अत्रापि कापिलतन्त्रसिद्धपुरुषतत्त्वावेदनपरं वाक्यं क्वचिद्दृश्यत इति तदतिरिक्त ईश्वरो नाम न कश्चित्सम्भवतीत्याशङ्कय निराकरोति । बृहदारण्यके मैत्रेयीब्राह्मणे श्रूयते “न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति” इत्यारभ्य “न वा अरे सर्वस्य कामाय सर्वं प्रियं
भवत्यात्मनस्तु कामाय सर्वं प्रियं भवत्यात्मा वा अरे द्रष्टव्यः श्रोतव्यो मंतव्यो निदिध्यासितव्यः मैत्रेय्यात्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम्” इति । तत्र संशयः- किमस्मिन् वाक्ये द्रष्टव्यतयोपदिश्यमानः तन्त्रसिद्धपुरुष एव ? अथवा सर्वज्ञः सत्यसङ्कल्पः सर्वेश्वर इति । किं युक्तम् ? पुरुष इति । कुतः ? आदिमध्यावसानेषु पुरुषस्यैव प्रतीतेः, उपक्रमे तावत्पतिजायापुत्रवित्तपश्वादिप्रियत्वयोज्जीवात्मैव प्रतीयते, मध्येऽपि “विज्ञानघन एवैतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञाऽस्ति” इत्युत्पत्तिविनाशयोगात्स एवावगम्यते । तथान्ते च “विज्ञातारमरे केन विजानीयात्” इति स एव ज्ञाता क्षेत्रज्ञ एव प्रतीयते, ने श्वरः, अतस्तन्त्रसिद्धपुरुषप्रतिपादनपरमिदं वाक्यमिति निश्चीयते । ननु “अमृतत्वस्य तु नाशाऽस्ति वित्तेन” इत्युपक्रमात् अमृतत्वप्राप्त्युपायोपदेशपरमिदं वाक्यमित्यवगम्यते, तत्कथं पुरुषप्रतिपादनपरत्वमस्य वाक्यस्य ।
तदुच्यते, अत एव ह्यत्र पुरुषप्रतिपादनम् , तन्त्रे ह्यचिद्धर्माध्यासवियुक्तपुरुषस्वरुपयाथात्म्यविज्ञानमेवामृतत्वहेतुत्वेनोच्यते, अतो जीवात्मनः प्रकृतिवियुक्तं स्वरूपमिहामृतत्वाय “आत्मा वा अरे द्रष्टव्यः” इत्यादि नोपदिश्यते । सर्वेषामात्मनां प्रकृतिवियुक्तं स्वरूपमेकरूपमिति प्रकृतिवियुक्तस्वात्मयाथात्म्यविज्ञानेन सर्व एवात्मानो विदिता भवन्तीत्यात्मविज्ञानेन सर्वविज्ञानमुपपन्नम् । देवादिस्थावरान्तेषु सर्वेषु भूतेष्वात्मस्वरूपस्य ज्ञानैकप्रकारत्वात् “इदं सर्वं यदयमात्मा” इत्यैकात्म्योपदेशः, देवाद्याकाराणामात्माकारत्वात् “सर्वं तं परदात्” इत्यादिनाऽन्यत्वनिषेधश्च । “यत्र हि द्वैतमिव भवति” इति च नानात्वनिषेधेनैकस्वरूपे ह्यात्मनि देवादिप्रकृतिपरिणामभेदेन नानात्वं मिथ्येत्युच्यते । “तस्य ह वा एतस्य महतो भूतस्य निश्वसितरमेतद्यदृग्वेदः” इत्याद्यपि प्रकृतेरधिष्ठातृत्वेन पुरुषनिमित्तत्वाज्जगदुत्पत्तेरुपपद्यते । एवमस्मिन् वाक्ये पुरुषपरे निश्चिते सति तदैकार्थ्यात् सर्वे वेदान्तास्तन्त्रसिद्धं पुरुषमेवाभिदधतीति तदधिष्ठिता प्रकृतिरेव जगदुपादानम् , नेश्वरः- इति ।
