प्रथमाध्याये प्रत्यक्षादिप्रमाणगोचरादचेतनात् तत्संसृष्टात्तद्वियुक्ताच्च चेतनात् अर्थान्तरभूतं निरस्तनिखिलाविद्याद्यपुरुषार्थगन्धं अनन्तज्ञानानन्दैकतानं अपरिमितोदारगुणसागरं निखिलजगदेककारणं सर्वान्तरात्मभूतं ब्रह्म वेदान्तवेद्यमित्युक्तम् ।
अनन्तरमस्यार्थस्य सम्भावनीयसमस्तप्रकारदुर्धर्षणत्वप्रतिपादनाय द्वितीयोऽध्याय आरभ्यते ।
प्रथमं तावत् कपिलस्मृतिविरोधाद्वेदान्तानां अतत्परत्वमाशङ्कय तन्निराक्रियते ।
कथं स्मृतिविरोधाच्छ्रुतेरन्यपरत्वम् ?
उक्तं हि “विरोधे त्वनपेक्ष्यं स्यात्”
इति श्रुतिविरुद्धायाः स्मृतेरनादरणीयत्वम् ।
सत्यम्, “औदुम्बरीं स्पृष्ट्वोद्गायेत्” इत्यादिषु स्वत एवार्थनिश्चयसम्भवात् तद्विरुद्धा स्मृतिरनादरणीयैव; इह तु वेदान्तवेद्यतत्त्वस्य दुरवबोधत्वेन परमर्षिप्रणीतस्मृतिविरोधे सति अयमर्थ इति निश्चयात् योगास्मृत्या श्रुतेरतत्परत्वोपपादनमविरुद्धम् ।
एतदुक्तं भवति - प्राचीनभागोदितनिखिलाभ्युदयसाधनभूताग्निहोत्रदर्शपूर्णमासज्योतिष्टोमादिकर्माणि यथावदभ्युपगच्छता श्रुतिस्मृतीतिहासपुराणेषु “ऋषिं प्रसूतं कपिलम्” इत्यादिवाक्यैराप्तत्वेन सङ्कीर्तितेन परमर्षिणा कपिलेन परमनिःश्रेयसतत्साधनावबोधित्वेन उपनिबद्धस्मृत्युपबृंहणेन विना अल्पश्रुतैर्मन्दमतिभिः वेदान्तार्थनिश्चयायोगात् यथाश्रुतार्थग्रहणे चाप्तप्रणीतायास्साङ्ख्यस्मृतेः सकलाया एव अनवकाशप्रसङ्गाच्च स्मृतिप्रसिद्ध एवार्थो वेदान्तवेद्य इति बलादभ्युपगमनीयमिति ।
न च वाच्यं मन्वादिस्मृतीनां ब्रह्मैककारणत्ववादिनीनामेवं सत्यनवकाशत्वदोषप्रसङ्ग इति; धर्मप्रतिपादनपरप्राचीनभागोपबृंहण एव सावकाशत्वात् ।
अस्यास्तु कृत्स्नाया स्तत्त्वप्रतिपादनपरत्वात्तथानभ्युपगमे निरवकाशत्वमेव स्यात् ।
तदिदमाशङ्कते - स्मृत्यनवकाशदोषप्रसङ्ग इति चेदिति ।
तत्रोत्तरम्- नान्यस्मृत्यनवकाशदोषप्रसङ्गादिति ।
अन्या हि मन्वादिस्मृतयो ब्रह्मैककारणतां वदन्ति; यथाह मनुः - “आसीदिदं तमोभूतम्” इत्यारभ्य “ततः स्वयम्भूर्भगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः” “सोऽभिध्याय शरीरात्स्वात् सिसृक्षुविर्विधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यमपासृजत्"इति ।
भगवद्गीतासु च “अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा” “अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते” इति च ।
महाभारते “कुतः सृष्टमिदं सर्वं जगत्स्थावरजङ्गमम् । प्रलये च कमभ्येति तन्मे ब्रूहि पितामह” इति पृष्ट आह “नारायणो जगन्मूर्तिरनन्तात्मा सनातनः” इति । तथा “तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम” इति, “अव्यक्तं पुरुषे ब्रह्मन्निष्क्रिये सम्प्रलीयते” इति च ।
आह च भगवान्पराशरः “विष्णोस्सकाशादुद्भूतं जगत्तत्रैव च स्थितम्, स्थिति-संयमकर्ता ऽसौ जगतोऽस्य जगच्च सः” इति ।
