एतेन कापिलस्मृतिनिराकरणेन योगस्मृतिरपि प्रत्युक्ता ।
का पुनरत्राधिकाशङ्का, यन्निराकरणाय न्यायातिदेशः, योगस्मृतावपीश्वराभ्युपगमान्मोक्षसाधनतया वेदान्तविहितयोगस्य चाभिधानात् वक्तुर्हिरण्यगर्भस्य सर्ववेदान्तप्रवर्तनाधिकृतत्वाच्च तत्स्मृत्या वेदान्तोपबृंहणं न्याय्यमिति ।
परिहारस्तु- अब्रह्मात्मकप्रधानकारणवादान्निमित्तकारणमात्रेश्वराभ्युपगमात् ध्यानात्मकस्य योगस्य ध्येयैकनिरूपणीयस्य ध्येयभूतयोरात्मेश्वरयोर्ब्रह्मात्मकत्वजगदुपादानतादिसर्वकल्याणगुणात्मकत्वविरहेणावैदिकत्वाद्वक्तुर्हिरण्यगर्भस्यापि क्षेत्रज्ञभूतस्य कदाचिद्रजस्तमोऽभिभवसम्भवाच्च योगस्मृतिरपि तत्प्रणीतरजस्तमोमूलपुराणवद्भ्रान्तिमूलेति न तया वेदान्तोपबृंहणं न्याय्यमिति ॥
इति योगप्रत्युक्त्यधिकरणम् ॥