एवं प्राप्ते प्रचक्ष्महे - वाक्यान्वयादिति । सर्वेश्वर एवास्मिन्वाक्ये प्रतीयते । कुतः ? एवमेव हि वाक्याक्यवानामन्योन्यान्वयः समञ्जसो भवति । “अमृतत्वस्य तु नाशाऽस्ति वित्तेन” इति याज्ञवल्क्येनाभिहिते “येनाऽहं नामृता स्यां किमहं तेन कुर्य्यां यदेव भगवान् वेद तदेव मे ब्रूहि” इत्यमृतत्वानुपायतया वित्ताद्यनादराणामृतत्वप्राप्त्युपायमेव प्रार्थयमानायै मैत्रैय्यै तदुपायतया द्रष्टव्यतयोपदिष्टोऽयमात्मा परमात्मैव, “तमेवं विदित्वाऽतिमृत्युमेति” तमेवं विद्वानमृत इह भवति नान्यः पन्थाः" इत्यादिभिरमृतत्वस्य परमपुरुषवेदनैकोपायतया प्रतिपादनात् । परमपुरुषविभूतिभूतस्य प्राप्तुरात्मनः स्वरूपयाथात्म्यविज्ञानमपवर्गसाधनपरमपुरुषवेदनोपयोगितयाऽवगन्तव्यम् , न स्वत एवोपायत्वेन; अतोऽत्र परमात्मैवामृतत्वोपायतया द्रष्टव्यः" इत्यादिनोपदिश्यते । तथा “तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदः” इत्यादिना कृत्स्नस्य जगतः कारणत्वमुच्यमानं परमपुरुषादन्यस्य कर्मपरवशस्य मुक्तस्य निर्व्यापारस्य च पुरुषमात्रस्य न सम्भवति । तथा “आत्मनो वा अरे दर्शनेन " इत्यादिना एकविज्ञानेन सर्वविज्ञानमभिधीयमानं सर्वात्मभूते परमात्मन्येवावकल्पते । यत्त्वेतदेकरूपत्वादात्मनामेकात्मविज्ञानेन सर्वात्मविज्ञानमुच्यत इति, तदयुक्तम् ; अचेतनप्रपञ्चज्ञानाभावेन सर्वविज्ञानाभावात् । प्रतिज्ञोपपादनाय च “इदं ब्रह्मेदं क्षत्रम् " इत्युपक्रम्य” इदं सर्वं यदयमात्मा”
इति प्रत्यक्षादिसिद्धं चिदचिन्मिश्रं प्रपञ्चमिदमिति निर्द्दिश्यैतदयमात्मेत्यैकात्म्योपदेशश्च परमात्मन एवोपपद्यते न हीदंशब्दवाच्यं चिदचिन्मिश्रं जगत्पुरुषेणाचित्संसृष्टेन तद्वियुक्तेन स्वरूपेण वाऽवस्थितेन चैक्ममुपगच्छति; अत एव “सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद” इति व्यतिरिक्तत्वेन सर्ववेदननिन्दाञ्च; तथा प्रथमे च मैत्रेयीब्राह्मणे “महद्भूतमनन्तमपारम् " इति श्रुता महत्त्वादयो गुणाः परमात्मन एव सम्भवन्ति; अतस्य एवात्र प्रतिपाद्यते । यत्तूक्तं पतिजायापुत्रवित्तपश्वादिप्रियान्वयिनो जीवात्मन उपक्रमे त्वन्वेष्टव्यतया प्रतिपादनात्तद्विषयमेवेदं वाक्यमिति; तदयुक्तम् , आत्मनस्तु कामाय” इत्यात्मशब्देन जीवात्मसंशब्देन तस्य
“आत्मा वा अरे द्रष्टव्यः” इत्यनेनानन्वयप्रसङ्गात् । “आत्मा वा अरे द्रष्टव्यः” इत्यात्मनो द्रष्टव्यत्वोपयोगितया “आत्मनस्तु कामाय " इत्युपदिष्टमिति प्रतीयते । आत्मनस्तु कामाय - आत्मनः कामसंपत्तये; काम्यन्त इति कामाः, आत्मन इष्टसम्पत्तय इति यावत् । न च जीवात्मन इष्टसम्पत्तये पत्यादयः प्रिया भवन्तीत्युक्ते सति तस्य जीवस्य
