28 आनुमानिकाधिकरणम्

उक्तं परमपुरुषार्थलक्षणमोक्षसाधनतया जिज्ञास्यं जगज्जन्मादिकारणं ब्रह्म अचिद्वस्तुनः प्रधानादेश्चेतनाच्च बद्धमुक्तोभयावस्थाद्विलक्षणं निरस्तसमस्तहेयगन्धं सर्वज्ञं सर्वशक्ति सत्यसङ्कल्पं समस्तकल्याणगुणात्मकं सर्वान्तरात्मभूतं निरङ्कुशैश्चर्य्यमिति । इदानीं कापिलतन्त्रसिद्धाब्रह्मात्मकप्रधानपुरुषादिप्रतिपादनमुखेन प्रधानकारणत्वप्रतिपादनच्छायानुसारीण्यपि कनिचिद्वाक्यानि कासुचिच्

छाखासु सन्तीत्याशङ्कय ब्रह्मैककारणत्वस्थेम्ने तन्निराक्रियते । कठवल्लीष्वाम्नायते “इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः । महतः परमव्यक्रमव्यक्तात्पुरुषः परः । पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः " इति । तत्र सन्देहः - किं कापिलतन्त्रसिद्धमब्रह्मात्मकं प्रधानमिह अव्यक्तशब्देनोच्यते, उत न? इति । किं युक्तम्? प्रधानमिति । कुतः? “महतः परमव्यक्तमव्यक्तात्पुरुषः परः” इति तन्त्रसिद्धतत्वप्रक्रियाप्रत्यभिज्ञानेन तस्यैव प्रतीतेः, “पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः”” इति पञ्चविंशकपुरुषातिरिक्ततत्त्वनिषेधाच्च; अतोऽव्यक्तं कारणमिति प्राप्तम् । तदिदमुक्तम् आनुमानिकमप्येकेषामिति चेदिति । एकेषां शाखिनां शाखास्वानुमानिकं प्रधानमपि कारणमाम्नायत इति चेत् अत्रोत्तरं- नेति । नाव्यक्त

ब्देनाब्रह्मात्मकं प्रधानमिहाभिधीयते । कुतः? शरीररूपकविन्यस्तगृहीतेः शरीराख्यरूपकविन्यस्तस्य अव्यक्तशब्देन गृहीतेः । आत्मशरीरबुद्धिमनइन्द्रियविषयेषु रथिरथादिभावेन रूपितेषु रथरूपणेन विन्यस्तस्य शरीरस्य अत्र अव्यक्त शब्देन ग्रहणादित्यर्थः । एतदुक्तम्भवति- पूर्वत्र हि- “आत्मानं रथिनं विद्धि शरीरं रथमेव च । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च । इन्द्रियाणि हयानाहुः विषयांस्तेषु गोचरान् " इत्यादिना “सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् " इत्यन्तेन संसाराध्वनः पारं वैष्णं पदं प्रेप्सन्तमुपासकं रथित्वेन तच्छरीरादीनि च रथरथाङ्गत्वेन रूपयित्वा यस्यैते रथादयो वशे तिष्ठन्ति , स एवाध्वनः पारं वैष्णवं पदमा

प्नोतीत्युक्तवा तेषु रथादिरूपितशरीरादिषु यानि येभ्यो वशीकार्यतायां प्रधानानि तान्युच्यन्ते “इन्द्रियेभ्यः पराः " - इत्यादिना । तत्र हयत्वेन रूपितेभ्य इन्द्रियेभ्यो गोचरत्वेन रूपिता विषयाः वशीकार्यत्वे पराः , वश्येन्द्रियस्यापि विषयसन्निधाविन्द्रियाणां दुर्निग्रहत्वात् तेभ्योपि परं प्रग्रहरूपितं मनः , मनसि विषयप्रवणे विषयासन्निधानस्याप्यकिञ्चित्करत्वात् । तस्मादपि सारथित्वरूपिता बुद्धिः परा , अध्यवसायाभावे मनसोऽप्यकि

