पुनरपि स्मृतिविरोधवादी तर्कमवलम्बमानः प्रत्यवतिष्ठतेयत्साङ्ख्यस्मृतिनिराकरणेन जगतो ब्रह्मकार्यत्वमुक्तम्,तन्नोपपद्यते; अस्य प्रत्यक्षादिभिरचेतनत्वेनाशुद्धत्वेनानीश्वरत्वेन दुःखात्मकत्वेन चोपलभ्यमानस्य चिदचिदात्मकस्य जगतः भवदभ्युपेतात्सर्वज्ञात्सर्वेश्वराद्धेयप्रत्यनीकादानन्दैकतानाद्ब्रह्मणो विलक्षणत्वात् ।
न केवलं प्रत्यक्षादिभिरेव जगतो वैलक्षण्यमुपलभ्यते, शब्दाच्च तथात्वम् विलक्षणत्वम् उपलभ्यते “विज्ञानं चाविज्ञानं च” “एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणे अर्पिताः” समाने वृक्षे पुरुषो निमग्नोऽग्नीशया शोचति मुह्यमानः" “अनीशश्चात्मा बध्यते भोक्तृभावात्” इत्यादिभिः ।
कार्यस्य हि जगतो ऽचेतनत्व-दुःखित्वादयो निर्दिश्यन्ते ।
यद्धि यत्कार्यम्, तत्तस्मादविलक्षणम्, यथा मृत्सुवर्णादिकार्यं घटरुचकादि; अतो ब्रह्मविलक्षणस्यास्य जगतस्तत्कार्यत्वं न सम्भवतीति साङ्ख्यस्मृत्यनुरोधेन कार्यसलक्षणं प्रधानमेव कारणं भवितुमर्हति ।
अवश्यं च शास्त्रस्यानन्यापेक्षस्यातीन्द्रियार्थगोचरत्वेपि तर्कोऽनुसरणीयः, यतस्सर्वेषां प्रमाणानां क्वचित् क्वचिद्विषये तर्कानुगृहीतानामेवार्थनिश्चयहेतुत्वम् ।
तर्को हि नाम अर्थस्वभावविषयेण वा सामग्रीविषयेण वा निरूपणेनार्थविशेषे प्रमाणं व्यवस्थापयत् तदितिकर्तव्यतारूपमूहापरपर्यायं ज्ञानम्; तदपेक्षा च सर्वेषां प्रमाणानां समाना>>
(प्रत्यक्षविलक्षणस्य शास्त्रस्य तर्कानुग्रहापेक्षानियमः)
शास्त्रस्य तु विशेषेणाकाङ्क्षासन्निधियोग्यताज्ञानाधीनप्रमाणभावस्य सर्वत्रैव तर्कानुग्रहापेक्षा; उक्तं च मनुना यस्तर्केणानुसन्धत्ते स धर्म वेद नेतरः (मनु.१२.१०६) इति। तदेव हि तर्कानुगृहीतशास्त्रार्थप्रतिष्ठापनं श्रुत्या च मन्तव्यः (बृ.६.५.६) इत्युच्यते ॥
(जगति अनुद्भूतचैतन्याभ्युपगमेन ब्रह्मसालक्षण्याशङ्का-परिहारौ)
अथोच्येत – श्रुत्या जगतो ब्रह्मैककारणत्वे निश्चिते सति तत्कार्यस्यापि जगतश्चैतन्यानुवृत्तिरभ्युपगम्यते।
तथा चेतनस्य सुषुप्तिमूर्च्छादिषु चैतन्यानुपलम्भः;
तथा घटादिष्वपि सदेव चैतन्यमनुद्भूतम्,
अत एव चेतनाचेतनविभागः – इति ॥
नैतदुपपद्यते, यतो नित्यानुपलब्धिरसद्भावमेव साधयति। अत एव चैतन्यशक्तियोगोऽपि तेषु निरस्तः।
यस्य हि क्वचित्कदाचिदपि यत्कार्यानुपलब्धिः;
तस्य तत्कार्यशक्तिं ब्रुवाणो वन्ध्यासुतसमितिषु तज्जननीनां प्रजननशक्तिं ब्रूताम् ॥
किञ्च वेदान्तैर्जगतो ब्रह्मोपादानताप्रतिपादननिश्चये सति घटादीनां चैतन्यशक्तेश्चैतन्यस्य वाऽनुद्भूतस्य सद्भावनिश्चयः, तन्निश्चये सति वेदान्तैर्जगतो ब्रह्मोपादानताप्रतिपादननिश्चय इतीतरेतराश्रयत्वम्। विलक्षणयोर्हि कार्यकारणभावः प्रतिपादयितुमेव न शक्यते ॥