स्वरूपमन्वेष्टव्यं भवति । प्रियमेव ह्यन्वेष्टव्यम् , न तु प्रियं प्रति शेषिणः प्रियवियुक्तं स्वरूपम्; यस्मादात्मन इष्टसम्पत्तये पत्यादयः प्रिया भवन्ति तस्मात्पत्यादिप्रियं परित्यज्य तद्वियुक्तमात्मस्वरूपमन्वेष्टव्यमित्यसङ्गतं भवति । प्रत्युत न पत्यादिशेषतया पत्यादीनां प्रियत्वम् , अपि त्वात्मनः शेषतया पत्यादीनां प्रियत्वमित्युक्ते स्वशेषतया त एवोपादेयाः स्युः । “आत्मनस्तु कामाय सर्वं प्रियं भवति” इत्यस्य परेणानन्वये वाक्यभेदः प्रसज्यते, अभ्युपगम्यमानेऽपि वाक्यभेदे पूर्ववाक्यस्य न किञ्चित्प्रयोजनं दृश्यते; अतः पत्यादि सर्वं प्रियं परित्यज्यात्मन एवान्वेष्टव्यत्वं यथा प्रतीयते तथा वाक्यार्थो वर्णनीयः, सोऽयमुच्यते “अमृतत्वस्य तु नाशाऽस्ति
वित्तेन” इति वित्तादीनां नित्यनिर्दोषनिरतिशयानन्दरूपामृतत्वप्राप्त्यनुपायतामुक्तवा वित्तपुत्रपतिजायादीनां सातिशयदुःखमिश्रकादाचित्कप्रियत्वमनुभूयमानं न पत्यादिस्रूपप्रयुक्तम् , अपि तु निरतिशयानन्दस्वभावपरमात्मप्रयुक्तम् ; अतो य एव स्वयं निरतिशयानन्दस्सन्नन्येषामपि प्रियत्वलेशास्पदत्वमापादयति स परमात्मैव द्रष्टव्य इत्युपदिश्यते । तदयमर्थः, न वा अरे पत्युः कामाय पतिः प्रियो भवति - न हि पतिजायापुत्रवित्तादयो मत्प्रयोजनायाहमस्य प्रियः स्यामिति स्वसङ्कल्पात्पि्रया भवन्ति, अपि त्वात्मनः कामाय, परमात्मनः स्वाराघकपि्रयप्रतिलम्भनरूपेष्टनिर्वृत्तय इत्यर्थः। परमात्मा हि कर्मभिराराधितस्तत्तत्त्कर्मानुगुणं प्रतिनियतदेशकालस्वरूपपरिमाणमाराधकानां तत्तद्वस्तुगतं प्रियत्वमापादयति “एष ह्येवानन्दयाति” इति श्रुतेः । न तु
त्मन एवाभिधानात् “आत्मनस्तु कामाय” “आत्मा वा अरे द्रष्टव्यः” इति पूर्वोक्तप्रक्रिययोभयत्रात्मशब्दावेकविषयौ॥मतान्तरेणापि जीवशब्देन परमात्माभिधानोपपादनायाह -
एकविज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धेिीदं लिङ्गम् , यज्जीवात्मवाचिशब्दैः परमात्मनोऽभिधानमित्याश्मरथ्य आचार्य्यो मन्यते स्म । यद्ययं जीवः परमात्मकार्य्यतया परमात्मैव न भवेत्तदा तद्य्वतिरिक्ततया परमात्मविज्ञानादेतद्विज्ञानं न सेत्स्यति । “आत्मा वा इदमेक एवाग्र आसीत्” इति प्राक्सृष्टेरेकत्वावधारणात् , “यथा सुदीप्तात्पावकाद्विस्फुलिङ्गास्सहस्रशः प्रभन्ते सरूपाः। तथाऽक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति” इत्यादिभिर्ब्रह्मणो जीवानामुत्मत्तिश्रवणात्तस्मिन्नेव लयश्रवणाच्च जीवानां ब्रह्मकार्य्यत्वेन ब्रह्मणैक्यमवगम्यते, अतो जीवशब्देन परमात्माभिधानमिति ॥
यदुक्तं जीवस्य ब्रह्मकार्य्यतया ब्रह्मणैक्येनैकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादनार्थं ब्रह्मणो जीवशब्देन प्रतिपादनमिति, तदयुक्तम्; “न जायते म्रियते वा विपश्चित्” इत्यादिनाऽजत्वश्रुतेर्जीवात्मनां प्राचीनकर्मफलभोगाय
