विपरीतदर्शनहेतुः, अतस्तस्या नाविद्यात्वमिति । नैवम्, चन्द्रैकत्वे ज्ञायमाने द्विचन्द्रदर्शनहेतोरप्यविद्यात्वात् । यदि च ब्रह्म मिथ्यात्वेनैव स्वव्यतिरिक्तं जानाति, न तर्हि तन्मोहयति । न ह्यनुन्मत्तो मिथ्यात्वेन ज्ञातान् मोहयितुमीहते । अथापुरुर्षाथाऽपरमार्थदर्शनहेतुरविद्या, माया तु ब्रह्मणो नापुरुषार्थदर्शनहेतुः, अतोऽस्या नाविद्यात्वामिति मतम् । तन्न; द्विचन्द्रज्ञानस्य दुःखहेतुत्वाभावेनापुरुषार्थत्वाभावेऽपि तद्धेतुरविद्यैव, तन्निरसने च प्रयस्यन्ति; यदि च नापुरुषार्थदर्शनकरीमाया, तर्ह्यनुच्छेद्यतया नित्या ब्रह्मस्वरूपानुबन्धिनी स्यात् । अस्तु को दोष इति चेत्, द्वैतदर्शनमेव दोषः । “यत्र हि द्वैतमिव भवति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्” इत्याद्यद्वैतश्रुतयः प्रकुप्येयुः । परमार्थविषया अद्वैतश्रुतयः, मायायास्त्वपरमार्थत्वादविरोध इति चेत्, अपरिच्छिन्नानन्दैकस्वरूपस्य ब्रह्मणः अपरमार्थभूतमायादर्शनं तद्वत्ता च अविद्यामन्तरेण नोपपद्यते । किञ्च अपरमार्थभूतया नित्यया मायया किं प्रयोजनं ब्रह्मणः ? जीवमोहनमिति चेत्; अपुरुषार्थेन मोहनेन किं प्रयोजनम् ? क्रीडेति चेत्, अपरिच्छिन्नानन्दस्य किं क्रीडया ? परिपूर्णभोगानामेव क्रीडा पुरुषार्थत्वेन लोके
दृष्टेति चेत्; नैवमिहोपपद्यते । न ह्यपरमार्थभूतैः क्रीडोपकरणैरपरमार्थतया प्रतिभासमानैर्निष्पन्नयाऽपरमार्थभूतया क्रीडया अपरमार्थभूतेन च तत्प्रतिभासेनानुन्मत्तानां क्रीडारसो निष्पद्यते । मायाश्रयतयाभिमतब्रह्मव्यतिरेकेणाविद्याश्रयस्य जीवस्य कल्पनाऽसम्भवश्च पूर्ववदेव द्रष्टव्यः, अतो ब्रह्मैवानाद्यविद्याशबलं स्वगतनानात्वं पश्यतीत्यद्वितीयत्वं ब्रह्मणोऽभ्युपयद्भिरभ्युपेतव्यम् ।
यत्तु बन्धमोक्षव्यवस्था नोपपद्यत इति, न तद्ब्रह्माज्ञानवादिनश्चोद्यम्, एकस्यैव ब्रह्मणोऽज्ञस्य स्वाज्ञाननिवृत्त्या मोक्ष्यमाणत्वात् बद्धमुक्तादिव्यवस्थाया एवाभावात् व्यवह्रियमाणायाश्च बद्धमुक्तशिष्याचार्यादिव्यवस्थायाः काल्पनिकत्वात्स्वप्नदर्शिन इव चैकस्यैवाविद्यया सर्वकल्पनोपपत्तेः, स्वप्नदृशा ह्येकेन दृष्टाः शिष्याचार्यादयः तदविद्याकल्पिता एव; अत एव बह्वविद्याकल्पनमपि न युक्तिमत् । पारमार्थिकी बन्धमोक्ष व्यवस्था स्वपरव्यवस्था च जीवाज्ञानवादिनापि नाभ्युपेयते । अपारमार्थिकी त्वेकस्यैवाविद्ययोपपद्यते, प्रयोगश्चबन्धमोक्षव्यवस्थाः स्वपरव्यवस्थाश्च स्वाविद्याकल्पिताः, अपारमार्थिकत्वात्, स्वप्नदृष्टव्यवस्थावदिति । शरीरान्तराण्यपि मयैवात्मवन्ति, शरीरत्वात्, एतच्छरीरवत् । शरीरान्तराण्यपि मदविद्याकल्पितानि शरीरत्वात् कार्यत्वात् जडत्वात् कल्पितत्वाद्वा, एतच्छरीरवत् । विवादाध्यासितं चेतनजातमहमेव, चेतनत्वात्, यदनहं तदचेतनं दृष्टम्, यथा घटः, अतः स्वपरविभागो बद्धमुक्तशिष्याचार्यादिव्यवस्थाश्चैकस्याविद्याकल्पिताः । द्वैतवादिनापि बद्धमुक्तव्यवस्थादुरुपपादा; अतीतानां कल्पानामानन्त्यादेकैकस्मिन् कल्पे एकैकमुक्तावपि सर्वेषां मोक्षसम्भवादमुक्तानुपपत्तेः । अनन्तत्वादात्मनाममुक्ताश्च सन्तीति चेत्, किमिदमनन्तत्वम् ? असङ्खयेयत्वमिति चेन्न; भूयस्त्वादल्पज्ञैरसङ्खयेयत्वेपीश्वरस्य सर्वज्ञस्य सङ्खयेया एव । तस्याप्यशक्यत्वे सर्वज्ञत्वं न स्यात्;
आत्मना निस्सङ्खयत्वादीश्वरस्याविद्यमानसङ्खयावेदनाभावो नासावर्ज्ञ्यमावहतीति चेत्, भिन्नत्वे सङ्खयाविधुरत्वं नोपपद्यते । आत्मनः सङ्खयावन्तः, भिन्नत्वात्; माषसर्षपघटपटादिदिवत् । भिन्नत्वे चात्मानं घटादिवज्जडत्वमनात्मत्वं क्षयित्वं च प्रसज्यते । ब्रह्मणश्चानन्तत्वं न स्यात् । अनन्तत्वं नामपरिच्छेदरहितत्वम् । भेदवादे च वस्त्वन्तराद्विलक्षणत्वेन ब्रह्मणो वस्तुतः परिच्छेदरहितत्वं न शक्यते वक्तुम्, वस्त्वन्तरभाव एव हि वस्तुतः परिच्छेदः । वस्तुतः परिच्छिन्नस्य देशतः कालतश्चापरिच्छिन्नत्वं न युज्यते, वस्त्वन्तराद्विलक्षणत्वेन वस्तुतः परिच्छिन्ना एव घटादयो देशतः कालतश्च परिच्छिन्ना हि दृष्टाः, तथा सर्वे चेतनाः ब्रह्म च वस्तुतः परिच्छिन्नाः देशकालाभ्यामपि परिच्छिद्यन्ते । एवञ्च “सत्यं ज्ञानमनन्तम्” इत्यादिभिस्सर्वप्रकारपरिच्छेदरहितत्वं
