32 जगद्वाचित्वाधिकरणम्

पुनरपि साङ्ख्यः प्रत्यवतिष्ठते - यद्यपि वेदान्तवाक्यानि चेतनं जगत्कारणत्वेन प्रतिपादयन्ति, तथापि तन्त्रसिद्धप्रधानपुरुषातिरिक्तं वस्तु जगत्कारणं वेद्यतया न तेभ्यः प्रतीयते । तथा हि भोक्तारमेव पुरुषं कारणं वेद्यतयाऽधीयते कौषीतकिनोबालाक्यजातशत्रुसंवादे “ब्रह्म ते ब्रुवाणी " इत्युपक्रम्य “यो वै

यः कारणभूतः, एतत्कारणभावहेतुभूतं पुण्यापुण्यलक्षणं च कर्म यस्य स वै वेदितव्यः तत्स्वरूपं प्रकृतेर्विविक्तं वेदितव्यमिति । तथोत्तरत्र “तौ ह सुप्तं पुरुषमाजग्मतुः तं यष्टिना चिक्षेप” इति सुप्तपुरुषागमनयष्टिघातोत्थापनादीनि च भोक्तृप्रतिपादन एव लिङ्गानि । तथोपरिष्टादपि भोक्तैव प्रतिपाद्यते

“तद्यथा श्रेष्ठी स्वेर्भुङ्कते यथा वा स्वाः श्रेष्ठिनं भुजन्त्येवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्कते एवमेवैत आत्मन एनं भुञ्जन्ति " इति । तथा क्वैष एतद्बालाके पुरुषोऽशयिष्ट क्व वा एतदभूत्कुत एतदागात " इति

पृष्टमर्थमजानते तस्मै स्वयमेवाजातशत्रुरुवाच “हिता नाम नाड्यस्तासु तदा भवति यदा सुप्तः स्वप्नं न कथञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं वाक् सर्वैर्नामभिः सहाप्येति मनस्सर्वैर्ध्यानैस्सहाप्येति स यदा प्रतिबुध्यते यथाऽग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः” इति सुषुप्त्याधारतया स्वप्नसुषुप्तिजागरितावस्थासु वर्त्तमानं वागादिकरणाप्ययोद्गमस्थानमेनमेव जीवात्मानम् “अथास्मिन् प्राण एवैकधा भवति” इत्युक्तवान् । अस्मिन् -जीवात्मनि । प्राणभृत्त्वनिबन्धनोऽयं प्राणशब्दः “स यदा प्रतिबुध्यते”

इति प्राणशब्दनिर्दिष्टस्य प्रबोधश्रवणात् मुख्यप्रमाणस्येश्वरस्य च सुषुप्तिप्रबोधयोरसम्भवात् । अथवा “अस्मिन् प्राणे " इति व्यधिकरणे सप्तम्यौ; अस्मिन्नात्मनि वर्त्तमाने प्राण एवैकधा भवति वागादिकरणग्राम इति प्राणशब्दस्य मुख्यप्राणपरत्वेऽपि जीव एवास्मिन् प्रकरणे प्रतिपाद्यते, स्वतः प्राणस्य जीवोपकरणत्वात्; अतो वक्तव्यतयोपक्रान्तं ब्रह्म पुरुष एवेति तद्य्वतिरिक्तेश्वरासिद्धिः । कारणगताश्चेक्षणादयश्चेतनधर्म्मा अस्मिन्नेवोपपद्यन्त इत्येतदधिष्ठितं प्रधानमेव जगत्कारणम् ॥ इति प्राप्ते प्रचक्ष्महे -जगद्वाचित्वात् । अत्र पुण्यापण्यपरवशः

क्षुद्रः क्षेत्रज्ञः स्वस्मिन् प्रकृतिधर्माध्यासेन तत्परिणामहेतुभूतः पुरुषो नाभिधीयते, अपि तु निरस्तसमस्ताविद्यादिदोषगन्धोऽनवधिकातिशयासङ्खयेयकल्याणगुणगणनिधिः निखिलजगदेककारणभूतः पुरुषोत्तमोऽभिधीयते । कुतः ? “यस्य वैतत्कर्म” इत्यत्रैतच्छब्दान्वितस्य कर्मशब्दस्य परमपुरुषकायर्भूतजगद्वाचित्वात् । एतच्छब्दो ह्यर्थप्रकरणादिभिरसङ्कुचितवृत्तिविशेषेण प्रत्यक्षादिप्रमाणोपस्थापितनिखिलचिदचिन्मिश्रजगद्विषयः। न च पुण्यापुण्यलक्षणं कर्मात्र कर्मशब्दाभिधेयं “ब्रह्म ते ब्रुवाणि " इत्युपक्रम्य ब्रह्मत्वेन बालाकिना निर्दिष्टा

