अत्रापि तन्त्रसिद्धप्रक्रिया निरस्यते, न ब्रह्मात्मकानां प्रकृतिमहदहङ्कारादीनां स्रूपम्, श्रुतिस्मृतीभ्यां ब्रह्मात्मकानां तेषां प्रतिपादनात् । यथा आथर्वणिका अधीयते- “विकारजननीमज्ञामष्ठरूपामजां ध्रुवाम् । ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः । सूयते पुरुषार्थं च तेनैवाधिष्ठिता जगत् । गौरनाद्यन्तवती सा जनित्री भूतभाविनी । सितसिता च रक्ता च सर्वकामदुघा विभोः । पिबन्त्येनामविषमामविज्ञाताः कुमारकाः ।
एकस्तु पिबते देवस्स्वच्छन्दोऽत्रवशानुगाम् । ध्यानक्रियाभ्यां भगवान् भुङ्क्त्ेऽसौ प्रसभं विभुः । सर्वसाधारणीं
दोग्ध्रीं पीड्यमानान्तु यज्वभिः” । चतुर्विंशतिसङ्खयाकमव्यक्तं व्यक्तमुच्यते " इति । अत्र प्रकृत्यादीनां स्वरूपमभिहितम् । यदात्मकाश्चैते प्रकृत्यादयः, स परमपुरुषोऽपि “तं षड्िवंशकमित्याहुः । सप्तविंशमथापरे । पुरुषं निर्गुणं साङ्ख्यमथर्वशिरसो विदु"रिति प्रतिपाद्यते, अपरे चाथर्वणिकाः “अष्टौ प्रकृतयः षोडश विकारा” इत्यधीयते; श्वेताश्वतराश्चैवं प्रकृतिपुरुषेश्वरस्वरूपमामनन्ति “संयुक्तमेतत् क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः। अनीशश्चाऽन्यो वध्यते भोक्तृभावात् । ज्ञात्वा देवं मुच्यते सर्वपाशैः” ज्ञाज्ञौ द्वावजावीशनीशावजा ह्येका भोक्तृभोगार्थयुक्ता । अनन्तश्चात्मा विश्वरूपो ह्यकर्त्ता । त्रयं यदा विन्दते ब्रह्म चैतत् " “क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः । तस्याभिध्यानाद्योजनात्तत्प्रभावाद्भूयश्चान्ते विश्वमायानिवृत्ति"रिति । तथा “छन्दांसि
पज्ञाः ऋतवो व्रतानि । भूतं भव्यं यच्च देवा वदन्ति” “अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः “मायां तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरम् । तस्यावयव भूतैस्तु व्याप्तं सर्वमिदं जगत्” इति तथोत्तरत्राऽपि
“प्रधानक्षेत्रज्ञपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुरि"ति । स्मृतिरपि “प्रकृतिं पुरुषं चैव विध्द्यानादि उभावपि ।
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् । कार्य्यकारणकर्त्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषस्सुखदुःखानाम्भोक्तृत्वं हेतुरुच्यते । पुरुषः प्रकृतिस्थोऽपि भुङ्कते प्रकृतिजान्गुणान् । कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु । सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः । निबध्नन्ति महाबाहो । देहे देहिनमव्ययम् । तथा “सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् । प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् । मयाऽध्यक्षेण प्रकृतिस्सूयते सचराचरम् । हेतुनाऽनेन कौन्तेय ! जगद्धिपरिवर्त्तने " इति । तस्मादब्रह्मामात्वकत्वेन कापिलतन्त्रसिद्धाः प्रकृत्यादयो निरस्यन्ते, श्वेताश्वतरोपनिषदि श्रूयते “अजामेकां लोहितशुल्ककृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनाभ्भुक्तभोगामजोऽन्यः” इति, तत्र सन्देहः किमास्मिन्मन्त्रे केवलातन्त्रसिद्धा प्रकृतिरभिधीयते? उत ब्रह्मात्मिका ? इति । किं युक्तं ? केवलेति, कुतः अजामेकामित्यस्याः प्रकृतेरकार्य्यतवश्रवणात् “बह्वीः प्रजाः