वदद्भिर्विरोधः । उत्पत्तिविनाशादयश्च जीवानां ब्रह्मणश्च प्रसज्येरन्, कालपरिच्छेद एव ह्युत्पत्तिविनाशभागित्वं, अतः एकस्यैवापरिच्छिन्नस्य ब्रह्मणोऽविद्याविजृम्भितं ब्रह्मादिस्तम्बपर्यन्तं कृत्स्नं जगत्; सुखदुःखप्रतिसन्धानव्यवस्थादयोऽपि स्वाप्नव्यवस्थावदविद्यास्वाभाव्यादुपपद्यन्ते; तस्मादेकमेव नित्यमुक्तस्वप्रकाशस्वभावमनाद्यविद्यावशाज्जगदाकारेण विवर्तत इति परमार्थतो ब्रह्मव्यतिरिक्ताभावात्तदनन्यत्वं जगत इति ।
अत्रोच्यते- निर्विशेषस्वप्रकाशमात्रं ब्रह्मानाद्यविद्यातिरोहितस्वस्वरूपं स्वगतनानात्वं पश्यतीत्येतत् प्रकाशस्वरूपस्य निरंशस्य प्रकाशनिवृत्तिरूपतिरोधाने स्वरूपनाशप्रसङ्गेन तिरोधानासम्भवादिभ्यः सकलप्रमाणविरुद्धं स्ववचनविरुद्धं चेति पूर्वमेवोक्तम् । यत्पुनरुक्तं कारणव्यतिरिक्तं कार्यं युक्तिबाधितत्वेन शुक्तिकारजतादिवद्भ्रम इति, तदयुक्तम्; युक्तेरभावात् । यत्त्वनुवर्त्तमानस्य कारणमात्रस्य सत्यत्वं व्यावर्तमानानां
घटशरावादिकार्याणामसत्यत्वमिति; तदप्यन्यत्र दृष्टस्यान्यत्र व्यावर्तमानता न बाधिकेत्यादिभिः पूर्वमेव परिहृतम् । यच्चोपलभ्यमानत्वविनाशित्वाभ्यां सदसदनिर्वचनीयत्वेन कार्यस्य मृषात्वमिति, तदसत्; उपलब्धिविनाशयोगो हि न मिथ्यात्वं साधयति, किन्त्वनित्यत्वम्, यद्देशकालसम्बन्धितया तदुपलब्धं तद्देशकालसम्बन्धितया बाधितत्वमेव हि तस्य मिथ्यात्वे हेतुः, देशान्तरकालान्तरसम्बन्धितयोपलब्धस्यान्यदेशकालसम्बन्धित्वेन बाधित्वं देशान्तरकालान्तरव्याप्तिमात्रं साधयति; न तु मिथ्यात्वम् । प्रतियोगश्च घटादिकार्यं सत्यम्, देशकालादिप्रतिपन्नोपाधावबाधितत्वात्, आत्मवत् । यच्चोक्तं कारणस्वरूपादविकृताद्विकृताच्च कार्योत्पत्तिर्न सम्भवतीति, तदसत्; देशकालादिसहकारिसमवहितात्कारणात्कार्योत्पत्तिसम्भवात् । तत्समवधानं च विकृतस्याविकृतस्य च न सम्भवतीति यदुक्तं, तदयुक्तम्; पूर्वमकृतस्यैव कालादिसमवधानसम्भवात् । अविकृतत्वाविशेषात्पूर्वमपि देशकालादिसमवधानं प्रसज्यत इति चेन्न; देशकालादिसमवधानस्य कारणान्तरायत्तस्यैतदायत्तत्वाभावात्; अतो देशकालादिसमवधानरूपविशेषमापन्नं कारणं कार्यमुत्पादयतीति न किञ्चिदवहीनम् । कारणस्य च कार्यं प्रत्यारम्भकत्वमबाधितं दृश्यमानं न केनापि प्रकारेणापह्नोतुं शक्यते । यत्तु
हेमादिमात्रस्य रुचकादिकार्यस्यैतदाश्रयस्य वा हेमादेरारम्भकत्वं न समभवतीति, तदयुक्तम्; हेमादिमात्र
स्यैव यथोक्तपरिकरयुक्तस्यारम्भकत्वसम्भवात् । न चारम्भकहेमव्यतिरिक्तं कार्यं न दृश्यत इति वक्तुं शक्यम्,
हेमातिरिक्तस्य स्वस्तिकस्य दर्शनात् बुद्धिशब्दान्तरादिभिर्वस्त्वन्तरस्य साधितत्वाच्च । न चायं शुक्तिकारजतादिवद्भ्रमः, उत्पत्तिविनाशयोरन्तराल उपलभ्यमानस्य तद्देशकालसम्बन्धितया बाधादर्शनात् । न चास्या उपलब्धेर्बाधिका काचिदपि युक्तिर्दृश्यते, प्रागनुपलब्धस्वस्तिकोपलब्धिवेलायामपि हेमप्रत्यभिज्ञा स्वस्तिकाश्रयतया हेम्नोऽप्यनुवृत्तेरविरुद्धा, श्रुतिभिस्तु प्रपञ्चमिथ्यात्वसाधनं पूर्वमेव निरस्तम् । यच्चान्यदत्र प्रत्यक्षाविरोधादि प्रतिवक्तव्यं तदपि सर्वं पूर्वमेव सूक्तम् । यच्चोक्तम्- एकेनात्मना सर्वाणि शरीराण्यात्मवन्तीति, तससत्; एकस्यैव सर्वशरीरप्रयुक्तसुखदुःखप्रतिसन्धानप्रसङ्गात् । सौभरिप्रभृतिषु ह्यात्मैकत्वेनाऽनेकशरीरप्रयुक्तसुखादिप्रतिसन्धानमेकस्य दृश्यते । न चाहमर्थस्य ज्ञातृत्वात्तद्भेदात्प्रतिसन्धानाभावो नात्मभेदादिति वक्तुं शक्यम्;
आत्मा ज्ञातैव, स चाहमर्थ एव, अन्तःकरणभूतस्त्वहङ्कारो जडत्वात्करणत्वाच्च शरीरेन्द्रियादिवन्न ज्ञातेत्यु
पपादितत्वात् । यच्च शरीरत्वजडत्वकार्यत्वकल्पितत्वैः सर्वशरीराणामेकस्य अविद्याकल्पितत्वमुक्तम्, तदपि