नामादित्यमण्डलाद्यधिकरणानां पुरुषाणामब्रह्मत्वेन “मृषा वै खलु मा संवादयिष्टाः” इति तमब्रह्मवादिनमपोद्य तेनाविदितब्रह्मज्ञापनायाजातशत्रुणेदं वाक्यमवतारितं “यो वै बालाके” इत्यादि । पुण्यापुण्यलक्षणकर्मसम्बन्धिन आदित्याद्यधिकरणास्तत्सजातीयाश्च पुरुषास्तेनैव विदिता इति तदविदितपुरुषविशेषज्ञापनपरोऽयं कर्मशब्दो न पुण्यापुण्यमात्रवाची, क्रियामात्रवाची वा; अपि तु कृत्स्नस्य जगतः कार्यत्ववाची । एवमेव खल्वविदितोऽर्थ उपदिष्टो भवति । पुरुषस्य कर्मसम्बन्धोपलक्षितस्वाभाविकस्वरूपस्याज्ञातस्य वेदितव्यत्वोपदेशे च लक्षणा, कर्मसम्बन्धमात्रस्यैव वेदितव्यस्वरूपलक्षणत्वाद्यस्य कर्म स वेदितव्य इत्येतावतैव तत्सिद्धेः, “यस्य वैतत्कर्म” इत्येतच्छब्दवैयर्थ्यं च । “य एतेषां कर्ता यस्य वैतत्कर्म” इति पृथङ्िनर्देशस्य चायमसभप्रायः, ये त्वया

ब्रह्मत्वेन निर्द्दिष्टाः पुरुषाः तेषां यः कर्ता ते यत्कार्यभूताः किं विशिष्याभिधीयते कृत्स्नं जगद्यस्य कार्यम्, उत्कृष्टा अपकृष्टाश्चेतना अचेतनाश्च सर्वे पदार्था यत्कार्यत्वे तुल्याः स परमकारणभूतः पुरुषोत्तमो वेदितव्य इति । जगदुत्पत्तेर्जीवकर्मनिबन्धनत्वेऽपि न जीवः स्वभोग्यभोगोपकरणादेस्स्वयमुत्पादकः, अपि तु स्वकर्मानुगुण्येनेश्वरसृष्टं सर्वं भुङ्क्ते; अतो न तस्य पुरुषान्प्रति कर्त्तृत्वमुपपद्यते । अतः सर्ववेदान्तेषु परमकारणतया प्रसिद्धं परं ब्रह्मैवात्र वेदितव्यतयोपदिश्यते ॥ 16 ॥

अथ यदुक्तम् - जीवलिङ्गान्मुख्यप्राणसङ्कीर्त्तनाच्च लिङ्गाद्भोक्तैवास्मिन् प्रकरणे प्रतिपाद्यते, न परमात्मेति ;

तद्य्वाख्यातम्- तस्य निर्वाहः प्रतर्दनविद्यायामभिहितः । एतदुक्तं भवति; यत्रोपक्रमोपसंहारपर्यालोचनया ब्रह्मपरं वाक्यमिति निश्चितं तत्रान्यलिङ्गानि तदनुरोधेन वर्णनीयानिति तत्र प्रतिपादितम् । अत्राप्युपक्रमे “ब्रह्म ते ब्रुवाणि” इति ब्रह्मोपक्षिप्तम् ; मध्ये च “यस्य वैतत्कर्म” इति निर्दिष्टं न पुरुषमात्रम् , अपि तु निखिलजगदेककारणं ब्रह्मैवेत्युक्तम् । उपसंहारे च “सर्वान् पाप्मनोऽपहत्य सर्वेषां च भूतानां श्रैष्ठयं स्वाराज्यमाधिपत्यं पर्येति य एवं वेद” इति ब्रह्मोपासनैकान्तं सर्वपापापहतिपूर्वकं स्वाराज्यं च फलं श्रुतम्;अतोऽस्य वाक्यस्य ब्रह्मपरत्वनिश्चयेन जीवमुख्यप्राणलिङ्गान्यपि तत्परतया वर्णनीयानीति । प्रातर्द्दने ह्युपासात्रैविद्येन जीवमुख्य

