30 संख्योपसंग्रहाधिकरणम्

वाजसनेयिनस्समामनन्ति “यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेवन्मन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतम् " इति । किमयं मन्त्रः कापिलतन्त्रसिद्धतत्त्वप्रतिपादनपरः ? उत नेति सन्दिह्यते । किं युक्तम्? तन्त्रसिद्धतत्त्वप्रतिपादनपर इति । कुतः ? पञ्चशब्दविशेषितात्पञ्चजनशब्दा

त्पञ्चविंशतितत्त्वप्रतीतेः । एतदुक्तम्भवति पञ्चजना इति समासः समाहारविषयः । पञ्चजनाः- पञ्चानां जनानां समूहाः पञ्चजनाः, पञ्चपूल्य इतिवत् ।पञ्चजना इति लिङ्गव्यत्ययश्छान्दसः । ते च समूहाः कतीत्यपेक्षायां

पञ्चजनशब्दविशेषणेन प्रथमेन पञ्चशब्देन समूहाः पञ्चेति प्रतीयन्ते यथा पञ्च पञ्चपूल्य इति । अतः “पञ्च पञ्चजनाः” इति पञ्चविंशतिपदार्थावगतौ ते कतम इत्यपेक्षायाम् मोक्षाधिकारान्मुमुक्षुभिर्ज्ञातव्यतया स्मृतिप्रसिद्धाः प्रकृत्यादय एव ज्ञायन्ते । “मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः” इति हि कापिलानां प्रसिद्धिः, अतस्तन्त्रसिद्धतत्त्वप्रतिपादनपरः ।इति प्राप्ते प्रचक्ष्महे, नसङ्खयोपसङ्ग्रहादपी"ति । “पञ्च पञ्चजना” इति पञ्चविंशतितत्वसङ्खयोपसङ्ग्रहादपि न तन्त्रसिद्धतत्त्वप्रतीतिः कुतः? नानाभावात् । एषां पञ्चसङ्खयविशेषितानां पञ्चजनानां तन्त्रसिद्धेभ्यस्तत्त्वेभ्यः पृथग्भावात् । “यस्मिन्पञ्चपञ्चजना आकाशश्च प्रतिष्ठित " इत्येतेषां यच्छब्दनिर्दिष्टब्रह्माश्रयतया ब्रह्मात्वकत्वं हि प्रतीयते; " तमेवं

मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृत “मित्यत्र तमिति परामर्शेन यच्छब्दनिर्दिष्टं ब्रह्मेत्यवगम्यते । अतस्तेभ्यः पृथग्भूताः “पञ्च पञ्चजना” इति न तन्त्रसिद्धा एते । अतिरेकाञ्च, तन्त्रसिद्धेभ्यस्तत्त्वेभ्योऽत्र तत्त्वारेकोऽपि भवति यच्छब्दनिर्दिष्ट आत्मा आकाशश्चऽत्रातिरिच्येते । अतः “तं षड्िवंशकमित्याहुः सप्तविंशमथापर " इति श्रुतिप्रसिद्धसर्वतत्त्वाश्रयभूतः सर्वेश्वरेश्वरः परमपुरुषोऽत्राभिधीयते । न सङ्खयोपसङ्ग्रहादपीत्यपिशब्दस्य “पञ्च पञ्चजना” इत्यत्र पञ्चविंशतितत्वप्रतिपत्तिरेव न सम्भवतीत्यभिप्रायः । कथं पञ्चभिरारब्धसमूहपञ्चकासम्भवात्; नहि तन्त्रसिद्धतत्वेषु पञ्चसु पञ्चस्वनुगतन्तत्ततसङ्खयानिवेशनिमित्तं जात्याद्यस्ति, न च वाच्यं पञ्च कर्मेन्द्रियाणि पञ्च ज्ञानेन्द्रियाणि पञ्च महाभूतानि पञ्च तन्मात्राण्यवशिष्टानि पञ्च इत्यवान्तरसङ्खयानिवेशनिमित्तमस्त्येवेति, आकाशस्य पृथङ्िनर्देशेन पञ्चभिरारब्धमहाभूतसमूहासिद्धेः, अतः पञ्चजा इत्ययं समासो न समाहारविषयः, अयन्तु “दिक्सङ्खये संज्ञाया"मिति संज्ञाविशेषविषयः, अन्यथा पञ्चजना इति लिङ्गव्यत्ययश्च । पञ्चजना नाम केचित्सन्ति ते च पञ्चसङ्खयया विशेष्यन्ते - पञ्च पञ्चजना इति, सप्त सप्तर्षय इतिवत् ॥ 11 ॥

