04 शिष्टापरिग्रहाधिकरणम्

शिष्टाः- परिशिष्टाः, न विद्यते वेदपरिग्रहो येषामित्यपरिग्रहाः; शिष्टाश्चापरिग्रहाश्च शिष्टापरिग्रहाः । एतेन वेदापरिगृहीतसाङ्ख्यपक्षक्षपणेन परिशिष्टाश्च वेदापरिगृहीताः कणभक्षाक्षपादक्षपणकभिक्षुपक्षाः क्षपिता वेदितव्याः । परमाणुकारणवादेऽमीषां सर्वेषां संवादात्कारणवस्तुविषयस्य तर्कस्याप्रतिष्ठितत्वं

न शक्यते वक्तुमित्यधिकाशङ्का । तावन्मात्रसंवादेऽपि तर्कमूलत्वाविशेषात्परमाणुस्वरूपेऽपि शून्यात्मकत्वाशून्यात्मकत्वज्ञानात्मकत्वार्थात्मकत्वक्षणिकत्वनित्यत्वैकान्तत्वानेकान्तत्वसत्यासत्यात्मकत्वादिविसंवाददर्शनच्च अप्रतिष्ठितत्वमेवेति परिहारः ॥