सर्वशरीराणामविद्याकल्पितत्वस्यैवाभावादयुक्तम् । तदभावश्चाबाधितस्य सत्यतोपपादनात् । यच्च चेतनादन्यस्य जडत्वदर्शनात्सर्वचेतनानामनन्यत्वमुक्तं तदपि सुखदुःखव्यवस्थया भेदोपपादनादेव निरस्तम् । यत्तु मयैवात्मवन्ति मदविद्याकल्पितान्यहमेव सर्वं चेतनजातमित्यहमर्थस्यैक्यमुपपादितम् तदज्ञातस्वसिद्धान्तस्य भ्रान्तिजल्पितम्; अहं त्वमाद्यथर्विलक्षणं चिन्मात्रं ह्यात्मा त्वन्मते । किञ्च निर्विशेषचिन्मात्रातिरेकि सर्वं मिथ्येति वदतो मोक्षार्थश्रवणादिप्रयत्नो निष्फलः, अविद्याकार्यत्वात्; शुक्तिकाराजतादिषु रजताद्युपादानादिप्रयत्नवत् । मोक्षार्थप्रयत्नोऽपि व्यर्थः, कल्पिताचार्यायत्तज्ञानकार्यत्वात् शुकप्रह्लादवामदेवादिप्रयत्नवत् । तत्त्वमस्यादिवाक्यजन्यज्ञानं न बन्धनिवर्तकम्, अविद्याकल्पितवाक्यजन्यत्वात्स्वयमविद्यात्मकत्वात्, अविद्याकल्पितज्ञात्राश्रयत्वात् कल्पिताचार्यायत्तश्रवणजन्यत्वाद्वा, स्वाप्नबन्धनिवत्तर्नवाक्यजन्यज्ञानवत् । किञ्च निर्विशेषचिन्मात्रं ब्रह्म मिथ्या, अविद्याकार्यज्ञानगम्यत्वात् अविद्याकल्पितज्ञात्राश्रयज्ञानगम्यत्वात्
अविद्यात्मकज्ञानगम्यत्वाद्वा, यदेवं तत्तथा, यथा स्वाप्नगन्धर्वनगरादिः । न च निर्विशेषचिन्मात्रं ब्रह्म स्वयं प्रकाशते, येन न प्रमाणान्तरमपेक्षते । यत्त्वात्मसाक्षिकं स्वयं प्रकाशज्ञानं दृश्यते, तत्तु ज्ञेयविशेषसिद्धिरूपं ज्ञातृगतमेव दृश्यत इति पूर्वमेवोक्तम् । यानि च तस्य निविर्शेषत्वसाधकानि यौक्तिकानि ज्ञानान्युपन्यस्तानि तानि चानन्तरोक्तैरविद्याकार्यत्वादित्यादिभिरनुमानैर्निरस्तानि । न च निर्विशेषस्य चिन्मात्रस्याज्ञानसाक्षित्वमहङ्कारादि
जगद्भ्रमश्चोपपद्यते साक्षित्वभ्रमादयोऽपि हि ज्ञातृविशेषगता दृष्टाः, न ज्ञप्तिमात्रगताः, न च तस्य प्रकाशत्वं स्वायत्तप्रकाशता वा सिध्यति; प्रकाशो हि कस्यचित्पुरुषस्य कञ्चनाथर्विशेषं प्रतिसिद्धिरूपो दृश्यते, तत एव हि तस्य स्वयम्प्रकाशतोपपद्यते भवद्भिरपि । न चातादृशस्य निर्विशेषस्य प्रकाशता सम्भवति ।
यः पुनः स्वगोष्ठीष्वपरमार्थादपि परमाथर्कार्यं दृश्यत इत्युद्घोषः सोऽपि, तानि कार्याणि सर्वाण्यबाधितकल्पानि व्यावहारिकसत्यानि; वस्तुतस्त्वविद्यात्मकान्येवेति स्वाभ्युपगमादेव निरस्तः । अस्माभिरपि सर्वत्रपरमार्थादेव कारणात्सर्वकार्योत्पत्तिमुपपादयद्भिः पूर्वमेव निरस्तः । न च त्वयैषामनुमानानां श्रुतिविरोधो वक्तुं शक्यते, श्रुतेरप्यविद्याकार्यत्वेनाविद्यात्मकत्वेन चोक्तदृष्टान्तेभ्यो विशेषाभावात् । यत्तु ब्रह्मणोऽपारमार्थिकज्ञानगम्यत्वेऽपि पश्चात्तनबाधादर्शनाद्ब्रह्म सत्यमेवेति, तदसत्; दुष्टकारणजन्यज्ञानगम्यत्वे निश्चिते सति पश्चात्तनबाधादर्शनस्याकिञ्चित्करत्वात् । यथा शून्यमेव तत्त्वमिति वाक्यजन्यज्ञानस्य पश्चात्तनबाधादर्शनेऽपि दोषमूलत्वनिश्चयादेव तदर्थस्यासत्यत्वम् । किञ्च “नेह नानास्ति किञ्चन” “विज्ञानमानन्दं ब्रह्म” इति विज्ञानमात्रातिरिक्तस्य कृत्स्नस्य वस्तुजातस्य निषेधकत्वेन सर्वस्मात् परत्वात्पश्चात्तनबाधादर्शनमुच्यते, शून्यमेव तत्त्वमिति तस्याप्यभावं वदतस्तस्मात्परत्वेन पश्चात्तनबाधो दृश्यते । सर्वशून्यत्वातिरेकिनिषेधासम्भवात्तस्यैव पश्चात्तनबाधादर्शनम्; दोषमूलत्वं तु प्रत्यक्षादीनां वेदान्तजन्मनः सर्वशून्यज्ञानस्याप्यविशिष्टम्;
अतः सर्वं विज्ञानजातं पारमार्थिकज्ञातृगतम्; स्वयं च परमार्थभूतमर्थविशेषसिद्धिरूपम्; तत्र किञ्चित्, ज्ञानं दोषमूलम्; दोषश्च परमार्थः, किञ्चिच्च निर्दोषं पारमार्थिकसामग्रीजन्यमिति यावन्नाभ्युपेयते, न तावत्सत्यमिथ्यार्थव्यवस्था,लोकव्यवहारश्च सेत्स्यति। लोकव्यवहारो हि पारमार्थिको भ्रान्तिरूपश्च पारमार्थिकज्ञातृगतार्थविशेषसिद्धिरूपप्रकाशपूर्वकः, निर्विशेषसन्मात्रस्य तु पारमार्थिकस्याऽपारमाथिर्कस्य च प्रतिभासादेर्हेतुत्वासम्भवाल्लोकव्यवहारो न सम्भवति ।