सृजमानं सरूपाः” इति स्वातन्त्र्ेण सरूपाणां बह्वीनां प्रजानां स्त्रष्ट्टत्वश्रवणाच्चेति - एवम्प्रप्तेऽभिधीयते - छमसवदविशेषात् । न जायत इत्यजेत्यजात्वमात्रप्रतिपादनात् तन्त्रसिद्धाब्रह्मात्मकाजाग्रहणे विशेषाप्रतीतेः चमसवत् यथा “अर्वाग्बिलश्चमस ऊद्र्ध्वबुध्न " इत्यस्मिन्मन्त्रे चमसस्य भक्षणसाधनत्वमात्रं चमसशब्देन प्रतीयत इति न तावन्मात्रेण चमसविशेषप्रतीतिः यौगिकशब्दानामर्थप्रकरणादिभिर्विनाऽर्थविशेषनिश्चयायोगात् ; तत्र “यथेदन्तच्छिर एष ह्यर्वाग्बिलश्रमस ऊद्र्ध्वबुध्न " इत्यादिना वाक्यशेषेण शिरसश्चमसत्वनिश्चयः, तथा अत्राऽप्यर्थप्रकरणादिभिरेवाजा निर्णेतव्वा; न चाऽत्र तन्त्रसिद्धाजाग्रहणहेतवोऽर्थप्रकरणादयो
दृश्यन्ते, नचास्याः स्वातन्त्रेण स्रष्टृत्वं प्रतीयते, “बह्वीः प्रजाः सृजमानाम्” इति स्रष्टत्वमात्रप्रतीतिः, अतोऽनेन मन्त्रेण नाब्रह्मात्मिकाजाऽभिधीयते ॥ 8 ॥ ब्रह्मात्मकाजाग्रहण एव विशेषतो हेतुरस्तीत्याह -
तुशब्दोऽवधारणार्थः, ज्योतिरुपक्रमैवैषाऽजा, ज्योतिर्ब्रह्म “तन्देवाज्योदिषांज्योतिः” “अथ यदतः परा दिवो ज्योतिर्दीप्यते” इत्यादिश्रुतिप्रसिद्धेः । ज्योतिरुपक्रमा ब्रह्मकारणिकेत्यर्थः, तथाऽह्यधीयत एकेहीति हेतौ, यस्मादस्या अजाया ब्रह्मकारणकत्वमेकेशाखिनस्तैत्तिरीया अधीयते - " अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः” इति हृदयगुहायामुपास्यत्वेन सन्निहितं बह्माभिधाय “सप्त प्राणाः प्रभवन्ति तस्मात्” इत्यादिना सर्वेषां लोकानां ब्रह्मादीनाञ्च तत उत्पत्तिमभिधाय सर्वकारणीभूताऽजा तत उत्पन्नाभिधीयते” “अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम् । अजो ह्येको जुषमाणोऽनुशेते
जहात्येनाम्भुक्तभोगामज्योऽन्य” इति । सर्वस्य तद्य्वतिरिक्तस्य वस्तुजातस्य तत उत्पत्त्या तदात्मकत्वोपदेशे
प्रक्रियमाणेऽभिधीयमानत्वात्प्राणसमुद्रपर्वतादिवदेषाऽप्यजा बह्वीनां सरूपणां प्रजानां स्रष्ट्री कर्मवश्येनाऽऽत्मना भुज्यमानाऽन्येन विदुषाऽऽत्मना त्यज्यमाना च ब्रह्मण उत्पन्ना ब्रह्मात्मिकाऽवगन्तव्येत्यर्थः । अतो वाक्यशेषाच्चमसविशेषवच्छाखान्तरीयादेतत्सरूपात्प्रत्यभिज्ञायमानार्थाद्वाक्यान्नियमिताऽजा ब्रह्मात्मिकेति निश्चीयते । इहाऽपि प्रकरणोपक्रमे “किं कारणं ब्रह्मे"त्यारम्भ “ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढाम् " इति परब्रह्मशक्तिरूपाया अजाया अवगतेः, उयरिष्टाच्च “अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो माययो सन्निरुद्धः” “मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरम्” “यो योनिर्योनिमधितिष्ठत्येक”
इति च तस्या एव प्रतीतेर्नास्मिन्मन्त्रे तन्त्रसिद्धस्वतन्त्रप्रकृतिप्रतिपत्तिगन्धः ॥ कथं तर्हि ज्योतिरुपक्रमाया लोहितशुक्लकृष्णरूपाया अस्याः प्रकृतेरजात्वम् ? आजाया वा कथं ज्योतिरुपक्रमात्वम् ? इत्यत्राह -