(प्रसक्तसालक्षण्यविवेचनतः ब्रह्मणः उपादानत्व-तन्निषेधौ)
किं पुनः प्रकृतिविकारयोस्सालक्षण्यमभिप्रेतम्, यदभावाज्जगतो ब्रह्मोपादानता-प्रतिपादनासम्भवं ब्रूषे;
न तावत्सर्वधर्मसारूप्यम्, कार्यकारणभावानुपपत्तेः ।
न हि मृत्पिण्डकार्येषु घटशरावादिषु पिण्डत्वाद्यनुवृत्तिर्दृश्यते । अथ येन केनचिद्धर्मेण सारूप्यम्, तज्जगद्ब्रह्मणोरपि सत्तादिलक्षणं सम्भवति । तदुच्यते; येन स्वभावेन कारणभूतं वस्तु वस्त्वन्तराद्य्वावृत्तं तस्य स्वभावस्य तत्कार्येऽप्यनुवृत्तिः कार्यस्य कारणसालक्षण्यम्, येन ह्याकारेण मृदादिभ्यो हिरण्यं व्यावर्तते, तदाकारानुवृत्तिस्तत्कार्येषु कुण्डलादिषु दृश्यते । ब्रह्म च हेयप्रत्यनीकज्ञानानन्दैश्वर्यस्वभावम्, जगच्च तत्प्रत्यनीकस्वभावमिति न तदुपादानम् । ननु च वैलक्षण्येपि कार्यकारणभावो दृश्यते, यथा चेतनात्पुरुषादचेतनानि केशनखदन्तलोमानि जायन्ते, यथा चाचेतनाद्गोमयाच्चेतनो वृश्चिको जायते; चेतनाच्चोर्णनाभेरचेतनस्तन्तुः, नैतदेवम्, यतस्तत्राप्यचेतनांश एव कार्यकारणभावः ।
अथ स्यात्- अचेतनत्वेनाभिमतानामपि चैतन्ययोगः श्रुतिषु श्राव्यते “तं पृथिव्यब्रवीत्” “आपो वा अकामयन्त” “ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्माणं जग्मुः” इति नदीसमुद्रपर्वतादीनामपि चेतनत्वं पौराणिका आतिष्ठन्ते, अतो न वैलक्षण्यमिति । अत उत्तरं पठति -
तुशब्दश्चोदिताशङ्कानिवृत्त्यर्थः, पृथिव्याद्यभिमानिन्यो देवताः “तं पृथिव्यब्रवीत्” इत्यादिषु पृथिव्यादिशब्दैर्व्यपदिश्यन्ते । कुतः ? विशेषानुगतिभ्याम् विशेषः विशेषणम्, देवताशब्देन विशेष्य पृथिव्यादयोऽभिधीयन्ते, “हन्ताहमिमास्तिस्रो देवताः” इति तेजोऽबन्नानि देवताशब्देन विशेष्यन्ते “सर्वा ह वै देवता
अहंश्रेयसे विवदमानाः” “ते देवाः प्राणे निःश्रेयसं विदित्वा” इति च; अनुगतिः- अनुप्रवेशः । “अग्निर्वाग्भूत्वा
मुखं प्राविशत् आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत् वायुः प्राणो भूत्वा नासिके प्राविशत्” इत्यादिना वागाद्यभिमानित्वेनाग्न्यादीनामनुप्रवेशः श्रूयते अतो जगतोऽचेतनत्वेन विलक्षणत्वाद्ब्रह्मकार्यत्वानुपपत्तेस्तर्कानुगृहीतस्मृत्यनुरोधेन जगतः प्रधानोपादानत्वं वेदान्तैः प्रतिपाद्यते इति ।
एवं प्राप्तेऽभिधीयते ॥ 5 ॥
