05 भोक्त्रापत्त्यधिकरणम्

पुनरपि साङ्ख्यः प्रत्यवतिष्ठते- यदुक्तं स्थूलसूक्ष्मचिदचिद्वस्तुशरीरस्य परस्य ब्रह्मणः कार्यकारणरूपत्वाज्जीवब्रह्मणोः स्वभावविभाग उपपद्यत इति; स तु विभागो न सम्भवति, ब्रह्मणः सशरीरत्वे

तस्य भोक्तृत्वापत्तेः, सशरीरत्वे जीवस्येवेश्वरस्यापि सशरीरत्वप्रयुक्तसुखदुःखयोर्भोक्तृत्वस्यावर्जनीयत्वात् । ननु च “सम्भोगप्राप्तिरिति चेन्न वैशेष्यात्” इत्यत्रेश्वरस्य भोगप्रसङ्गपरिहार उक्तः, नैवम्, तत्र ह्युपास्यतया हृदयायतने सन्निहितस्य शरीरान्तर्वर्तित्वमात्रेण भोगप्रसङ्गो न विद्यत इत्युक्तम्, इह तु जीववद्ब्रह्मणोऽपि सशरीरत्वे तद्वदेव सुखदुःखयोर्भोक्तृत्वप्रसङ्गो दुर्वार इत्युच्यते; दृश्यते हि सशरीराणां जीवानां शरीरगतबालत्वस्थविरत्वादिविकारासम्भवेऽपि शरीरधातुसाम्यवैषम्यनिमित्तसुखदुःखयोगः । श्रुतिश्च “न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति । अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः” इति । अतः सशरीरब्रह्मकारणवादे जीवेश्वरस्वभावविभागासम्भवात् केवलब्रह्मकारणवादे मृत्सुवर्णादिवज्जगद्गतापुरुषार्थादिसर्वविशेषाश्रयत्वप्रसङ्गाच्च प्रधानकारणवाद एव ज्यायानिति चेत् -

अत्रोत्तरम्- स्याल्लोकवदिति । स्यादेव विभागो जीवेश्वरस्वभावयोः, नहि जीवस्य शरीरधातुसाम्यवैषम्यनिमित्तं सुखदुःखयोर्भोक्तृत्वं सशरीरत्वकृतम्, अपि तु पुण्यपापरूपकर्मकृतम् । “न ह वै सशरीरस्य” इत्यपि कर्मारब्धदेहविषयम्, “स एकधा भवति त्रिधा भवति” “स यदि पितृलोककामो भवति” “स तत्र पर्येति जक्षत् क्रीडन् रममाणः” इति कर्मबन्धविनिर्मुक्तस्याविर्भूतस्वरूपस्य सशरीरस्यैवापुरुषार्थगन्धाभावात् । अपहतपाप्मनस्तु परमात्मनः स्थूलसूक्ष्मरूपकृत्स्नजगच्छरीरत्वेऽपि कर्मसम्बन्धगन्धो नास्तीति नतरामपुरुषार्थगन्धप्रसङ्गः । लोकवत्- यथा लोके राजशासनानुवर्तिनां तदतिवर्तिनां च राजानुग्रहनिग्रहकृतसुखदुःखयोगेऽपि न शरीरित्वमात्रेण शासके राज्ञ्यपि शासनानुवृत्त्यतिवृत्तिनिमित्तसुखदुःखयोर्भोक्तृत्वप्रसङ्गः । यथाह द्रमिडभाष्यकारः “यथा लोके राजा प्रचुरदन्दशूके घोरेऽनर्थसङ्कटेऽपि प्रदेशे वर्त्तमानो व्यजनाद्यवधूतदेहो दोषैर्न स्पृश्यते, अभिप्रेतांश्च लोकान् परिपालति भोगांश्च गन्धादीनविश्वजनोपभोग्यान् धारयति, तथाऽसौ लोकेश्वरो भ्रमत्स्वसामर्थ्य

चामरो दोषैर्न स्पृश्यते, रक्षति च लोकान् ब्रह्मलोकादीन् भोगांश्चाविश्वजनोपभोग्यान् धारयति” इति । मृत्सुवर्णादिवद्ब्रह्मस्वरूपपरिणामस्तु नैवाभ्युपगम्यते, अविकारत्वनिर्दोषादिश्रुतेः । यत्तु परैर्ब्रह्मकारणवादे भोक्तृभोग्यविभागाभावमाशङ्कय समुद्रफेनतरङ्गदृष्टान्तेन विभागप्रतिपादनपरं सूत्रं व्याख्यातम्, तदयुक्तम्; अन्तर्भावितशक्तयविद्योपाधिकाद्ब्रह्मणस्सृष्टिमभ्युपगच्छतामेवमाक्षेपपरिहारयोरसङ्गतत्वात् । कारणान्तर्गतशक्तयविद्योपाध्युपहितस्य भोक्तृत्वादुपाधेश्च भोग्यत्वात् । विलक्षणयोस्तयोः परस्परभावापत्तिर्हि न सम्भवति, स्वरूपपरिणामस्तु तैरपि नाभ्युपेयते “न कर्माविभागादिति चेन्नानादित्वात्” इति क्षेत्रज्ञानां तद्गतकमर्णां चानादित्वप्रतिपादनात् । स्वरूपपरिणामाभ्युपगमेऽपि भोक्तृभोग्याविभागाशङ्का कस्यचिदपि न जायते मृत्सुवर्णादिपरिणामरूपघटशरावकटकमुकुटादिविभागवद्भोक्तृभोग्यविभागोपपत्तेः । स्वरूपपरिणामे च ब्रह्मण एव भोक्तृभोग्यत्वापत्तिरिति पुनरप्यसामञ्जस्यमेव । ॥इति भोक्त्रापत्त्यधिकरणम् ॥