ञ्चित्करत्वात् । तस्या अपि रथित्वरूपित आत्मा कर्तृत्वेन प्राधान्यपरः , सर्वस्य चास्यात्मेच्छायत्तत्वादत्मैव महानिति च विशेष्यते । तस्मादपि रथरूपितं शरीरं परम् , तदायत्तत्वाज्जीवात्मनस्सकलपुरुषार्थसाधनप्रवृत्तीनाम् । तस्मादपि परस्सर्वान्तरात्मभूतोऽन्तर्याम्यध्वनः पारभूतः परमपुरुषः , यथोक्रस्यात्मपर्यन्तस्य समस्तस्य तत्सङ्कल्पायत्तप्रवृत्तित्वात् । स खल्वन्तर्यामितयोपासनस्यापि निर्वर्तकः । “परात्तु तच्छ्रुतेः " इति हि जीवात्मनः कर्तृत्वं परमपुरुषायत्तमिति वक्ष्यते । वशीकार्योपासननिर्वृत्त्युपायकाष्ठाभूतः परमप्राप्यश्च स एव । तदिदमुच्यते

" पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः " इति । तथा चान्तर्यामिब्राह्मणे " य आत्मनि तिष्ठन् " इत्यादिभिस्सर्वं साक्षात्कुर्वन् सर्वं नियमयतीत्युक्ता " नान्योऽतोऽस्ति द्रष्टा " इति नियन्त्रन्तरं निषिध्यते । भगवद्गीतासु च " अधिष्ठानं तथा- कर्त्ता करणं च पृथग्विधम् । विविधा च पृथक् चेष्टादैवं चैवात्र पञ्चमम् " इति । दैवमत्र पुरुषोत्तम एव , " सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिज्ञानमपोहनञ्च " इति वचनात् । तस्य च वशीकरणं तच्छरणागतिरेव । यथाह “ईश्वरस्सर्वभूतानां हृद्देशेऽर्ज्जुन तिष्टति । भ्रायमन् सर्वभूतानि यन्त्रारूढानि मायमा । तमेव शरणं गच्छ " इति । तदेवम् " आत्मानं रथिनं विद्धि " इत्यादिना रथ्यादिरूपकविन्यस्ता इन्द्रियादयः “इन्द्रियेभयः परा ह्यर्थाः इत्यत्र स्वशब्दैरेव प्रत्यभिज्ञायन्ते, न रथरूपितं शरीरमिति परिशेषात्तदव्यक्तशब्देनोच्यत इति निश्चीयते; अतः कापिलतन्त्रसिद्धस्य प्रधानस्य प्रसङ्ग एव नास्ति । न चात्र तत्तन्त्रस्द्धिप्रक्रियाप्रत्यभिज्ञा “इन्द्रियेभ्यः परा ह्यर्थाः” इतीन्द्रियेभ्योऽर्थानां शब्दादीनां परत्वकीर्त्तनात् । न हि शब्दादय इन्द्रियाणां कारणभूतास्तद्दर्शने । “अर्थेभ्यश्च परं मनः " इत्यपि न तत्तन्त्रसङ्गतम् , अकारणत्वादेव ; तथा “बुद्धेरा

त्मा महान् परः " इत्यप्यसङ्गतम् , बुद्धिशब्देन महत्तत्त्वस्याभिधानाभ्युपगमात् । न हि महतो महान् परस्सम्भवति । महत आत्मशब्देन विशेषणं च न सङ्गच्छते , अतो रूपकविन्यस्तानामेव ग्रहणम् । दर्शयति च तदेव “एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते । दृश्यते त्वग्रयया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः " “यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेत् ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि " इति । अजितबाह्याभ्यन्तरकरणैरस्य परमपुरुषस्य दुर्दर्शत्वमभिधाय हयादिरूपितानामिन्द्रियादीनां वशीकारप्रकारोऽयमुच्यते ।“यच्छेद्वाङ्मनसी " वाचं मनसि नियच्छेत् - वाक्पूर्वकाणि कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि च मनसि नियच्छेदित्यर्थः ।

वाक्छब्दे द्वितीयायाः " सुपां सुलुक् " इति लुक् । मनसी इति सप्तम्याश्छान्दसो दीर्घः । " तद्यच्छेत् ज्ञान आत्मनि “तन्मनो बुद्धौ नियच्छेत् । ज्ञानशब्देनात्र पूर्वोक्ता बुद्धिरभिधीयते । “ज्ञान आत्मनि " इति व्यधिकरणे

सप्तम्यौ । आत्मनि वर्त्तमाने ज्ञाने नियच्छेदित्यर्थः । “ज्ञानमात्मनि महति नियच्छेत् " बुद्धिं कर्त्तरि

महत्यात्मनि नियच्छेत् । “तद्यच्छेच्छान्त आत्मनि " तं कर्त्तारं परस्मिन् ब्रह्मणि सर्वान्तरयामिणि नियच्छेत् । व्यत्यनेन तदिति नपुंसकलिङ्गता । एवम्भूतेन रथिना वैष्णवं पदं गन्तव्यमित्यर्थः । अव्यक्तशब्देन कथं व्यक्तस्य शरीरस्याभिधानम् ? तत्राह - ॥ 1.4.1 ॥