तुशब्दात्पक्षो विपरिवर्तते; यदुक्तं जगतो ब्रह्मविलक्षणत्वेन ब्रह्मोपादानत्वं न सम्भवतीति । तदयुक्तम्, विलक्षणयोरपि कार्यकारणभावदर्शनात् । दृश्यते हि माक्षिकादेर्विलक्षणस्य क्रिम्यादेस्तस्मादुत्पत्तिः । ननूक्तमचेतनांश एव कायर्कारणभावात्तत्र सालक्षण्यम् । सत्यमुक्तम्, न तावता कायर्कारणयोर्भवदभिमतसालक्षण्यसिद्धिः, यथाकथञ्चित्सालक्षण्ये सर्वस्य सर्वसालक्षण्येन सर्वस्मात्सर्वोत्पत्तिप्रसङ्गभयाद्वस्तुनो वस्त्वन्तराद्व्यावृत्तिहेतुभूतस्याकारस्यानुवृत्तिस्सालक्षण्यं भवताऽभ्युपेतम्, स तु नियमोमाक्षिकादिभ्यः क्रिम्याद्युत्पत्तौ न दृश्यत इति ब्रह्मविलक्षण्यस्यापि जगतो ब्रह्मकार्यत्वं नानुपपन्नम् । न हि
मृद्धिरण्यघटमकुटादिष्विव वस्त्वन्तरव्यावृत्तिहेतुभूत असाधारणाकारानुवृत्तिः माक्षिकगोमयक्रिमिवृश्चिकादिषु दृश्यते ॥ 6 ॥
यदि कार्यभूताज्जगतः कारणभूतं ब्रह्म विलक्षणम् तर्हि कायर्कारणयोर्द्रव्यान्तरत्वेन कारणे परस्मिन् ब्रह्मणि कार्यं जगन्न विद्यत इत्यसत एव जगत उत्पत्तिः प्रसज्यत इति चेत्- नैतदेवम्; कार्यकारणयोः सालक्षण्यनियमप्रतिषेधमात्रमेव हि पूर्वसूत्रेऽभिप्रेतम्, न तु कारणात्कार्यस्य द्रव्यान्तरत्वम्, कारणभूतं ब्रह्मैव स्वस्माद्विलक्षणजगदाकारेण परिणमत इत्येतत्तु न परित्यक्तम्, क्रिमिमाक्षिकयोरपि हि सति च वैलक्षण्ये
कुण्डल-हिरण्ययोर् इव द्रव्यैक्यम् अस्त्य् एव ॥ अत्र चोदयति -
अपीतावित्यपीतिपूर्वकसृष्टयादेः प्रदर्शनार्थम्, “सदेव सोम्येदमग्र आसीत्” आत्मा वा इदमेक एवाग्र आसीत्" इत्यादिषु अप्ययावस्थोपदेशपूर्वकत्वदर्शनात्सृष्टयादेः । यदि कार्यकारणयोर्द्रव्यैक्यमभ्युपेतम् तदा कार्यस्य जगतो ब्रह्मणि अप्ययसृष्टयादिषु सत्सु ब्रह्मण एव तत्तदवस्थान्वय इति कार्यगतास्सर्व एवापुरुषार्था ब्रह्मणि प्रसज्येरन्, सुवर्ण इव कुण्डलगता विशेषाः । ततश्च वेदान्तवाक्यं सर्वमसमञ्जसं स्यात्, “यस्सर्वज्ञस्सर्ववित्” “अपहतपाप्मा विजरो विमृत्युः” “न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते” “तयोरन्यः पिप्पलं स्वाद्वत्ति अनीशश्चात्मा बध्यते भोक्तृभावात्” “अनीशया शोचति मुह्यमानः” इत्येकस्मिन्नेव
वस्तुन्येषां परस्परविरुद्धानां प्रसक्तेः । अथोच्येत- चिदचिद्वस्तुशरीरकस्य परस्यैव ब्रह्मणः कार्यकारणभावाच्छरीरभूतचिदचिद्वस्तुगतत्वाच्च दोषाणाम, न शरीरिणि ब्रह्मणि कार्यावस्थे कारणावस्थे च प्रसङ्ग इति । तदयुक्तम्, जगद्ब्रह्मणोः शरीरशरीरिभावस्यैवासम्भवात्; सम्भवे च ब्रह्मणि शरीरसम्बन्धनिबन्धनदोषाणामनिवार्यत्वात्; न हि चिदचिद्वस्तुनोर्बह्मणः शरीरत्वं सम्भवति, शरीरं हि नाम कर्मफलरूपसुखदुःख-भोगसाधनभूतेन्द्रियाश्रयः पञ्चवृत्तिप्राणाधीनधारणः पृथिव्यादिभूतसङ्घातविशेषः, तथाविधस्यैव लोकवेदयोः शरीरत्वप्रसिद्धेः, परमात्मनश्च “अपहतपाप्मा विजरः” “अनश्नन्नन्यो अभिचाकशीति अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स ृणोत्यकर्णः” “अप्राणो ह्यमनाः” इत्यादिभिः कर्मतत्फलभोगयोरभावादिन्द्रियाधीनभोगत्वाभावात्प्राणवत्त्वाभावाच्च न तं प्रति चेतनाचेतनयोश्शरीरत्वम् । न चाचेतनव्यष्टिरूपतृणकाष्ठादीनां समष्टिरूपस्य भूतसूक्ष्मस्य चेन्द्रियाश्रयत्वादि सम्भवति । भूतसूक्ष्मस्य पृथिव्यादिसङ्घातत्वं च न विद्यते । चेतनस्य तु ज्ञानैकाकारस्य सर्वमेतन्न सम्भवतीति नतरां शरीरत्वसम्भवः । न च भोगायतनत्वं शरीरत्वमिति शरीरत्वसम्भवः, भोगायतनेषु वेश्मादिषु शरीरत्वाप्रसिद्धेः । यत्र वर्तमानस्यैव सुखदुःखोपभोगः, तदेव भोगायतनमिति चेन्न; परकायप्रवेशजन्मसुखदुःखोपभोगायतनस्य परकायस्य प्रविष्टशरीरत्वाप्रसिद्धेः, ईश्वरस्य तु स्वतस्सिद्धनित्यनिरतिशयानन्दस्य भोगं प्रति चिदचितोरायतनत्वनियमो न सम्भवति; एतेन भोगसाधनमात्रस्य शरीरत्वं प्रत्युक्तम् । अथ मतम्- यदिच्छाधीनस्वरूपस्थितिप्रवृत्ति यत् तत्तस्य शरीरमिति, सर्वस्येश्वरेच्छाधीनस्वरूपस्थितिप्रवृत्तित्वेनेश्वरशरीरत्वं सम्भवतीति; तदपि न साधीयः, शरीरतया प्रसिद्धेषु तत्तच्चेतनेच्छायत्तस्वरूपत्वाभावात् । रुग्णशरीरस्य तदिच्छाधीन प्रवृत्तित्वाभावात् मृतशरीरस्य तदायत्तस्थितित्वाभावाच्च, सालभञ्जिकादिषु चेतनेच्छाधीनस्वरूपस्थितिप्रवृत्तिषु तच्छरीरत्वाप्रसिद्धेश्च, चेतनस्य नित्यस्येश्वरेच्छायत्तस्वरूपत्वाभावाच्च न तच्छरीरत्वसम्भवः । न च यद्येकनियाम्यं यदेकधार्यं यस्यैकशेषभूतम्, तत्तस्य शरीरमिति वाच्यम्; क्रियादिषु व्यभिचारात् । “अशरीरं शरीरेषु” “अपाणिपादो जवनो ग्रहीता” इत्यादिभिश्च ईश्वरस्य
शरीराभावः प्रतिपाद्यते, अतो जगद्ब्रह्मणोः शरीरशरीरिभावस्यासम्भवात्तत्सम्भवे च ब्रह्मणि दोषप्रसङ्गाद्ब्रह्मकारणवादे वेदान्तवाक्यानामसामञ्जस्यमिति ॥
अत्रोत्तरम् -
नैवमसामञ्जस्यम्- एकास्यैवावस्थाद्वयान्वयेपि गुणदोषव्यवस्थितेर्दृष्टान्तस्य विद्यमानत्वात् । तुशब्दोऽत्र हेयसम्बन्धगन्धस्यासम्भावनीयतां द्योतयति । एतदुक्तं भवति; चिदचिद्वस्तुशरीरतया तदात्मभूतस्य परस्य ब्रह्मणः सङ्कोचविकासात्मककार्यकारणभावावस्थाद्वयान्वयेऽपि न कश्चिद्विरोधः, यतः सङ्कोचविकासौ