यच्च तैर्निरधिष्ठानभ्रमासम्भवात् सर्वाध्यासाधिष्ठानस्य सन्मात्रस्य पारमार्थिकत्वमुक्तम्, तदपि दोषदोषाश्रयत्वज्ञातृत्वज्ञानानामपारमार्थ्येपि भ्रमोपपत्तिवदधिष्ठानापारमार्थ्येपि भ्रमोपपत्तेर्निरस्तम् । अथ अधिष्ठानापारमार्थ्ये न क्वचिद्भ्रमो दृष्ट इति सन्मात्रस्य पारमार्थिकत्वमवश्याश्रयणीयमिति मन्यसे हन्त तर्हि दोषदोषाश्रयत्वज्ञातृत्वज्ञानानामपारमार्थ्येऽपि न क्वचिद्भ्रमो दृष्ट इति दर्शनानुगुण्येन तेषामपि पारमार्थ्यमवश्याश्रयणीयमिति न कश्चिद्विशेषोऽन्यत्र तत्संरम्भात् । यत्तु भेदपक्षेऽप्यतीतकल्पानामानन्त्यात्सर्वेषामात्मनां मुक्तत्वेन बद्धासम्भवाद्बद्धमुक्तव्यवस्था न सम्भवतीति; तदात्मानन्त्येन परिहृतम् । यत्त्वात्मनां भिन्नत्वे माषसर्षपघटपटादिवत्सङ्खयावत्त्वमवर्ज्जनीयमिति, तत्र घटादीनामप्यनन्तत्वात् दृष्टान्तः साध्यविकलस्स्यात्, दशघटाः सहस्रं माषा इति सङ्खयावत्त्वं दृश्यत इति चेत्- सत्यम् , तत्तु न घटादिस्वरूपगतम्, अपि तु देशकालाद्युपाधिमद्घटादिगतम्, तादृशं तु सङ्खयावत्त्वमात्मनामभ्युपगच्छामः । न च तावता सर्वमुक्तिप्रसङ्गः,आत्मस्वरूपानन्त्यात् ।
यत्तु आत्मनां भिन्नत्वे घटादिवज्जडत्वानात्मत्वक्षयित्वप्रसङ्ग इति, तदयुक्तम्; एकजातीयानां भेदस्य तज्जातीयानां जात्यन्तरीयत्वानापादकत्वात् । न हि घटादीनां भेदस्तेषां पटत्वमापादयति ।
यत्तु भिन्नत्वे वस्तुतः परिच्छेदाद्देशकालाभ्यामपि परिच्छेदो ब्रह्मणः प्रसज्यत इत्यनन्तत्वं ब्रह्मणो न सिद्ध्यतीति, तदयुक्तम्; वस्तुतः परिच्छिन्नानामपि देशकालपरिच्छेदस्य न्यूनाधिकभावेनानियमदर्शनात्; देशकालसम्बन्धेयत्तायाः प्रमाणान्तरायत्तनिर्णयत्वेन ब्रह्मणः सर्वदेशकालसम्बन्धस्यापि प्रमाणान्तरादापततो विरोधाभावात् । वस्तुतः परिच्छेदमात्रादपि सर्वप्रकारपरिच्छेदरहितत्वाभावादानन्त्यासिद्धिरिति चेत्, तद्भवतोऽप्यविद्याविलक्षणत्वं ब्रह्मणो अभ्युपेयतः समानम्; अतस्सतोऽविद्याविलक्षणत्वाभ्युपगमाद्ब्रह्मणोऽपि भिन्नत्वेन भेदप्रयुक्ता दोषास्सर्वे तवापि प्रसज्येरन् । यद्यविद्याविलक्षणत्वं नाभ्युपेयते; तर्ह्यविद्यात्मकत्वमेव ब्रह्म स्यात् ।
“सत्यं ज्ञानमनन्तं ब्रह्म” इति लक्षणवाक्यमपि तत एवापाथर्कं स्यात् । भेदतत्त्वानभ्युपगमे हि स्वपक्षपरपक्षसाधनदूषणादिविवेकाभावात्सर्वमसमञ्जसं स्यात् । आनन्त्यप्रसिद्धिश्च देशकालपरिच्छेदरहितत्वमात्रेण; न वस्तुतोऽपि परिच्छेदरहितत्वेन, तथाविधस्य शशविषाणायमानस्यानुपलब्धेः । भेदवादिनस्तु सर्वचिदचिद्वस्तुशरीरत्वेनब्रह्मणस्सर्वप्रकारत्वात्स्वतः परतोऽपि परिच्छेदो न विद्यते । तदेवं कारणाद्भिन्नस्य कायर्स्य सत्यत्वाद्ब्रह्मकार्यं कृत्स्नं जगद्ब्रह्मणोऽन्यदेव ।
इति प्राप्ते प्रचक्ष्महे - तदनन्यत्वमारम्भणशब्दादिभ्यः । तस्मात्- परमकारणाद्ब्रह्मणः, अनन्यत्वं जगतः आरम्भणशब्दादिभ्यः तदुपपादयद्भयोऽवगम्यते । आरम्भणशब्द आदिर्येषां वाक्यानाम्, तान्यारम्भणशब्दादीनि “वाचारम्भणं विकारोनामधेयं मृत्तिकेत्येव सत्यम्” “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं, तदैक्षत
बहु स्यां प्रजायेयेति तत्तेजोऽसूजत” “अनेन जीवेनात्मनाऽनुप्रविश्य” “सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनाः सत्प्रतिष्ठाः ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो” इत्येतानि; प्रकरणान्तरस्थान्यप्येवञ्जातीयकान्यत्राभिप्रेतानि । एतानि हि वाक्यानि चिदचिदात्मकस्य जगतः परस्माद्ब्रह्मणोऽनन्यत्वमुपपादयन्ति । तथा हि- “स्तब्धोऽस्युत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्” इति कृत्स्नस्य जगतो ब्रह्मैककारणत्वम्, कारणात्कार्यस्यानन्यत्वं च हृदि निधाय कारणभूतब्रह्मविज्ञानेन कार्यभूतस्य सर्वस्य विज्ञाने प्रतिज्ञाते सति कृत्स्नस्य ब्रह्मैककारणतामजानता शिष्टेण “कथं नु भगवःस आदेशः” इत्यन्यज्ञानेनान्यज्ञातताऽसम्भवं चोदितो जगतो ब्रह्मैकारणतामुपदेक्ष्यन् लौकिकप्रतीतिसिद्धं कारणात्कायर्स्यानन्यत्वं तावत् “यथा सोम्येकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात्” इति दर्शयति । यथैकमृत्पिण्डारब्धानां घटशरवादीनां तस्मादनतिरिक्तद्रव्यतया तज्ज्ञानेन ज्ञाततेत्यर्थः । अत्र काणादवादेन कारणात् कार्यस्य द्रव्यान्तरत्वमाशङ्कय लोकप्रतीत्यैव कारणात्कार्यस्यानन्यतामुपपादयति “वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्” इति । आरभ्यते आलभ्यते स्पृश्यत इत्यारम्भणम्; “कृत्यल्युटो बहुलम्” इति कर्माणि ल्युट् । वाचा- वाक्पूर्वकेण व्यवहारेण हेतुनेत्यर्थः । घटेनोदकमाहरेत्यादि वाक्पूर्वको ह्युदकाहरणादिव्यवहारः, तस्य