प्रसक्ताशङ्कानिवृत्त्यर्थश्चशब्दः, अस्याः प्रकृतेरजात्वं ज्योतिरुपक्रमात्वञ्च न विरुध्यते । कुतः ? कल्पनोपदेशात्, कल्पनं कॢप्तिः सृष्टिः, जगत्सृष्टयुपदेशादित्यर्थः । यथा “सूर्य्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्” इति कल्पनं सृष्टिः, अत्रापि “अस्मन्मायी सृजते विश्वमेत"दिति जगत्सृष्टिरुपदिश्यते । स्वेनावि भक्तदस्मात्सूक्ष्मावस्थात्कारणान्मायी सर्वेश्वरः सर्वं जगत्सृजतीत्यर्थः । अनेन कल्पनोपदेशेनास्याः प्रकृतेः कार्यकारणरूपेणावस्थाद्वयान्वयोऽवगम्यते, सा हि प्रलयवेलायां ब्रह्मतापन्ना अविभक्तनामरूपा सूक्ष्मरूपेणाऽवतिष्ठते । सृष्टिवेलायां
तूद्भूतसत्त्वादिगुणा विभक्तनामरूपाव्यक्तादिशब्दवाच्या तेजोबन्नादिरूपेण च परिणता लोहितशुक्लकृष्णाकारा चावतिष्ठते । अतः कारणावस्थाऽजा, कार्य्यावस्था च ज्योतिरुपक्रमेति न विरोधः । मध्वादिवत् यथेश्वरेणादित्यस्य कारणावस्थायामेकस्यैवावस्थितस्य कार्य्यावस्थायाम् ऋग्यजुस्सामाथवर्प्रतिपाद्यकर्मनिष्पाद्यरसाश्रयतया वस्वादिदेवताभोग्यत्वाय मधुत्वकल्पनमुदयास्तमयकल्पनञच्च न विरुध्यते । तदुक्तं मधुविद्यायाम् “असौ वा आदित्यो देवमधु " इत्यारभ्य अथ “तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेत्येकल एव मध्ये स्थाते " त्यन्तेन एकलः एकस्वभावः, अतोऽनेन मान्त्रेण ब्रह्मात्मिकाऽजैवाऽभिधीयते, न कापिलतन्त्रसिद्धेति सिद्धम् । अन्ये त्वस्मिन्मन्त्रे तेजोबन्नलक्षणाऽजैकाभिधीयत इति ब्रुवते, ते प्रष्टव्याः - किं
तेजोबन्नान्येव तेजोबन्नात्मिकाजैका ? उत तेजोबन्नरूपं ब्रह्मैव ? किं वा- तेजोबन्नाकारणभूता काचिदिति । प्रथमे कल्पे तेजोबन्नानामनेकत्वादजामेकामिति विरुध्यते, न च वाच्यन्तेजोबन्नानामनेकत्वेऽपि त्रिवृत्करणेनैकतापत्तिरिति ।
त्रिवृत्करणेऽपि बहुतानपगमात्, “इमास्तिस्रो देवताः " “तासां त्रिवृतं त्रिवृतमैकैकाङ्करवाणी"ति प्रत्येकं त्रिवृत्करणोपदेशात् । द्वितीयः कल्पो विकल्प्यः । किन्तेजोबन्नरूपेण विकृतं ब्रह्मैवाजैका ? किं वा स्वरूपेणावस्थितमविकृतमिति । प्रथमः कल्पो बहुत्वानपायादेव निरस्तः । द्वितीयेऽपि लोहितशुक्लकृष्णामिति विरुध्यते । स्वरूपेणावस्थितं ब्रह्म तेजोबन्नलक्षणमिति वक्तुमपि न शक्यते, तृतीये कल्पेऽप्यजाशब्देन तेजोबन्नानि निर्दिश्य तैस्तत्कारणावस्थोपस्थापनीयेत्यास्थेयम् । ततो वरमजाशब्देन । तेजोबन्नकारणावस्थायाः श्रुतिप्रसिद्धाया एवाभिधानम् ,यत्पुनरस्याः प्रकृतेरजाशब्देन छागत्वपरिकल्पनमुपदिश्यत इति तदप्यसङ्गतम् , निष्प्रयो
जनत्वात् यथा “आत्मानं रथिनं विद्धी"त्यादिषु ब्रह्मप्राप्त्युपायताख्यापनाय शरीरादिषु रथादिरूपणं क्रियते, यथा
चादित्ये वस्वादीनाभ्भोग्यत्वख्यापनाय मधुत्वकल्पनं क्रियते, तद्गदस्याम्प्रकृतौ च्छागत्वपरिकल्पनं क्वोपयुज्यते, न केवलमुपयोगाभाव एव विरोधश्च । कृत्स्नजगत्कारणभूतायास्स्वस्मिन्ननादिकालसम्बद्धानां सर्वेषामेव चेतनानां निखिलसुखदुःखोपभोगापवर्गसाधनभूतायाः अचेतनायाः अत्यल्पप्रजासग्रकरागन्तुकसङ्गमचेतनविशेषैकरूपत्यल्प प्रयोजनसाधनस्वपरित्यागाहेतु भूतस्वसम्बन्धिपरित्यागसमथर्चेतनविशेषरूपच्छागस्वभावख्यापनाय तद्रूपत्वकल्पनं विरुद्धमेव । “अजामेकाम् " “अजो ह्येकः " “अजोऽन्य " इत्यत्राजाशब्दस्य विरूपार्थकल्पनञ्च न शोभनम् । सर्वत्र च्छागत्वं परिकल्प्यत इति चेत् “जहात्येनाम्भुक्तभोगामजोऽन्य " इति विदुष आत्यन्तिकप्रकृतिपरित्यागर्ङ्कुवतोऽनेन वाऽन्येन वापुनरपि सम्बन्धयोगयच्छागत्वपरिकल्पनमत्यन्तविरुद्धम् ॥ चमसाधिकरणं समाप्तम् ॥