परब्रह्मशरीरभूतचिदचिद्वस्तुगतौ । शरीरगतास्तु दोषाः नात्मनि प्रसज्यन्ते, आत्मगताश्च गुणा न शरीरे; यथा देवमनुष्यादीनां सशरीराणां क्षेत्रज्ञानां शरीरगता बालत्वयुवत्वस्थविरत्वादयो नात्मनि सम्बध्यन्ते; आत्मगताश्च ज्ञानसुखादयो न शरीरे । अथ च “देवो जातो मनुष्यो जातः” तथा स एव बालो युवा स्थविरश्च" इति व्यपदेशश्च मुख्यः, भूतसूक्ष्मशरीरस्यैव क्षेत्रज्ञस्य देवमनुष्यादिभाव इति “तदन्तरप्रतिपत्तौ” इति वक्ष्यत इति । यत्पुनरुक्तं- चिदचिदात्मकस्य जगतः स्थूलस्य सूक्ष्मस्य च परमात्मानं प्रति शरीरभावो नोपपद्यत इति; तत् अनाकलितसम्यङ्न्यायानुगृहीतवेदान्तवाक्यगुणस्य स्वमतिपरिकल्पितकुर्तकविजृम्भितम्; सर्व एव हि वेदान्तः स्थूलस्य सूक्ष्मस्य चेतनस्याचेतनस्य समस्तस्य च परमात्मानं प्रति शरीरत्वं श्रावयन्ति; वाजसनेयके तावत्काण्वशाखायां माध्यन्दिनशाखायां चान्तर्यामिब्राह्मणे “यः पृथिव्यां तिष्ठन् यस्य पृथिवी शरीरम्” इत्यारभ्य पृथिव्यादिसमस्तमचिद्वस्तु “यो विज्ञानो तिष्ठन्…यस्य विज्ञानं शरीरम्” “य आत्मनि तिष्ठन्…यस्यात्मा शरीरम्” इति चेतनं च पृथक्पृथङ्िनर्दिश्य तस्य तस्य परमात्मशरीरत्वमभिधीयते । सुवालोपनिषदि च “यः पृथिवीमन्तरे सञ्चरन् यस्य पृथिवी शरीरम्” इत्यारभ्य तद्वदेव चिदचितोस्सर्वावस्थयोः परमात्मशरीरत्वमभिधाय “एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः” इति तस्य सर्वभूतानि प्रत्यात्मत्वम् अभिधीयते ।
स्मरन्ति च
“जगत्सर्वं शरीरं ते”
“यदम्बु वैष्णवः कायः”
“तत्सर्वं वै हरेस्तनुः”
“तानि सर्वाणि तद्वपुः”
“सोऽभिध्याय शरीरात्स्वात्” इत्यादि ।
भूतसूक्ष्मात्स्वाच्छरीरादित्यर्थः ।
लोके च शरीरशब्दो
घटादिशब्दवदेकाकारद्रव्यनियतवृत्तिमनासादितः
क्रिमिकीटपतङ्गसर्पनरपशुप्रभृतिष्वत्यन्तविलक्षणाकारेषु द्रव्येषु
अगौणः प्रयुज्यमानो दृश्यते ।
तेन तस्य प्रवृत्तिनिमित्तव्यवस्थापनं सर्वप्रयोगानुगुण्येनैव कार्यम्।
त्वदुक्तञ्च “कर्मफलभोगहेतुः” इत्यादिकं प्रवृत्तिनिमित्तलक्षणं
न सर्वप्रयोगानुगुणम्यथोक्तेषु ईश्वरशरीरतया अभिहितेषु पृथिव्यादिषु अव्याप्तेः ।
किञ्च +ईश्वरस्य इच्छाविग्रहेषु
मुक्तानां च “स एकधा भवति” इत्यादिवाक्यावगतेषु विग्रहेषु
तल्लक्षणं अव्याप्तम्कर्मफलयोगनिमित्तत्वाभावात्,
तेषाम्परमपुरुषेच्छाविग्रहाच्च
न पृथिव्यादिभूतसङ्घातविशेषाः,
“न भूतसङ्घसंस्थानो
देहोऽस्य परमात्मनः”
इति स्मृतेः ।
अतो भूतसङ्घात-रूपत्वं च शरीरस्याव्याप्तम्।
पञ्चवृत्तिप्राणाधीनधारणत्वं च
स्थावरशरीरेष्वव्याप्तम्।
स्थावरेषु हि प्राणसद्भावेऽपि
तस्य पञ्चधा अवस्थाय शरीरस्य धारकत्वेनावस्थानं नास्ति ।
अहल्यादीनां कर्मनिमित्तशिलाकाष्ठादिशरीरेष्विन्द्रियाश्रयत्वं च सुखदुःखहेतुत्वं चाव्याप्तम्।
अतो
यस्य चेतनस्य यद् द्रव्यं
सर्वात्मना स्वार्थे नियन्तुं धारयितुं च शक्यं
तच्-छेषतैक-स्वरूपं च
तत् तस्य शरीरम्
इति शरीर-लक्षणम् आस्थेयम् ।
रुग्ण-शरीरादिषु नियमनाद्य्-अदर्शनं
