34 प्रकृत्यधिकरणम्

एवं निरीश्वरसाङ्ख्ये निरस्ते सति सेश्वरसाङ्ख्यः प्रत्यवतिष्ठते- यद्यपि ईक्षणादिगुणयो

गात्सर्वज्ञमीश्वरं जगत्कारणत्वेन वेदान्ताः प्रतिपादयन्ति; तथापि वेदान्तैरेव जगदुपादानतया प्रधानमेव प्रतिपाद्यत इति प्रतीयते । नहि वेदान्ताः सर्वज्ञस्यापरिणामिनोऽधिष्ठातुरीश्वरस्याधिष्ठेयेनाचेतनेन परिणामिना प्रधानेन विना

जगतः कारणत्वमवगमयन्ति । तथा ह्यपरिणामिनमेवैनं प्रकृतिं चैतदधिष्ठितां परिणामिनीमधीयते " निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्" “स वा एष महानज आत्माऽजरोऽमरः” विकारजननीमज्ञामष्टरूपामजां ध्रुवाम्" ध्यायतेऽध्यासिता तेन तन्यते प्रेर्य्यते पुनः। सूयते पुरुषार्थं च तेनैवाधिष्ठिता जगत्" “गौरनाद्यन्तवती सा जनित्री भूतभाविनी” इति । तथा प्रकृतिमुपादान भूतामधिष्ठायैवेश्वरो विश्वं जगत्सृजतीति

श्रूयते “अस्मान्मायी सृजते विश्वमेतत्” “मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्” इति । स्मृतिरपि “मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम्” इति । एवमश्रुतेऽपि प्रधानोपादानत्वे ब्रह्मणो जगत्कारणत्वश्रुत्यन्यथानुपपत्त्यैव प्रधानस्वरूपं तस्येश्वराधिष्ठितस्य जगदुपादानत्वं च सिध्यति । एवमेव हि लोके निमित्तोपादानयोरत्यन्तभेदो दृश्यते । मृत्सुवर्णादेरचेतनस्य घटकटकाद्युपादानत्वं चेतनस्य कुलालसुवर्णकारादेर्निमित्तत्वं च

नियतमुपलभ्यते । कार्यनिष्पत्तिश्च नियमेन अनेककारकसव्यपेक्षा दृष्टा । एवं निमित्तोपादानयोः र्भेदनियमं कार्यनिष्पत्तेः अनेककारकसव्यपेक्षत्वनियमञ्चातिक्रम्य एकमेव ब्रह्मोपादानं निमित्तञ्च प्रतिपादयितुं न प्रभवन्ति वेदान्तवाक्यानि । अतः ब्रह्म निमित्तकारणमेव, नोपादानम् । उपादानं तु तदधिष्ठितं प्रधानमेवेति । एवं प्राप्ते अभिधीयते - प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधादिति । प्रकृतिश्च - उपादानञ्च । न निमित्तकारणमात्रं ब्रह्म, उपादानकारणञ्च ब्रह्मैवेत्यर्थः। कुतः ? प्रतिज्ञादृष्टान्तानुपरोधात् । एवमेव हि प्रतिज्ञादृष्टान्तौ नोपरुध्येते ।

प्रतिज्ञा तावत् “स्तव्धोऽस्युत तमादेशमप्राक्ष्यः येनाश्रुतं श्रुतं भवति अमतं मतं, अविज्ञानं विज्ञातम्” इत्येकविज्ञानेन सर्वविज्ञानविषया । दृष्टान्तश्च “यथा सोम्यैकेन लोहमणिना” “यथा सौम्यैकेन नखकृन्तनेन” इति कारण

विज्ञानात् कार्यविज्ञानविषयः । यदि निमित्तकारणमेव जगतो ब्रह्म, तदा तद्विज्ञानान्न समस्तं जगद्विज्ञातं

स्यात् । न हि कुलालादि-विज्ञानेन घटादिर्विज्ञायते; अतः प्रतिज्ञादृष्टान्तयोर्बाध एव । ब्रह्मण एवोपादानत्वे