व्यवहारस्य सिद्धये तेनैव मृद्द्रव्येण पृथुबुध्नोदरत्वादिलक्षणो विकारः- संस्थानविशेषः तत्प्रयुक्तं च घट इत्यादि नामधेयम्, स्पृश्यते- उदकाहरणादिव्यवहारविशेषसिद्धयर्थं मृद्द्रव्यमेव संस्थानान्तरनामधेयान्तरभाग्भवति । अतो घटाद्यपि मृत्तिकेत्येव सत्यम्, मृत्तिकाद्रव्यमित्येव सत्यम्, प्रमाणेनोपलभ्यत इत्यर्थः, न तु द्रव्यान्तरत्वेन; अतस्तस्यैव मृद्धिरण्यादेर्द्रव्यस्य संस्थानान्तरभाक्तवमात्रेण बुद्धिशब्दान्तरादय उपपद्यन्ते, यथेकस्यैव देवदत्तस्यावस्थाभेदैः “बालो युवा स्थविरः” इति बुद्धिशब्दान्तरादयः कार्यविशेषाश्च दृश्यन्ते ।
यदुक्तं- सत्यामेव मृदि घटो नष्ट इति व्यवहारात्कारणादन्यत्कायर्मिति, तदुत्पत्तिविनाशादीनां कारणभूतस्यैव द्रव्यस्यावस्थाविशेषत्वाभ्युपगमादेव परिहृतम् । तत्तदवस्थस्यैकस्यैव तस्यैव द्रव्यस्य ते ते शब्दास्तानि तानि च कार्याणीति युक्तम् । द्रव्यस्य तत्तदवस्थत्वं कारकव्यापारायत्तमिति तस्यार्थवत्त्वम् । अभिव्यक्त्यनुबन्धीनि चोद्यानि तस्या अनभ्युपगमादेव परिहृतानि । उत्पत्त्यभ्युपगमेऽपि सत्कार्यवादो न विरुध्यते; सत एवोत्पत्तेः । विप्रतिषिद्धमिदमभिधीयते, पूर्वमेव सत्, तदुत्पद्यते चेति । अज्ञातोत्पत्तिविनाशयाथात्म्यस्येदं चोद्यम्; द्रव्यस्योत्तरोत्तरसंस्थानयोगः पूर्वपूर्वसंस्थानसंस्थितस्य विनाशः, स्वावस्थस्य तूत्पत्तिः, अतः सर्वावस्थस्य द्रव्यस्य सत्त्वात् सत्कार्यवादो न विरुध्यते । संस्थानस्यासत उत्पत्तावसत्कार्यवादप्रसङ्ग इति चेत्
असत्कार्यवादिनोऽप्युत्पत्तेरनुतत्तिमत्त्वे सत्कार्यवादप्रसङ्गः । उत्पत्तिमत्त्वे चानवस्था । अस्माकं त्ववस्थानं पृथक्प्रतिपत्तिकार्ययोगानर्हत्वादवस्थावत एवोत्पत्त्यादिकं सर्वमिति निरवद्यम् । कपालत्वचूर्णत्वपिण्डत्वावस्थाप्रहाणेन घटत्वावस्थावदेकत्वावस्थाप्रहाणेन बहुत्वावस्था, तत्प्रहाणेनैकत्वावस्था चेति न कश्चिद्विरोधः । तथा “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्” इति, सदेवेदम् इदानीं विभक्तनामरूपत्वेन नानारूपं जगत् अग्रे नामरूपविभागाभावेनैकमेवासीत्, सर्वशक्तित्वेनाधिष्ठात्रन्तरासहतया अद्वितीयं चेत्यनन्यत्वमेवोपपादितम् । तथा “तदैक्षत बहु स्यां प्रजायेय” इति स्रक्ष्यमाणतेजःप्रभृतिविविधिविचित्रस्थिरत्रसरूपजगत्त्वेन आत्मनो बहुभवनं सङ्कल्प्य जगत्सर्गाभिधानात् कार्यभूतस्य जगतः परमकारणात्परस्माद्ब्रह्मणोऽनन्यत्वमव
त्तिमत्त्व इति । अस्माकं त्विति- अपृथक्सिद्धधर्मतया पृथक् प्रतिपत्तिकार्यानर्हव्यतिरिक्तानाम् उत्पत्त्यादिकं पृथगपेक्षते, पृथक्प्रतिपत्तिकार्यानर्हधर्माः पृथगुत्पत्तिनिरपेक्षाः, अत एव ह्युत्पत्तेरुत्पत्त्वादिनैरपेक्ष्यम्; तस्मादपृथक्सिद्धधर्मास्तु स्वयं धर्मिण उत्पत्त्याद्यवस्थाभूता इत्यर्थः । अवस्थैव वस्तुन उत्पत्तिः, न त्ववस्थाया उत्पत्तिर्नामास्तीति स्वपक्षवैषम्यद्योतनार्थस्तुशब्दः । सङ्ख्याभेदं परिहरति - कपालत्वेति । सद्वारकत्वादविरोधः, कालभेदाच्चविरोध इत्यर्थः ।
एवं वाचारम्भणमित्यादिवाक्यस्यार्थ उक्तः । अथ सूत्रस्थादिशब्दोपात्तेषु वाक्येषु सदेवेत्यादिकं दार्ष्टान्तिकवाक्यं व्याचष्टे - तथेति । तथा अनन्यत्वमेवोपादितमित्यन्वयः । सच्छब्दः प्रमाणसम्बन्धार्हतां वदति । यद्वा ब्रह्म वदति । अन्यतरार्थत्वे अप्यनन्यपदार्थत्वं सिध्यति, सदेवेत्यवधारणेन कदाचिदसत्यत्वं व्यावर्तितम् । एकमेवेति नामरूपविभागाभाव उक्तः । अद्वितीयपदेनाधिष्ठात्रन्तरनिषेध इत्यर्थः । सदेवेत्यादिवाक्यस्थमिदंशब्दं व्याचष्टे - विभक्तनामरूपत्वेनेति । इदं जगत्सदेव चेत् कथं सृष्टयाद्युपपत्तिरित्यत्राह- अग्र इति । अद्वितीयपदं व्याचष्टे - सर्वशक्तित्वेनेति । एषां पदानामुक्तार्थपरत्वमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादनार्थत्वादेवावगम्यते, न हि सजातीयविजातीयादिव्यावृत्त्या प्रतिज्ञोपपादनोपयोगः । एषां पदानामुक्तार्थैकपरत्वमुपरितनवाक्यैरप्युपपादयति- तथा तदैक्षतेति ।