जगत्सृष्टयभ्युपगमाच्च, अन्यथा विषमसृष्टयनुपपत्तेश्च ब्रह्मकार्यस्य जीवस्य ब्रह्मतापत्तिलक्षणो मोक्ष आकाशादिवदवजर्नीय इति तदुपायविधानानुष्ठानानर्थक्याच्च; घटादिवत्कारणप्राप्तेर्विनाशरूपत्वेन मोक्षस्यापुरुषार्थता च
जीवात्मन उत्पत्तिप्रलयवादोपपत्तिरुत्तरत्र प्रपञ्चयिष्यते; अतः “एष सम्प्रसादोऽस्माच्छरीरारात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणणाऽभिनिष्पद्यते” यथा नद्यः स्यन्दमानास्समुद्रेऽस्तं जच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्” इत्युत्क्रमिष्यतः परमात्मभावाज्जीवशब्देन परत्मनोऽभिधानमित्यौडुलोमिराचार्यो मन्यते ॥
यदुक्तमुत्क्रमिष्यतो जीवस्य ब्रह्मभावाद्ब्रह्मणस्तच्छब्देनाभिधानमिति, तदप्ययुक्तम्; विकल्पासहत्वात् । अस्य जीवात्मन उत्क्रान्तेः पूर्वमनेवम्भावः किं स्वाभाविकः, उत्तौपादिकः ? तत्रापि पारमार्थिकः, अपारमार्थिको वेति । स्वाभाविकत्वे ब्रह्मभावो नोपपद्यते, भेदस्य स्वरूपप्रयुक्तत्वेन स्वरूपे विद्यमाने तदनपायात् । अथ भेदेन सह स्वरूपमप्यपैतीति, तथा सति विनष्टत्वादेव तस्य न ब्रह्म इति भावः, अपुरुषार्थत्वादिदोषप्रसङ्गश्च । पारमार्थिकौपाधिकत्वे प्रागपि ब्रह्मैवेति “उत्क्रमिष्यत एवम्भावात् " इति विशेषो न युज्यते वक्तुम् । अस्मिन् पक्षे ह्युपाधिब्रह्मव्यतिरेकेण वस्त्वन्तराभावान्निरवयवस्य ब्रह्मण उपाधिना छेदाद्यसम्भवाच्चोपाधिगत एव भेद इत्युत्क्रान्तेः प्रागपि ब्रह्मैव । औपाधिकस्य भेदस्यापारमार्थिकत्वे कस्यायमुत्क्रान्तौ ब्रह्मभाव इति वक्तव्यम् ; ब्रह्मण एवाविद्योपाधितिरोहितस्वस्वरूपस्येति चेन्न, नित्यमुक्तस्वप्रकाशज्ञानस्वरूपस्याविद्योपाधितिरोघानासम्भवात् । तिरोधानं नाम वस्तुस्वरूपे विद्यमाने तत्प्रकाशनिवृत्तिः। प्रकाश एव वस्तुस्वरूपामित्यङ्गीकारे तिरोधानाभावः स्वरूपनाशो वा स्यात् ; अतो नित्याविर्भूतस्वस्वरूपत्वात्तस्योत्क्रान्तौ ब्रह्माभावे न कश्चिद्विशेष
इति “उत्क्रमिष्यतः” इति विशेषणं व्यर्थमेव ।“अस्माच्छरीरात्समुत्थाय” इति पूर्वमनेवंरूपस्य न तदानीं ब्रह्मतामत्तिमाह, अपि तु पूर्वसिद्धस्वरूपस्याविर्भावम् , तथाहि वक्ष्यते “सम्पद्याविर्भावस्स्वेन शब्दात्” इत्यादिभिः। अतः “अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि” इति “य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः” “योऽक्षरमन्तरे सञ्चरन् यस्याक्षरं शरीरं यमक्षरं न वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः” अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा” इति स्वशरीरभूते जीवात्मन्यात्मतयाऽवस्थितेर्जीवशब्देन ब्रह्मप्रतिपादनमिति काशकृत्स्न आचार्य्यो मन्यते स्म । जीवशब्दश्च जीवस्य परमात्मपर्यन्तस्यैव वाचको न जीवमात्रस्येति पूर्वमेवोक्तं “नामरूपे व्याकर