उपादानभूतमृत्पिण्डलोहमणिनखनिकृन्तनविज्ञानेन घटमणिककटकमुकुटवासीपरश्वधादिवत्कार्यविज्ञानवन्निखिलजगदुपादानभूते ब्रह्मणि विज्ञाते तत्कार्यं निखिलं जगद्विज्ञातं स्यात् । कारणमेवावस्थान्तरापन्नं कार्यं, न द्रव्यान्तरमिति कार्यकारणरूपेरावस्थितमृत्तद्विकारादिनिदर्शनेन प्रतिज्ञासमर्थनात् ब्रह्मैव जगदुपादानं चेति निश्चीयते । यत्तु निमित्तोपादानयोर्भेदः श्रुत्यैव प्रतीयत इति तदसत्; निमित्तोपादानयोरैक्यप्रतीतेः “उत तमादेशमप्राक्ष्यः येनाश्रुतं श्रुतं भवति” इति । आदिश्यते प्रशिष्यतेऽनेनेत्यादेशः, “एतस्य वा अक्षरस्य प्रशासने गार्गि” इत्यादिश्रुतेः । साधकतमत्वेन कर्त्ता विवक्षितः । तमादेष्टारमप्राक्ष्यः, येनाश्रुतं श्रुतं भवति येनादेष्ट्रा अधिष्ठात्रा श्रुतेनाऽश्रुतमपि श्रुतं भवतीति निमित्तोपादानयोरैक्यं प्रतीयते, “सदेव सोम्येदमग्र आसीदेकमेव” इति प्राक् सृष्टेरेकत्वावधारणादद्वितीयपदेनाधिष्ठात्रन्तरनिवारणाच्च । नन्वेवं सति “विकारजननीम्” गौरनाद्यन्तवती"

इत्यादिभिः प्रकृतेयाद्यन्तविरहेण नित्यत्वं जगदुपादानत्वं च श्रूयमाणं

कथमुपपद्यते ? तदुच्यते ; तत्राप्यविभक्तनामरूपं कारणावत्थं ब्रह्मैव प्रकृतिशब्देनाऽभिधीयते, ब्रह्मव्यति रिक्तवस्त्वन्तराभावात् । तथाहि श्रुतयः “सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद” “यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्” इत्याद्याः, “सर्वं खल्विदं ब्रह्म” ऐतदात्म्यमिदं सर्वम्" इति कार्यावस्थं कारणावस्थं च सर्वं जगद्ब्रह्मात्मकमिति श्रवणाच्च । एतदुक्तम्भवति “यः पृथिवीमन्तरे सञ्चरन् यस्य पृथिवी शरीरं यं पृथिवी न वेद” इत्यारभ्य “योऽव्यक्तमन्तरे सञ्चरन् यस्याव्यक्तं शरीरं यमव्यक्तं न वेद योऽक्षरमन्तरे सञ्चरन् यस्याक्षरं शरीरं यमक्षरं न वेद” “यः पृथिव्यां तिष्ठन् पृथिव्यान्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति” इत्यारभ्य “य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्मान्तर्याम्यमृतः” इति च सर्वचिदचिद्वस्तुशरीरतया सर्वदा सर्वात्मभूतं परं ब्रह्म कदाचिद्विभक्तनामरूपम् , कदाचिच्चाविभक्तनामरूपम्; यदा विभक्तनामरूपम् तदा तदेव बहुत्वेन कार्य्यत्वेन चोच्यते; यदा चाविभक्तनामरूपं तदैकमद्वितीयं कारणमिति च । एवं सर्वदा चिदचिद्वस्तुशरीरस्य परस्य ब्रह्मणोऽविभक्तनामरूपाया कारणावस्था सा “गौरनाद्यन्तवती” “विकारजननीमज्ञाम्” “अजामेकाम्” इत्यादिभिरभिधीयत इति । ननु च “महानव्यक्ते लीयते अव्यक्तमक्षरे लीयते” इति प्रलयश्रुतेरव्यक्तस्योत्पत्तिप्रलयौ प्रतीयते; तथा च महाभारते “तस्मादव्यक्तमुत्पन्नं निगुणं द्विजसत्तम, “अव्यक्तं पुरुषे ब्रह्मन्निष्क्रिये सम्प्रलीयते” इति । नैष दोषः, अचिद्वस्तुशरीरस्य