आह चापस्तम्बः “पूः प्राणिनः सर्व एवगुहाशयस्य अहन्यमानस्य विकल्मषस्य” इत्यारभ्य “तस्मात्कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकस्स नित्यः” इति ।
यदि कपिलस्मृत्या वेदान्तवाक्यार्थव्यवस्था स्यात्, तदैतासां सर्वासां स्मृतीनामनवकाशत्वरूपा महान् दोषः प्रसज्येत ।
अयमर्थः- यद्यपि वेदान्तवाक्यानाम् अतिक्रान्तप्रत्यक्षादिसकलेतरप्रमाणसम्भावनाभूमिभूतार्थप्रतिपादनपरत्वात् तत्तदर्थवैशद्यायाल्पश्रुतानां तदर्थानुसारिणीनामाप्ततमप्रणीतानां बह्वीनां स्मृतीनां तदुपबृंहणाय प्रवृत्तानामनवकाशत्वं मा प्रसाङ्क्षीदिति श्रुतिविरुद्धार्था कपिलस्मृतिरुपेक्षणीया ।
उपबृंहणं च श्रुतिप्रतिपन्नार्थविशदीकरणम्; तच्च विरुद्धार्थया स्मृत्या न शक्यते कर्तुम् ।
न चैतासां स्मृतीनां प्राचीनभागोदितधर्मांशविशदीकरणेन सावकाशत्वम्; परब्रह्मभूतपरमपुरुषाराधनत्वेन धर्मान्विदधतीनामेतासामाराध्य भूतपरमपुरुषप्रतिपादनाभावे सति तदाराधनभूतधर्मप्रतिपादनासम्भवात् ।
तथा हि परमपुरुषाराधनरूपता सर्वेषां कर्मणां स्मर्यते
“यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः”
“ध्यायेन्नारायणं देवं स्नानादिषु च कर्मसु ।
ब्रह्मलोकमवाप्नोति न चेहावर्तते पुनः”
“यैस्स्वकर्मपरैर्नाथ नरैराराधितो भवान् ।
ते तरन्त्यखिलामेतां मायामात्मविमुक्तये”
इति ।
न चैहिकामुष्मिकसांसारिकफलसाधनकर्मप्रतिपादनेनतासां सावकाशत्वम्; यतस्तेषामपि कर्मणां परमपुरुषाराधनत्वमेव स्वरूपम्;
यथोक्तं “येऽप्यन्यदेवताभक्तता यजन्ते श्रद्धयाऽन्विताः । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् । अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्तिते” इति;
तथा “यज्ञैस्त्वमिज्यसे नित्यं सर्वदेवमयाच्युत । हव्यकव्यभुगेकस्त्वं पितृदेवस्वरूपधृक्” इति ।
यदुक्तं “ऋषिं प्रसूतं कपिलम्” इति कपिलस्याप्ततया सङ्कीर्तनात्तत्स्मृत्यनुसारेण वेदान्तार्थव्यवस्तापनं न्याय्यमिति; तदसत्, बृहस्पतेः श्रुतिस्मृतिषु सर्वेषामतिशयितज्ञानानां निदर्शनत्वेन सङ्कीर्तनात्तत्प्रणीतेन लोकायतेन श्रुत्यर्थव्यवस्थापनप्रसक्तेरिति ।
अथ स्यात्, कपिलस्य स्वयोगमहिम्ना वस्तुयाथात्म्योपलब्धेस्तत्स्मृत्यनुसारेण वेदान्तार्थो व्यवस्थापयितव्य इति; अत उत्तरं पठति -
चशब्दस्तुशब्दार्थश्चोदिताशङ्कानिवृत्त्यर्थः ।
इतरेषाम्- मन्वादीनां बहूनां स्वयोगमहिमसाक्षात्कृतपरावरतत्त्वयाथात्म्यानां निखिलजगद्भेषजभूतस्ववाक्यतया “यद्वै किञ्चन मनुरवदत्तद्भेषजम्” इति श्रुतिप्रसिद्धानां कपिलदृष्टप्रकारेण तत्त्वानुपलब्धेः श्रुतिविरुद्धाकपिलोपलब्धिर्भ्रान्तिमूलेति न तया यथोक्ता वेदान्तार्थश्चालयितुं शक्य इति सिद्धम् ॥ इति स्मृत्यधिकरणम् ॥