सीयते । सच्छब्दवाच्यस्य परस्य ब्रह्मणः सर्वज्ञस्य सत्यसङ्कल्पस्य निरवद्यस्यैव सदेवेदमिति निर्द्देशार्हजगत्त्वम्, सच्छब्दवाच्यस्यैव जगतो नामरूपविभागाभावेनैकत्वमधिष्ठात्रन्तरनिरपेक्षत्वम्, पुनरपि तस्यैव विचित्रास्थिरत्रसरूपजगत्त्वेन बहुभवनसङ्कल्परूपेक्षणम् यथासङ्कल्पं सर्गश्च कथमुपपद्यत इत्याशङ्कयाह
“सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवताः अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति तासां त्रिवृत्तं त्रिवृत्तम्” इत्यादि । “तिस्रो देवताः” इति कृत्स्नमचिद्वस्तु निर्द्दिश्य स्वात्मकजीवानुप्रवेशेनैतद्विचित्रनामरूपभाक्करवाणीत्युक्तम् । अनेन जीवेनात्मना - मदात्मकजीवेन आत्मतया अनुप्रविश्यैतद्विचित्रनामरूपभाक्करवाणीत्यर्थः । स्वात्मनो जीवस्य चात्मतयाऽनुप्रवेशकृतं नामरूपभाक्तवमित्युक्तं भवति । “तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्च त्यच्चाभवत्” इति श्रुत्यन्तरेण स्पष्टम्, सजीवं जगत्परेण ब्रह्मणा आत्मतयाऽनुप्रविष्टमिति; तदेतत्कार्यावस्थस्य च कारणावस्थस्य च चिदचिद्वस्तुनः सकलस्य स्थूलस्य सूक्ष्मस्य च परब्रह्मशरीरत्वम्, परस्य च ब्रह्मण आत्मत्वमन्तर्यामिब्राह्मणादिषु सिद्धं स्मारितम् । अनेन पूर्वोक्ता शङ्का निरस्ता । अचिद्वस्तुनि सजीवे ब्रह्मण्यात्मतयाऽवस्थिते नामरूपव्याकरणवच नाच्चिदचिद्वस्तुशरीरकं ब्रह्मैव जगच्छब्दवाच्यमिति “सदेवेदमग्र एकमेवासीत्” इत्यादि सर्वमुपपन्नतरम्, शरीरभूतचिदचिद्वस्तुगताः सर्वे विकाराश्चापुरुषार्थाश्चेति ब्रह्मणो निरवद्यत्वं कल्याणगुणाकरत्वं च सुस्थितम् । तदेतत् “अधिकं तु भेदनिर्देशात्” इत्यनन्तरमेव वक्ष्यति । तथा “ऐतदात्म्यमिदं सर्वम्” इति कृत्स्नस्य चेतनाचेतनस्य ब्रह्मतादात्म्यमुपदिशति । तदेव च तत्त्वमसीति निगमयति । तथा प्रकरणान्तरस्थेष्वपि वाक्येषु “सर्वं खल्विदं ब्रह्म” “आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम्” “इदं सर्वं यदयमात्मा” “ब्रह्मैवेदं सर्वम्” इत्यनन्यत्वं प्रतीयते, तथाऽन्यत्वं च निषिध्यते “सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद” “नेह नानास्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति” इति । तथा “यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्”
इत्यविदुषो द्वैतदर्शनं विदुषश्चाद्वैतदर्शनं प्रतिपादयदनन्यत्वमेव तात्त्विकमिति प्रतिपादयति । तदेवमारम्भणशब्दादिभ्यो जगतः परमकारणात्परस्माद्ब्रह्मणोऽनन्यत्वमुपपाद्यते । अत्रेदं तत्त्वम्- चिदचिद्वस्तुशरीरतया तत्प्रकारं ब्रह्मैव सर्वदा सर्वशब्दाभिधेयम् । तत्कदाचित्स्वस्मात् स्वशरीरतयापि पृथग्व्यपदेशानर्हसूक्ष्मदशापन्नचिदचिद्व
स्तुशरीरम्, तत्कारणावस्थं ब्रह्म । कदाचिच्च विभक्तनामरूपव्यवहारार्हस्थूलदशापन्नचिदचिद्वस्तुशरीरम्, तच्च कार्यावस्थमिति कारणात्परस्माद्ब्रह्मणः कार्यरूपं जगदन्यत्, शरीरभूतचिदचिद्वस्तुनः शरीरिणो ब्रह्मणश्च कारणावस्थायां कार्यावस्थायां च श्रुतिशतसिद्धया स्वभावव्यवस्थया गुणदोषव्यवस्था च “न तु दृष्टान्तभावात्” इत्यत्रोक्ता । ये तु कार्यकारणयोरनन्यत्वं कार्यस्य मिथ्यात्वाश्रयणेन वर्णयन्ति; न तेषां कार्यकारणयोरनन्यत्वं सिध्यति सत्यमिथ्यार्थयोरैक्यानुपपत्तेः, तथा सति ब्रह्मणो मिथ्यात्वं जगतः सत्यत्वं वा स्यात् ।
ये च कार्यमपि पारमार्थिकमभ्युपयन्त एव जीवब्रह्मणोरौपाधिकमन्यत्वम्, स्वाभाविकं चानन्यत्वम्, अचिद्ब्रह्मणोस्तु द्वयमपि स्वाभाविकमिति वदन्ति; तेषामुपाधिब्रह्मव्यतिरिक्तवस्त्वन्तराभावान्निरवयवस्याखण्डितस्य ब्रह्मण एवोपाधिसम्बन्धाद्ब्रह्मस्वरूपस्यैव हेयाकारपरिणामाच्छक्तिपरिणामाभ्युपगमे शक्तिब्रह्मणोरनन्यत्वाच्च जीवब्रह्मणोः कर्मवश्यत्वापहतपाप्मत्वादिव्यवस्थावादिन्योऽचिद्ब्रह्मणोश्च परिणामापरिणामवादिन्यः श्रुतयो व्याकुली भवेयुः व्याकुप्येयुः ।