ब्रह्मणोऽव्यक्तशब्दवाच्यायास्त्रिगुणावस्थायाः कार्यत्वात् । “यदा तमस्तन्न दिवा

न रात्रिः” इति कृत्स्नप्रलयदशायामपि ब्रह्मात्मकस्यातिसूक्ष्मस्याचिद्वस्तुनः स्थित्यभिधानाज्जगत्कारणस्य परस्य ब्रह्मणः प्रकारभूतमतिसूक्ष्मं चाचिद्वस्तु नित्यमेवेति तत्प्रकारं ब्रह्मैव “गौरनाद्यन्तवती” इत्यादिष्वभिधीयते । अत एव च “अक्षरं तमसि लीयते तमः परे देव एकीभवति” इति तमस एकीभावमात्रमेव श्रूयते, न तु लयः । एकीभाव इति तमोभिधानातिसूक्ष्माचित्प्रकारस्य ब्रह्मणोऽविभक्तनामरूपतयाऽवस्थानमभिधीयते । “तम आसीत्तममा गूढमग्रे प्रकेतं तमसस्तन्महिनाजायतैकम्” इत्याद्यप्येतदेव वदति । तथाच मानवं वचः “आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः” इति । “अस्मन्मायी सृजते विश्वमेतत्” इत्याद्यनन्तरमेवोपपादयिष्यते; ब्रह्मणोऽपरिणामित्वश्रुतयश्च । यत्त्वेकस्य निमित्तत्वमुपादानञ्च न सम्भवति, एककारकनिष्पाद्यत्वं च कार्यस्य; लोके तथा नियमदर्शनात्; अतोऽग्निना सिञ्चेदितिवद्वेदान्तवाक्यान्येकस्मादेवोत्पत्तिं प्रतिपादयितुं न प्रभवन्तीति । अत्रोच्यते - सकलेतरविलक्षणस्य परस्य ब्रह्मणस्सर्वशक्तेस्सर्वज्ञस्यैकस्यैव सव्रमुपपद्यते । मृदादेरचेतनस्य ज्ञानाभावेनाधिष्ठातृत्वायोगादधिष्ठातुः कुलालादेविर्चित्रपरिणामशक्तिविरहादसत्यसङ्कल्पतया च तथा दर्शननियमः ; अतो ब्रह्मैव जगतो निमित्तमुपादानं च ॥ 23 ॥

इतश्चोभयं ब्रह्मैव “सोऽकामयत बहुस्यां प्रजायेयेति " “तदैक्षत बहु स्यां प्रजायेय” इति स्रष्टुर्ब्रह्मणः स्वस्यैव बहुभवनसङ्कल्पोपदेशात् । विचित्रचिदचिद्रूपेणाहमेव बहु स्यां तथा प्रजायेयेति सङ्कल्पपूर्विका हि सृष्टिरुपदिश्यते ॥

न केवलं प्रतिज्ञादृष्टान्ताभिध्योपदेशादिभिरयमर्थो निश्चीयते, ब्रह्मण एव निमित्तत्वमुपादानत्वञ्च साक्षादाम्नायते “किंस्विद्वनं क उ स वृक्ष आसीद्यतोद्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा पृच्छतेदुतद्यदध्यतिष्ठद्भुवनानि धारयन् । ब्रह्म वनं ब्रह्म स वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा विब्रवीमि वो ब्रह्माध्यतिष्ठद्भुवनानि धारयन्” इति । अत्र हि स्रष्टुर्ब्रह्मणः किमुपादानं कानि चोपकरणानीति लोकदृष्टया पृष्टे सकलेतरविलक्षणस्य ब्रह्मणः सर्वशक्तियोगो न विरुद्ध इति ब्रह्मैवोपादानमुपकरणानि चेति परिहृतम् ; अतश्चोभयं ब्रह्म ॥ 25 ॥