विद्यमानाया एव नियमन-शक्तेः-प्रतिबन्ध-कृतम्,
अग्न्य्-आदेः शक्ति-प्रतिबन्धाद् औष्ण्याद्य्-अदर्शनवत् ।
मृत-शरीरं च चेतन-वियोग-समय एव
विशरितुम् आरब्धम्,
क्षणान्तरे च विशीर्यते ।
पूर्वं शरीरतया परिक्लृप्त–सङ्घातैक-देशत्वेन च
तत्र शरीरत्व-व्यवहारः,
अतः सर्वं परम-पुरुषेण
सर्वात्मना स्वार्थे नियाम्यं धार्यं तच्छेषतैक-स्वरूपम्
इति सर्वं चेतनाचेतनं तस्य शरीरम् ।
“अशरीरं शरीरेषु” इत्यादि च
कर्म-निमित्त-शरीर-प्रतिषेध-परम् -
यथोक्त-सर्व-शरीरत्व-श्रवणात्,
उपरितनाधिकरणेषु चैतद् उपपादयिष्यते ।
“अपीतौ तद्वत् प्रसङ्गाद् असमञ्जसम्”
“न तु दृष्टान्तभावात्”
इति सूत्रद्वयेन
“इतर-व्यपदेशात्” इत्य्-अधिकरण-सिद्धोऽर्थः स्मारितः ॥
न केवलं ब्रह्म-कारण-वादस्य निर्दोषतयैतत् समाश्रयणम्;
प्रधान-कारण-वादस्य दुष्टत्वाच् च
तत्-परित्यज्यैतद् एव समाश्रयणीयम् । प्रधानकारणवादे हि जगत्प्रवृत्तिर्नोपपद्यते । तत्र हि निर्विकारस्य चिन्मात्रैकरसस्य पुरुषस्य प्रकृतिसन्निधानेन प्रकृतिधर्माध्यासनिबन्धना जगत्प्रवृत्तिः । निर्विकारस्य चिन्मात्ररूपस्य प्रकृतिधर्माध्यासहेतुभूतं प्रकृतिसन्निधानं किंरूपमिति विवेचनीयम् । किं प्रकृतेः सद्भाव एव, उत तद्गतः कश्चिद्विकारः, अथ पुरुषगत एव कश्चिद्विकारः । न तावत्पुरुषगतः, अनभ्युपगमात् । नापि प्रकृतेर्विकारः, तस्याध्यासकार्यतयाऽभ्युपेतस्याध्यासहेतुत्वासम्भवात्; सद्भावमात्रस्य सन्निधानत्वे मुक्तस्याप्यध्यासप्रसङ्ग इति त्वत्पक्षे जगत्प्रवृत्तिर्नोपपद्यते । अयमर्थः साङ्ख्यपक्षप्रतिक्षेपसमये “अभ्युपगमेऽप्यर्थाभावात्” इत्यादिना प्रपञ्चयिष्यते ॥
तर्कस्याप्रतिष्ठितत्वादपि श्रुतिमूलो ब्रह्मकारणवाद एव समाश्रयणीयः, न प्रधानकारणवादः । शाक्योलूक्याक्षपादक्षपणकपिलपतञ्जलितर्काणामन्योन्यव्याघातात्तर्कस्याप्रतिष्ठितत्वं गम्यते ॥
इदानीं विद्यमानानां शाक्यादीनां तर्कानुद्दूष्यान्यथा प्रधानकारणवादमतिक्रान्ततदुपदर्शितदूषणत्वेनानुमास्यामह इति चेत्, एवमपि पुरुषबुद्धिमूलतर्कैकावलम्बनस्य तथैव देशान्तरकालान्तरेषु त्वदधिककुतर्ककुशलपुरुषोत्प्रेक्षिततर्कदूष्यत्वसम्भावनया तर्काप्रतिष्ठानदोषादनिर्मोक्षो दुर्वारः, अतोऽतीन्द्रियेऽर्थे शास्त्रमेव प्रमाणम्, तदुपबृंहणायैव तर्क उपादेयः, तथा चाह “आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्काणानुसन्धत्ते स धर्मं वेद नेतरः” इति । वेदाख्यशास्त्राविरोधिनेत्यर्थः । अतो वेदविरोधित्वेन वेदार्थविशदीकरणरूप
वेदोपबृंहणतर्कोपादानाय साङ्ख्यस्मृतिर्नादरणीया । ॥ विलक्षणत्वाधिकरणं समाप्तम् ॥