ये पुनः निरस्तनिखिलभोक्तृत्वादिविकल्पविप्लवं सर्वशक्तियुक्तं सन्मात्रद्रव्यमेव कारणं ब्रह्म; तच्च प्रलयवेलायां शान्ताशेषसुखदुःखानुभवविशेषं स्वप्रकाशमपि सुषुप्तात्मवदचिद्विलक्षणमवस्थितम्, सृष्टिवेलायां मृत्तिकाद्रव्यमिव घटशरावादिरूपम्, समुद्र इव च फेनतरङ्गबुद्बुदादिरूपो भोक्तृभोग्यनियन्तृरूपेणांशत्रयावस्थमवतिष्ठते; अतो भोक्तृभोग्यनियन्तृत्वानि तत्प्रयुुक्ताश्च गुणदोषाः शरावत्वघटत्वमणिकत्ववत्तद्गतकार्यभेदवच्च व्यवतिष्ठन्ते; भोक्तृभोग्यनियन्तॄणां सदात्मनैकत्वं च घटशरीवमणिकादीनां मृदात्मनैकत्ववदुपपद्यते; अतस्सन्मात्रद्रव्यमेव सर्वावस्थावस्थितमिति ब्रह्मणोऽनन्यज्जगदातिष्ठन्ते; तेषां सकलश्रुति स्मृतीतिहासपुराणन्यायविरोधः सर्वा हि श्रुतयः
सस्मृतीतिहासपुराणाः सर्वेश्वरेश्वरं सदैव सर्वज्ञं सर्वशक्तिं सत्यसङ्कल्पं निरवद्यं देशकालानवच्छिन्नानवधिकातिशयानन्दं परमकारणं ब्रह्म प्रतिपादयन्ति, न पुनरीश्वरादपि परमीश्वरांशि सन्मात्रम् । तथाहि “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् तदैक्षत बहु स्यां प्रजायेयेति ब्रह्म वा इदमग्र आसीदेकमेव तदेकं सन्न व्यभवत् तच्छ्रेयोरूपमत्यसृजत क्षत्रं यान्येतानि देवक्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्ज्जन्यो यमो मृत्युरीशानः” इति “आत्मा वा इदमेकमेवाग्र आसीत् नान्यत्किञ्चन मिषत् स पेक्षत लोकान्नु सृजा इति” “एको ह वै नारायण आसीन्न ब्रह्मा नेशानो नेमेद्यावापृथिवी न नक्षत्राणि नापो नाग्निर्न सोमो न सूर्यः स एकाकी न रमते तस्य ध्यानान्तस्थस्य” इत्यादिभिः परमकारणं सर्वेश्वरेश्वरो नारायण एवेत्यवगम्यते । सद्ब्रह्मात्मशब्दा हि तुल्यप्रकरणस्थास्तत्तुल्यप्रकरणस्थेन नारायणशब्देन विशेषितास्तमेवावगभयन्ति “तमीश्वराणां परमं महेश्वरं तद्देवतानां परमं च दैवतम् । “स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः इतीश्वरस्यैव कारणत्वं
श्रूयते । स्मृतिरपि मानवी” “ततः स्वयम्भूर्भगवान्” इति प्रकृत्य “सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः।
अप एव ससर्जादौ तासु वीर्यमुपासृजत्” इति । इतिहासपुराणान्यपि पुरुषोत्तममेव परमकारणमभिदधति “नारायणो जगन्मूर्तिरनन्तात्मा सनातनः । स सिसृक्षुः सहस्रांशादसृजत्पुरुषान् द्विधा” “विष्णोः सकाशादुद्भूतं जगत्तत्रैव च स्थितम्” इत्यादिषु । न चेश्वरः सन्मात्रमेवेति वक्तुं शक्यम्, तस्य तदंशत्वाभ्युपगमात्सविशेषत्वाच्च । न च तस्य ज्ञानानन्दाद्यनन्तकल्याणगुणयोगः कादाचित्क इति वक्तुं शक्यते, तेषां स्वाभाविकत्वेन सदातनत्वात्, “परास्य शक्तिविर्विधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च” “यः सर्वज्ञः सर्ववित्” इत्यादिभ्यः । ज्ञानानन्दादिशक्तियोग एवास्य स्वाभाविक इति मा वोचः, शक्तिः स्वाभाविकी, ज्ञानबलक्रिया च स्वाभाविकीति पृथङ्निर्देशाल्लक्षणाप्रसङ्गाच्च । न च पाचकादिवत् “सर्वज्ञ” इत्यादिषु शक्तिमात्रे कृत्प्रत्यय इति वक्तुं शक्यम्, कृत्प्रत्ययमात्रस्य शक्तावस्मरणात्, “शक्तौ हस्तिकवाटयोः” इत्यादिषु केषाञ्चिदेव कृत्प्रत्ययानां शक्तिविषयत्वस्मरणात् पाचकादिषु त्वगत्या लक्षणा समाश्रीयते ।
किञ्चईश्वरस्य तदंशविशेषत्वात्तस्य चांशित्वे तरङ्गात्समुद्रस्येवांशादंशिनोऽधिकत्वात् “तमीश्वराणां परमं महेश्वरम्” “न तत्समश्चाभ्यधिकश्च दृश्यते” इत्यादीनीश्वरविषयाणि परश्शतानि वचांसि बाध्येरन् । किञ्च सन्मात्रस्य सर्वात्मकत्वेंऽशित्वे चेश्वरस्य तदंशविशेषत्वात्तस्य सर्वात्मकत्वांशित्वोपदेशा व्याहन्येरन् । न हि मणिकात्मकत्वं तदंशत्वं वा घटशरावादेः । स्वांशेषु सर्वेषु सन्मात्रस्य पूर्णत्वेनेश्वरांशेऽपि तस्य पूर्णत्वात्तदात्मकानि तदंशाश्चेतराणि वस्तूनीति चेन्न; घटेऽपि सन्मात्रस्य पूर्णत्वादीश्वरस्यापि घटात्मकत्व
तदंशत्वप्रसङ्गात् । न च सन्मात्रस्य घटोऽस्ति पटोऽस्तीति वस्तुधर्मतययाऽवगतस्य द्रव्यत्वं कारणत्वं वोपपद्यते; व्यवहारयोग्यता हि सत्त्वम्; विरोधिव्यवहारयोग्यता तद्य्ववहारयोग्यस्यासत्त्वम् द्रव्यमेव सदित्यभ्युपगमे क्रियादीनामसत्त्वप्रसङ्गः, क्रियादिषु काशकुशावलम्बनेनापिसर्वत्रेकरूपा सत्तादुरुपपादा । सदात्मना च सर्वस्याभिन्नत्वे सर्वज्ञत्वेन सर्वस्वभावप्रतिसन्धानात्सर्वगुणदोषसङ्करप्रसङ्गश्च पूर्वमेवोक्तः, अतो यथोक्तप्रकारमेवानन्यत्वम् ॥
अथोच्येत- एकस्यैवावस्थान्तरयोगेऽपि बुद्धिशब्दान्तरादयो बालत्वयुवत्वादिषु दृश्यन्ते; मृद्दारुहिरण्यादिषु
