31 कारणत्वाधिकरणम्

पुनः प्रधानकारणवादी प्रत्यवतिष्ठते न वेदान्तेष्वेकस्मात्सृष्टिराम्नायत इति जगतो

ब्रह्मैककारणत्वं न युज्यते । तथाहि “सदेव सोम्येदमग्र आसी"दिति सत्पूर्विका सृष्टिराम्नायते । “असद्वा इदमग्र आसीत् " इत्यसत्पूर्विका च । अन्यत्र “असदेवेदमग्र आसीत्तत्सदासीत्तत्समभवत् " इति च । अतो वेदान्तेषु सृष्टुरव्यसस्थितेर्ज्जगतो ब्रह्मैककारणत्वं न निश्चेतुं शक्यम् ;प्रत्युत प्रधानकारणत्वमेव निश्चेतुं शक्यते “तद्धेदं तर्ह्यव्याकृतमासीत् " इत्यव्याकृते प्रधाने जगतः प्रलयमभिधाय “तन्नामरूपाभ्यां व्याक्रियते " इत्यव्याकृतादेव जगतः सृष्टिश्चाभिधीयते । अव्याकृतं ह्यव्यक्तम् , नामरूपाभ्यां न व्याक्रियते न व्यज्यत इत्यर्थः, अव्यक्तं प्रधानमेव । अस्य च स्वरूपनियत्वेन परिणामाश्रयत्वेन च जगत्कारणवादिवाक्यगतौ सदसच्छब्दौ ब्रह्मणीवास्मिन्न विरोत्स्येते । एवमव्याकृतकारणत्वे निश्चिते सति ईक्षणादयः कारणगताः सृष्टयौन्मुख्याभिप्रायेण योजयितव्याः। ब्रह्मात्मशब्दावपि बृहत्त्वव्यापित्वाभ्यां प्रधान एव वर्त्तेते, अतः स्मृतिन्यायप्रसिद्धं प्रधानमेव जगत्कारणं

वेदान्तवाक्यैः प्रतिपाद्यते इति प्राप्ते प्रचक्ष्महे- कारणत्वेन चाकादिषु यथाव्यपदिष्टोक्तेः । चशब्दस्तु शब्दार्थे; सर्वज्ञात सर्वेश्वरात्सत्यसङ्कलपान्निरस्तनिखिलदोषगन्धात् परस्माद्ब्रह्मण एव जगदुत्पद्यत इति निश्चेतुं शक्यते । कुतः ? आकाशादिषु कारणत्वेन यथाव्यपदिष्टस्योक्तेः - सर्वज्ञत्वादिविशिष्टत्वेन “जन्माद्यस्य यत " इत्येवमादिषु

प्रतिपादितं ब्रह्म यथाव्यपदिष्टमित्युच्यते, तस्यैकस्यैव आकाशादिषु कारणत्वेनोक्तेः । “तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः " “तत्तेजोऽसृचत " इत्यादिषु सर्वज्ञं ब्रह्मैव कारणत्वेनोच्यते । तथा हि “सत्यं ज्ञानमनन्तं ब्रह्म " “सोऽश्नुते सर्वाकामान्सह ब्रह्मणा विपश्चिता " इति प्रकृतं विपश्चिदेव ब्रह्म, “तस्माद्वा एतस्मा “दिति परामृश्यते । तथा “तदैक्षत बहु स्याम् " इतिनिर्दिष्टं सर्वज्ञं बह्मैव “तत्तेजोऽसृजत " इति परामृश्यते । एवं सर्वत्र सृष्टिवाक्येषु द्रष्टव्यम् , अतो ब्रह्मैककारणं जगदिति निश्चीयते । ननु “असद्वा सदमग्र आसीत् " इत्यसदेव

कारणत्वेन व्यपदिश्यते, तत्कथमिव सर्वज्ञस्य सत्यसङ्कल्पस्य ब्रह्मण एव कारणत्वं निश्चीयत इत्यत आह -

“असद्वा इदमग्र आसीत् " इत्यत्रापि विपश्चितानन्दमयं सत्यसङ्कल्पं ब्रह्मैव समाकृष्यते, कथं “तस्माद्वा एतस्माद्विज्ञानमयादन्याऽन्तर आत्मानन्दमयः” सोऽकामयत “बहु स्यां प्रजायेये"ति । “इदं सर्वमसृजत यदिदं " किञ्च तत्सृष्ट्वा तदेवाप्रनुविशत् तदनुप्रविश्य सच्च त्यच्चाऽभवत् " इत्यादिना ब्राह्मणेनानन्दमयं ब्रह्म सत्यसङ्कल्पं सर्वस्य स्रष्ट्ट सर्वानुप्रवेशेन सर्वात्मभुतमभिधाय “तदप्येष श्लोको भवती “त्युक्तस्वार्थस्य सर्वस्य साक्षित्वेनोदाहृतोऽयं श्लोकः, “असद्वा इदमग्र आसीत् " इति । तथोत्तरत्र “भीषास्माद्वातः पवते” इत्यादिना तदेव ब्रह्म समाकृष्य सर्वस्य प्रशासितृत्वनिरतिशयानन्दत्वादयोऽभिधीयन्ते, अतोऽयम्मन्त्रस्तद्विषय एव । तदानीं नामरूपविभागाभावेन तत्सम्बन्धितयस्तित्वाभावाद्ब्रह्मैवासच्छब्देनोच्यते “असदेवेदमग्र आसीत् " इत्यत्राप्य

यमेव निर्वाहः । यदुक्तं “तद्धेदं तर्ह्यव्याकृतमासीत् " इति प्रधानमेव जगत्कारणत्वेनाऽभिधीयत इति;नेत्युच्यते, तत्राप्यव्याकृतशब्देनाव्याकृतशरीरं ब्रह्मैवाभिधीयते, “स एष इह प्रविष्ट आनखाग्रेभ्यः पश्यंश्चक्षुःश्रृण्वन् श्रोत्रं मन्वानो मन आत्मेत्येवोपासीत " इत्यत्र “स एषः " इति तच्छब्देनाव्याकृतशब्दनिर्दिष्टस्यान्तः प्रविश्य प्रशासितृत्वेनानुकषर्ात् “तत्सृष्ट्वा तदेवानुप्रविशत् " “अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि " इति स्रष्टुः सर्वज्ञस्य परस्य ब्रह्मणः कार्यानुप्रवेशनामरूपव्याकरणप्रसिद्धेश्च । “अन्तःप्रविष्टः शास्ता जनानां सर्वात्मा” इति नियमनार्थत्वादनुप्रवेशस्य प्रधानस्याचेतनस्यैवंरूपोऽनुप्रवेशो न सम्भवति; अतः अव्याकृतम् अव्याकृतशरीरं ब्रह्म “तन्नामरूपाभ्यां व्याक्रियत " इति तदेवाविभक्तनामरूपं ब्रह्म सर्वज्ञं सत्यसङ्कल्पं स्वेनैव विभक्तनामरूपं स्वयमेव व्याक्रियत इत्युच्यते । एवञ्च सतीक्षणादयो मुख्या एव भवन्ति । ब्रह्मात्मशब्दावपि

निरतिशयबृहत्त्वनियमनार्थव्यापित्वाभावेन प्रधाने न कथञ्चिदुपपद्यते , अतो ब्रह्मैककारणं जगदिति स्थितम् । कारणत्वाधिकरणं समाप्तम् ॥