वाणि” इत्यत्र । एवमात्मशरीरभावेन तादात्म्योपपादेन परस्य ब्रह्मणोऽप्रहतपाप्मत्वसर्वज्ञत्वादिगोचराः जीवस्याविदुषः शोचतो ब्रह्मोपासनान्मोक्षवादिन्यो जगत्सृष्टिप्रलयाभिधायिन्यो जगतो ब्रह्मतादात्म्योपदेशपराश्च सर्वाः श्रुतयः सम्यगुपपादिना भवन्तीति काशकृत्स्नीयमेव मतं सूत्रकारः स्वीकृतवान् । अयमत्र वाक्यार्थः-
अमृतत्वोपाये मैत्रेय्या पृष्टे याज्ञवल्क्यः “आत्मा वा अरे द्रष्टव्यः” इत्यादिना परमात्मोपासनममृतत्वोपायमुक्तवा “आत्मनि स्वल्वरे दृष्टे” इत्यादिना उपास्यलक्षणं दुन्दुभ्यादिदृष्टान्तैश्चोपासनोप करणभूतमनः प्रभृतिकरणनिय
सामान्येनाभिधाय “स यथाऽऽर्द्रैधाग्नेः” इत्यादिना “स यथा सर्वासामपां समुद्र एकायनम् " इत्यादिना चोपास्यभूतस्य परस्य ब्रह्मणो निखिलजगदेककारणत्वं सकलविषयप्रवृत्तिमूलकरणग्रामनियमनञ्च विस्तीर्ण
मुपदिश्य “स यथा सैन्धवघनः” इत्यादिनाऽमृतत्वोपायप्रवृत्तिप्रोत्साहनाय जीवात्मस्वरूपेणावस्थितस्य परमात्मनोऽपरिच्छिन्नज्ञानैकाकारतामुपपाद्य तस्यैवापरिच्छिन्नज्ञानैकाकारस्य संसारदशायां भूतपरिणामानुवअत्तिं
“विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनस्यति” इत्यभिधाय “न प्रेत्य संज्ञास्ति” इति मोक्षदशायां स्वाभाविकापरिच्छिन्नज्ञानसङ्कोचाभावेन भूतसङ्घातैनैकीकृत्यात्मनि देवादिरूपज्ञानाभावमुक्तवा पुनरपि “यत्र
हि द्वैतमिव भवति” इत्यादिना अब्रह्मात्मकत्वेन नानाभूतवस्तुदर्शनमज्ञानकृतमिति निरस्तनिखिलाज्ञानस्य ब्रह्मात्मकं कृत्स्नं जगदनुभवतो ब्रह्मव्यतिरिक्तवस्त्वन्तराभावेन भेददशर्नं निरस्य “येनेदं सर्वं विजानाति तं केन विजानीयात् " इति च जीवात्मा स्वात्मतयाऽवस्थितेन येन परमात्मना आहितज्ञानस्सन् इदं सर्वं विजानाति अयं तं केन विजानीयात् , न
केनापीति परमात्मनो दुरवगमत्वमुपपाद्य “स एष नेति नेति” इत्यादिना अयं
सर्वेश्वरः स्वेतरसमस्तचिदचिद्वस्तुविलक्षक्षरूप एव सर्वशरीरस्सर्वात्मतयाऽवस्थित इति स्वशरीरभूतचिदचिद्वस्तुगतैर्दोषैनर् संस्पृश्तय इत्यभिधाय “विज्ञादारमरे केन विजानीयादित्युक्तानुशासनासि मैत्रेय्येतावदरे खल्वमृतत्वम्” इति समस्तवस्तुविसजातीयं निरस्तनिखिलजगदेककारणभूतं सर्वस्य विज्ञातारं पुरुषोत्तममुक्तप्रकारादुपासनादृते केन विजानीयादितीदमेवोपासनममृतत्वोपायः, ब्रह्मप्राप्तिरेव चामृतत्वमभिधीयते
इत्युक्तत्वान् ।
अतः परं ब्रह्मैवास्मिन् वाक्ये प्रतिपद्यत इति परमेव ब्रह्म जगत्कारणम् , न पुरुषः तदधिष्ठिता च प्रकृतिरिति स्थितम् ॥
॥ वाक्यान्वयाधिकरणं समाप्तम् ॥