द्रव्यान्तरत्वेऽपि दृश्यन्ते; तत्र मृद्घटादिषु कार्यकारणेषु बुद्धिशब्दान्तरादयोऽवस्थानिबन्धना एवेति कुतो निर्णीयत इति ।
तत्रोत्तरम् -
कुण्डलादिकार्यसद्भावे च कारणभूतहिरण्यस्योपलब्धेः, “इदं कुण्डलं हिरण्यम्” इति हिरण्यत्वेन प्रत्यभिज्ञानादित्यर्थः । न चैवं हिरण्यादिषु द्रव्यान्तरेषु मृदादय उपलभ्यन्ते; अतो बालयुवादिवत्कारणभूतमेव द्रव्यमवस्थान्तरापन्नं कार्यमिति गीयते; द्रव्यान्तरवादिनाप्यभ्युपेतेनावस्थान्तरयोगेन बुद्धिशब्दान्तरादिषूपपन्नेष्वनुपलब्धद्रव्यान्तरकल्पनानुपपत्तेश्च । न च आजातिनिबन्धनेयं प्रत्यभिज्ञा, जात्याश्रयभूतद्रव्यान्तरानुपलब्धेः ।
एकमेव हेमजातीयं द्रव्यं कार्यकारणोभयावस्थं दृश्यते । न च द्रव्यभेदे समवायिकारणानुवृत्त्या कार्ये प्रतिसन्धानमिति वक्तुं शक्यम्, द्रव्यान्तरत्वे सत्याश्रयानुवृत्तिमात्रेण तदाश्रितद्रव्यान्तरे प्रतिसन्धानानुपपत्तेः । गोमयादिकार्ये वृश्चिकादौ गोमयादिप्रतिसन्धानं न दृश्यत इति चेन्न; तत्राप्याद्यकारणभूतपृथिवीद्रव्यप्रत्यभिज्ञानात् । अग्निकार्ये धूमेऽग्निप्रत्यभिज्ञानं न दृश्यत इति चेत्- भवतु, न तत्र प्रत्यभिज्ञानम्; तथापि न दोषः, अग्नेर्निमित्तकारणमात्रत्वात् । अग्निसंयुक्तार्द्रेन्धनाद्धि धूमो जायते । गन्धैक्याच्चार्द्रेन्धनकार्यमेव धूमः, अतः कार्याभावे च तदेवेदमित्युपलब्धेर्बुद्धिशब्दान्तरादयोऽवस्थाभेदमात्रनिबन्धना इत्यवगम्यते ।
तस्मात्कारणादनन्यत्कार्यम् ॥ इतश्च -
अपरस्य- कार्यस्य कारणे सत्त्वाच्च कारणात्कार्यस्यानन्यत्वम् । लोकवेदयोर्हि कार्यमेव कारणतया व्यपदिश्यते; यथा लोके “सर्वमिदं घटशरावादिकं पूर्वाह्णे मृत्तिकैवासीत्” इति; वेदे च “सदेव सोम्येदमग्र आसीत्” इति ।
यदुक्तं कारणे कार्यस्य सत्त्वं लोकवेदाभ्यामवगम्यत इति, तदयुक्तम्; असद्य्वपदेशात्- “असदेवेदमग्र आसीत्” “असद्वा इदमग्र आसीत्” “इदं वाग्रे नैव किञ्चनासीत्” इति; लोके च “सर्वमिदं घटशरावादिकं पूर्वाह्णे नासीत्” इति; अतो यथोक्तं नोपपद्यत इति चेत्- तन्न; धर्मान्तरेण तथा व्यपदेशात् । स खल्वसद्य्वपदेशस्तस्यैव कार्यद्रव्यस्य पूर्वकाले धमर्ान्तरेणसंस्थानान्तरेण; न भवदभिप्रेतेन तुच्छत्वेन । सत्त्वासत्त्वे हि द्रव्यधर्मावित्युक्तम् । तत्र सत्त्वधर्माद्धर्मान्तरमसत्त्वम् । इदंशब्दनिर्दिष्टस्य जगतः सत्त्वधर्मो नामरूपे; असत्त्वधर्मस्तु तद्विरोधिनी सूक्ष्मावस्था; अतो जगतो नामरूपयुक्तस्य तद्विरोधिसूक्ष्मदशापत्तिरसत्त्वम् । कथमिदमवगम्यते ? वाक्यशेषाद्युक्तेः
शब्दान्तराच्च । वाक्यशेषस्तावत् “इदं वा अग्रे नैव किञ्चनासीत्” इत्यत्र “तदसदेव सन्मनोऽकुरुत स्यामिति” इति । अनेन वाक्यशेषगतेन मनस्कारलिङ्गेनासच्छब्दाथर्े तुच्छातिरिक्ते निश्चिते तदैकार्थ्यात् “असदेवेदम्” इत्यादिष्वप्यसच्छब्दस्यायमेवार्थ इति निश्चीयते । युक्तेश्च असत्त्वस्य धर्मान्तरत्वमवगम्यते; युक्तिर्हि सत्त्वासत्त्वे पदार्थधर्माववगमयति । मृद्द्रव्यस्य पृथुबुध्नोदराकारयोगो घटोऽस्तीति व्यवहारहेतुः, तस्यैव तद्विरोध्यवस्थान्तरयोगो घटो नास्तीतिव्यवहारहेतुः, तत्र कपालाद्यवस्थायास्तद्विरोधित्वेन सैव घटावस्थस्य नास्तीति व्यवहारहेतुः । न च तद्य्वतिरिक्तो घटाभावो नाम कश्चिदुपलभ्यते; न च तत्कल्प्यते, तावतैवाभाव
व्यवहारोपपत्तेः । तथा शब्दान्तराच्च पूर्वकाले धर्मान्तरयोग एवावगम्यते । शब्दान्तरं च पूर्वोदाहृतं “सदेव सोम्येदमग्र आसीत्” इत्यादिकम् । तत्र हि “कुतस्तु खलु सोम्येवं स्यात्” इति तुच्छत्वमाक्षिप्य “सदेव सोम्येदमग्र आसीत्” इति स्थापितम् । “तद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यां व्याक्रियत” इति सुस्पष्टमुक्तम् । इदानीं कार्यस्य कारणादनन्यत्वे निदर्शनद्वयं द्वाभ्यां सूत्राभ्यां दर्शयति -
यथा तन्तव एव व्यतिषङ्गविशेषभाजः पट इति नामरूपकार्यान्तरादिकं भजन्ते; तद्वद्ब्रह्मापि ॥
यथा च वायुरेक एव शरीरे वृत्तिविशेषं भचमानः प्राणापानादिनामरूपकार्यान्तराणि भजते; तद्वत् ब्रह्मैकमेव विचित्रस्थिरत्रसरूपं जगद्भवतीति परमकारणात्परस्माद्ब्रह्मणोऽनन्यत्वं जगतः सिद्धम् ॥