“सोऽकामयत बहु स्यां प्रजायेय” इति सिसृक्षुत्वेन प्रकृतस्य ब्रह्मणः “तदात्मानं स्वयमकुरुत” इति सृष्टेः कर्मत्वं कर्तृत्वञ्च प्रतीयत इत्यात्मन एव बहुत्वकरणात्तस्यैव निमित्तत्वमुपादानत्वञ्च प्रतीयते । अविभक्तनामरूप आत्मा कर्त्ता, स एव विभक्तनामरूपः कार्यमिति कर्तृत्वकर्मत्वयोर्न विरोधः । स्वयमेवात्मानं तथाऽकुरुतेति निमित्तमुपादानऽञ्च ।

“सत्यं ज्ञानमनन्तं ब्रह्म” “आनन्दो ब्रह्म” “अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः” “निष्कलं

निष्क्रियं शान्तं निरवद्यं निरञ्जनम्” " स वा एष महानज आत्माऽजरोऽमरः” इति स्वभावतो निरस्तसमस्तचेतनाचेतनवत्तिर्दोषगन्धस्यनिरतिशयज्ञानानन्दैकतानस्य परस्य ब्रह्मणो विचित्रानन्तापुरुषार्थास्पदपूर्वोक्ता चिदचिन्मिश्रप्रपञ्चरूपेणात्मनो बहुभवनसङ्कल्पपूर्वकं बहुत्वकरणं कथमुपपद्यत इत्याशङ्कयाह ।

incomplete?

परिणामस्वाभाव्यात्; नात्रोपदिश्यमानस्य परिणामस्य परस्मिन् ब्रह्मणि दोषावहत्वं स्वभावः, प्रत्युतनिरङ्कुशैश्वर्यावहत्वमेवेत्यभिप्रायः । एवमेव हि परिणाम उपदिश्यते; अशेषहेयप्रत्यनीककल्याणैकतानं स्वेतरसमस्तवस्तुविलक्षणं सर्वज्ञं सत्सङ्कल्पमवाप्तसमस्तककाममनवधिकातिशयानन्दं स्वलीलोपकरणभूतसमस्तचिदचिद्वस्तुजातशरीरतया तदात्मभूतं परं ब्रह्म स्वशरीरभूते प्रपञ्चे तन्मात्राहङ्कारादिकारणपरम्परया तमश्शब्दवाच्यातिसूक्ष्माचिद्वस्त्वेकशेषे सति, तमसि च स्वशरीरतयापि पृथङ्िनर्देशानर्हातिसूक्ष्मदशापत्त्या स्वस्मिन्नेकतामापन्ने सति तथाभूततमश्शरीरं ब्रह्म पूर्ववद्विभक्तनामरूपचिदचिन्मिश्रप्रपञ्चशरीरं स्यामिति सङ्कल्प्याप्ययक्रमेण जगच्छरीरतया आत्मानं परिणमयतीति सर्वेषु वेदान्तेषु परिणामोपदेशः । तथैव बृहदारण्यके कृत्स्नस्य जगतो ब्रह्मशरीरत्वं ब्रह्मणस्तदात्मत्वं चाम्नायते “यःपृथिव्यां तिष्ठन्पृथिव्या अन्तरो

यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः” इत्यारभ्य “यस्यापश्शरीरम्” “यस्याग्निश्शरीरम्” “यस्यान्तरिक्षं शरीरम्” “यस्य वायुः शरीरम्” “यस्य द्यौः शरीरम्” “यस्यादित्यः शरीरम्” “यस्य दिशः शरीरम्” “यस्य चन्द्रतारकं शरीरम्” “यस्याकाशः शरीरम्” “यस्य तमः शरीरम्” “यस्य तेजः शरीरम्” “यस्य सर्वाणि भूतानि शरीरम्” “यस्य प्राणः शरीरम्” “यस्य वाक् शरीरम्” “यस्य चक्षुः शरीरम्” “यस्य श्रोत्रं शरीरम्” “यस्य मनः शरीरम्” “यस्य त्वक् शरीरम्” “यस्य विज्ञानं शरीरम्” “यस्य रेतः शरीरम्” इत्येवमन्तेन काण्वपाठे; माध्यदिने तु पाठे विज्ञानस्य स्थाने “यस्यात्मा शरीरम्” इति विशेषः ।