प्राणलिङ्गानां ब्रह्मपरत्वमुक्तम्; अत्रापि “अथास्मिन् प्राण एवैकधा भवति” इति सामानाधिकरण्यसम्भवे वैयधिकरण्यसमाश्रयणायोगात् ब्रह्मण्येव प्राणशब्दप्रयोगनिश्चयेन च प्राणशरीरकब्रह्मोपासनार्थं प्राणसङ्कीर्त्तनं लिङ्गं युज्यते । जीवलिङ्गानां पुनः कथं ब्रह्मपरत्वमित्यत्राह ॥ 17 ॥

तुशब्दो जीवसङ्कीर्त्तनेन वाक्यस्य तत्परत्वसम्भावनाव्यावृत्त्यर्थः । अन्यार्थम् - जीवसङ्कीर्त्तनं जीवातिरिक्तब्रह्मस्वरूपप्रतिबोधनार्थमिति जैमिनिराचार्य्यो मन्यते । कुतः ? प्रश्नव्याख्यानाभ्याम् - प्रश्नस्तावत् "

तौ ह सुप्तं पुरुषमाजग्मतुः” इत्यादिना सुप्तस्य प्रबुद्धप्राणस्यैव प्राणनामभिरामन्त्रणाश्रवणयष्टिघातोत्थापनाभ्यां प्राणातिव्यतिरिक्तं जीवं प्रतिबोध्य पुनर्जीवव्यतिरिक्तब्रह्मप्रतिबोधनपरो दृश्यते “क्वैष एताद्बलाके पुरुषोऽशयिष्ट

क्व वा एतदभूत् कुत एतदागात्” इति । व्याख्यानमपि “यदा सुप्तः स्वप्नं न कथञ्चन पश्यत्यथास्मिन् प्राण एवैकधा भवति एतस्मादात्मनः प्राणाः यथाऽऽयदनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः” इति जीवादर्थान्तरभूतपरमात्मपरमेव । सुषुप्तस्य हि जीवस्य यत्रोपितस्य जागरितस्वप्नदशासम्बन्धिविचित्रसुखदुःखानुभवकालुष्यविरहेण सम्प्रसन्नस्य स्वस्थतापत्तिः, पुनरप्यस्य यस्माद्भोगाय निष्क्रमणं सोऽयं परमात्मा । तथाहि “सता सोम्य तदा सम्पन्नो भवति प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्मं किञ्चन वेद नान्तरम् " इति सुषुप्याधार

तया प्रसिद्धो जीवादर्थान्तरभूतः प्राज्ञः परमात्मा । अतः प्रश्नप्रतिवचनाभ्यां जीवसङ्कीर्तनं जीवादर्थान्तरभूतपरमात्मप्रतिपादनार्थमिति निश्चीयते । यदुक्तं प्रश्नव्याख्याने जीवपरे सुषुप्तिस्थानं च नाड्य एव, करणग्रामश्च प्राणशब्दनिर्दिष्टे जीव एवैकधा भवतीति । तदयुक्तम् नाडीनां स्वप्नस्थानत्वात् उक्तरीत्या ब्रह्मण एव सुषुप्ति

स्थानत्वाच्च, प्राणशब्दनिर्दिष्टे ब्रह्मण्येव जीवस्य तदुपकरणभूतवागादिकरणग्रामस्य चैकतापत्तिविभागवचनाच्च । अपि चैवमेके वाजसनेयिनोऽस्मिन्नेव बालाक्यजातशत्रुसंवादे सुषुप्ताद्विज्ञानमयाद्भेदेन तदाश्रयभूतं परमात्मानमामनन्ति “य एष विज्ञानमयः पुरुषः क्वैष तदाभूत कुत एतदागात् यत्रैष एतत् सुप्तोभूद्य एष

विज्ञानमयः पुरुषस्तदैतेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तहहृदय आकाशस्तस्मि†च्छेते” इति । आकाशशब्दश्च परमात्मनि प्रसिद्धः “दहारोऽस्मिन्नन्तर आकाशः” इति । अतोऽत्र जीवसङ्कीर्त्तनं तस्मादर्थान्तरभूतस्य प्राज्ञस्य परस्य ब्रह्मणः प्रतिबोधनार्थमित्यवगम्यते । तस्मादस्मिन् वाक्ये पुरुषादर्थान्तरभूतस्य निखिलजगत्कारणस्य परस्यैव ब्रह्मणो वेदितव्यतयाऽभिधानान्न तन्त्रसिद्धस्य पुरुषस्य तदधिष्ठितस्य वा प्रधानस्य कारणत्वं क्वचिदपि वेदान्ते प्रतीयत इति सिद्धम् ॥ ॥