35 सर्वव्याख्यानाधिकरणम्

एतेन- पादचतुष्टयोक्तन्यायकलापेन । सर्ववेदान्तेषु जगत्कारणप्रतिपादनपराः सर्वे वाक्यविशेषाश्चेतनाचेतनविलक्षणसर्वज्ञसर्वशक्तिब्रह्मप्रतिपादनपरा व्याख्याताः ।

व्याख्याता इतिपदाभ्यासोऽध्यायपरिसमाप्तिद्योतनार्थः ॥ इतिश्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये प्रथमस्याध्यायस्य चतुर्थः पादः ॥ समाप्तश्चाध्यायः ॥