लोकयज्ञवेदानां परमात्मशरीरत्वमधिकम् । सुबालोपनिषदि च पृथिव्यादानां तत्त्वानां परमात्मशरीरत्वमभिधाय वाजसनेयकेऽनुक्तानामपि तत्त्वानां शरीरत्यं ब्रह्मण आत्मत्वञ्च श्रूयते “यस्य बुद्धिः शरीरम्” “यस्याहङ्कारः शरीरम्” “यस्य चित्त शरीरम्” “यस्याव्यक्तं शरीरम्” “यस्याक्षरं शरीरम्” “यो मृत्युमन्तरे सञ्चरन् यस्य मृत्युः शरीरं यं मृत्युर्न वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः” इति । अत्र मृत्युशब्देन परमसूक्ष्ममचिद्वस्तुतमश्शब्दवाच्यमभिधीयते, “अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते” इति तस्यामेवोपनिषदि क्रमप्रत्यभिज्ञानात् । सर्वेषामात्मनां ज्ञानावरणानर्थमूलत्वेन तदेव हि तमो मृत्युशब्दव्यपदेश्यम् । सुबालोपनिषद्येव ब्रह्मशरीरतया तदात्मकानां तत्त्वानां ब्रह्मण्येव प्रलय आम्नायते “पृथिव्यप्सु प्रलीयते आपस्तेजसि लीयन्ते तेजो वायौ लीयते वायुराकाशे लीयते आकाशमिन्द्रियेष्विन्द्रियाणि तन्मात्रेषु तन्मात्राणि

भूतादौ लीयन्ते भूतादिर्महति लीयते महानव्यक्ते लीयते अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते तमः परे देव एकीभवति” इति । अविभागापत्तिदशायामपि चिदचिद्वस्त्वतिसूक्ष्मं सकमर्संस्कारं तिष्ठतीत्त्युत्तरत्र वक्ष्यते “न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च” इति । एवं स्वस्माद्विभागव्यपदेशानर्हतया परमात्मनैकीभूतात्यन्तसूक्ष्मचिदचिद्वस्तुशरीरादेकस्मादेवाद्वितीयान्निरतिशयानन्दात्सर्वज्ञात्सत्यङ्कल्पाद्ब्रह्मणो नामरूपविभागार्हस्थूलचिदचिद्वस्तुशरीरतया बहुभवनसङ्कल्पपूर्वको जगदाकारेण परिणामः श्रूयते । “सत्यं ज्ञानमनन्तं ब्रह्म” “तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तरात्माऽऽनन्दमयः” “एष ह्येवानन्दयाति” “सोऽकामयत बहु स्यां प्रजायेयेति स तपोऽतप्यत स तपस्तप्त्वा इदं सर्वमसृजत यदिदं किञ्च तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्च त्यच्चाभवत् निरुक्तं चानिरुक्तं च निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यमभवत्” इति । अत्र तपश्शब्देन प्राचीनजगदाकारपर्यालोचनरूपं ज्ञानमभिधीयते “यस्य ज्ञानमयं तपः” इत्यादिश्रुतेः । प्राक्सृष्टं जगत्संस्थानमालोच्येदीनामपि तत्संस्थानं जगदसृजदित्यर्थः । तथैव हि ब्रह्म सर्वेषु