न स्यादिति भावः; के पुनस्तु पञ्च पञ्चजना इत्यत्राह -

“प्राणस्य प्राणमुत चक्षुश्रचक्षुः श्रोत्रस्य श्रोत्रमम्नस्यान्नमनसो मनो ये विदुः " इति वाक्यशेषात् ब्रह्माश्रयाः

प्राणादय एव पञ्च पञ्चजना इति विज्ञायन्ते ॥12॥ अथ स्यात्काण्वानां माध्यन्दिनानाञ्च “यस्मिन्पञ्च पञ्चजना” इत्ययं मन्त्रः समानः, “प्राणस्य प्राण " मित्यादिवाक्यशेषे काण्वानामन्नस्य पाठो न विद्यते, तेषां पञ्च पञ्चजनाः प्राणादय इति न शक्यं वक्तुमिति, अत्रोत्तरम् -

एकेषां काण्वानां पाठे असत्यन्ने ज्योतिषा पञ्चजना इन्द्रियाणीति विज्ञायन्ते; तेषां वाक्यशेषः प्रदर्शनार्थः ।

एतदुक्तम्भवति “यस्मिन् पञ्च पञ्चजना " इत्यस्मात् पूर्वस्मिन्मन्त्रे “तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् " इति । ज्योतिषां ज्योतिष्ट्वेन ब्रह्मण्यभिधीयमाने ब्रह्माधीनस्वकार्याणि कानिचिज्ज्योतीपि प्रतिपन्नानि; तानि च विषयाणां प्रकाशकानीन्द्रियाणीति “यस्मिन्पञ्च पञ्चजना " इत्यनिर्द्धारितविशेषनिर्देशेनावगम्यन्त इति । प्राणस्येति प्राणशब्देन स्पर्शेन्द्रियङ्गृह्दते । वायुसम्बन्धित्वात्स्पशर्ेन्द्रियस्य मुख्यप्राणस्य ज्योतिश्शब्देन प्रदर्शनायोगात् । चक्षुष इति चक्षुरिन्द्रियम् , श्रोत्रस्येति श्रोत्रेन्द्रियम् , अन्नस्येति घ्राणरसनयोः तन्त्रेणोपादानम्

अन्नशब्दोदितपृथिवीसम्बन्धित्वात् घ्राणेन्द्रियमनेन गृह्यते । अद्यतेऽनेनेत्यन्नमिति रसनेन्द्रियमपि गृह्यते , मनस इति मनः, घ्राणरसनयोस्तन्त्रेणोपादनमिति पञ्चत्वमप्यविरुद्धम् प्रकाशकानि मनः पर्य्यन्तानीन्द्रियाणि पञ्चजनशब्दनिर्दिष्टानि, तदविरोधाय घ्राणरसनयोस्तनत्रेणोपादानम् । तदेवं “यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठित " इति पञ्चजनशब्दनिर्दिष्टानीन्द्रियाणि आकाशशब्दप्रदर्शितानि महाभूतानि च ब्रह्मणि प्रतिष्ठितानीति

सर्वतत्वानां ब्रह्माश्रयत्वप्रतिपादनान्न तन्त्रसिद्धपञ्चविंशतितत्वप्रसङ्गः । अतः सर्वत्र वेदान्ते सङ्खयोपसङ्ग्रहे तदभावे वा न कापिलतन्त्रसिद्धतत्वप्रतीतिरस्तीति स्थितम् । ॥ सङ्ख्योपसङ्ग्रहाधिकरणं समाप्तम् ॥