कल्पेष्वेकरूपमेव जगत्सृजति “सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् दिवं च पृथिवीं चान्तरिक्षमथो सुवः” “यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु” इति श्रुतिस्मृतिभ्यः । तदयमर्थः - स्वयमपरिच्छिन्नज्ञानानन्दस्वभावोऽत्यन्तसूक्ष्मतयाऽसत्कल्पस्वलीलोपकरणचिदचिद्वस्तुशरीरतया तन्मयः परमात्मा विचित्रानन्तक्रीडनकोपादित्सया स्वशरीरभूतप्रकृतिपुरुषसमष्टिपरंपरया महाभूतपर्यन्तमात्मानं तत्तच्छरीरकं परिणमय्य तन्मयः पुनस्सत्त्यच्छब्दवाच्यविचित्रचिदचिन्मिश्रदेवादिस्थावरान्तजगद्रूपोऽभवत् इति । “तदेवानुप्राविशत् तदनुप्रविश्य” इति कारणावस्थायामात्मतयावस्थितः परमात्मैव कायर्रूपेण विक्रियमाणद्रव्यस्याप्यात्मतयाऽवस्थाय तत्तदभवदित्युच्यते । एवं परमात्मचिदचित्सङ्घातरूपजगदाकारपरिणामे परमात्मशरीरभूतचिदंशगतास्सर्व एवापुरुषार्थः, तथाभूताचिदंशगताश्च सर्वे विकाराः, परमात्मनि

कार्यत्वम् ; तदवस्थयोस्तयोर्नियन्तृतयात्मभूतस्तद्गतापुरुषार्थैर्विकारैश्च न स्पृश्यते; अपरिच्छिन्नज्ञानानन्दमयस्सर्वदैकरूप एव जगत्परिवर्तनलीलयाऽवतिष्ठते । तदेतदाह “सत्यं चानृतञ्च सत्यमभवत्” इति । विचित्रचिदचिद्रूपेण विक्रियमाणमपि ब्रह्म सत्यमेवाभवत् , निरस्तनिखिलदोषगन्धमपच्छिन्नज्ञानानन्दमेकरूपमेवाभवदित्यर्थः । सर्वाणि चिदचिद्वस्तूनि सूक्ष्मदशापन्नानि स्थूलदशापन्नानि च परस्य ब्रह्मणो लीलोपकरणानि, सृष्टयादयश्च लीलेति भगवद्वैपायनपराशरादिभिरुक्तम् “अव्यक्तादिविशेषान्त परिणामर्द्धिसंयुतम् । क्रीडा हरेरिदं सर्वं क्षरमित्युपधार्यताम्” क्रीडतो बालकस्येव चेष्टां तस्य निशामय” “बालः क्रीडनकहरिव” इत्यादिभिः । वक्ष्यति च “लोकवत्तु लीलाकैवल्यम्” इति । “अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः” इति ब्रह्माणि जगद्रूपतया विक्रियमाणेऽपि तत्प्रकारभूताचिदंशगतास्सर्वे विकारास्तत्प्रकारभूतक्षेत्रज्ञगताश्चापुरुषार्था इति विवेक्तूुं प्रकृतिपुरुषयोर्ब्रह्मशरीरभूतयोस्तदानीं तथा निर्देशानर्हातिसूक्ष्मदशापत्त्या ब्रह्मणैकीभूतयोरपि भेदेन व्यपदेशः, “तदात्मानं स्वयमकुरुत” इत्यादिभिरैकार्थ्यात् । तथा च मानवं वचः “सोऽभिध्याय शरीरात्स्वात्सि

सृक्षुर्विविधाः प्रजाः । अप एव ससर्ज्जादौ तासु वीर्यमपासृजत्” इति अत एव ब्रह्मणो निर्दोषत्वनिर्विकारत्वश्रुतयश्चोपपन्नाः, अतो ब्रह्मैव जगतो निमित्तमुपादानञ्च ॥ 27 ॥

इतश्च जगतो निमित्तमुपादानञ्च ब्रह्म यस्माद्योनित्वेनाप्यभिधीयते “कर्त्तारमीशं पुरुषं ब्रह्मयोनिम्” इति; “यद्भूतयोनिं परिपश्यन्ति धीराः” इति च । योनिशब्दश्चोपादानवाचक इति “यथोर्णनाभिः सृजते गृह्यते च” इति वाक्यशेषादवगम्यते ॥ 28 ॥