भूतसूक्ष्मव्याकृतं ह्यवस्थाविशेषमापन्नं शरीरं भवति ; तदव्याकृतमिह शरीरावस्थं अव्यक्तशब्देनोच्यते । तदर्हत्वात् - तस्याव्याकृतस्य अचिद्वस्तुन एव विकारापन्नस्य रथवत् पुरुषार्थसाधनप्रवृत्त्यर्हत्वात् ।

यदि भूतसूक्ष्ममव्याकृतमभ्युपगम्यते ; कापिलतन्त्रसिद्धोपादाने कः प्रद्वेषः ? तत्रापि हि भूतकारणमेवाव्यक्तमित्युच्यते ; तत्राह-

परमकारणभूतपरमपुरुषाधीनत्वात्प्रयोजनवद्भूत सूक्ष्मम् । एतदुक्तम्भवति न वनमव्वक्तं तत्परिणामविशेषांश्च स्वरूपेण नाभ्युपगच्छामः, अपि तु परमपुरुषशरीरतया तदात्मकत्वविरहेण । तदात्मकत्वेनैव हि प्रकृत्यादयः स्वप्रयोजनं साधयन्ति ; अन्यथा स्वरूपस्थितिप्रवृत्तिभेदाः तेषां न स्युः, तथाऽनभ्युपगमादेव

तन्त्रसिद्धप्रक्रिया

निरसनमिति । श्रुतिस्मृत्योर्हि जगदुत्पत्तिप्रलयवादेषु परमपुरुषमहिमवादेषु च प्रकृतिविकृतिपुरुषास्तदात्मकास्सङ्कीत्यर्न्ते , यथा " पृथिव्यप्सु लीयते " इत्यारभ्य “तन्मात्राणि भूतादौ लीयन्ते । भूतादिर्महति लीयते । महानव्यक्ते लीयते । अव्यक्तमक्षरे लीयते । अक्षरं तमसि लीयते । तमः परे देव एकीभवती " तथा " यस्य पृथिवी शरीरं यस्यापश्शरीरं यस्य तेजशारीरं यस्य वायुश्शरीरं यस्याकाशः शरीरं यस्याहङ्कारः शरीरं यस्य बुद्धिशारीरं यस्याव्यक्तं शरीरं यस्याक्षरं शरीरं यस्य मृत्युः शरीरम् एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः " तथा “भूमिरापोऽनलो वायुः खं मनो बद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा । अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्य्यते जगत् । एतद्योनीनि भूतानि

सर्वाणीत्युपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव " इति । " व्यक्तं विष्णुस्तथाऽव्यक्तं पुरुषः काल एव च " इति , “प्रकृतियर्या मयाऽऽख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्युभावेतौ लीयते परमात्मनि । परमात्मा च सर्वेषामाधारः परमेश्वरः । विष्णुनामा स वेदेषु वेदान्तेषु च गीयते " इति च ॥ 1.4.3 ॥

यदि तन्त्रसिद्धमिहाव्यक्तमविवक्षिष्यत्, तदास्य ज्ञेयत्वमविवक्षिष्यत; व्यक्ताव्यक्तज्ञविज्ञानान्मोक्षं वदद्भितान्त्रकैतेषां सर्वेषां ज्ञेयत्वाभ्यपगमात् , न चास्य ज्ञेयत्मुच्यते ; अतो न तन्त्रसिद्धस्येह ग्रहणम् ॥ 4 ॥

अशब्दमस्पर्शमरूपमव्ययं तथाऽतसं नित्यमगन्धवच्च यत् । अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते " इत्यव्यक्तस्य ज्ञेयत्वमन्तरमेव वदतीं श्रुतिरिति चेत्- तन्न , प्राज्ञः परमपुरुष एव ह्यत्र श्लोके निवाय्यत्वेन प्रतिपाद्यते “विज्ञानसारथियर्यस्तु मनः प्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् । “एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वग्रयया बुध्या सूक्ष्मया सूक्ष्मदर्शिभिः " इति प्राज्ञस्यैव प्रकृतत्वात् ; अत एव “पुरुषान्न परं किञ्चित् " इति न पञ्चविंशकपुरुषातिरिक्तत्त्वनिषेधः । तस्य च परमपुरुषस्य

अशब्दत्वादयो धर्माः " यत्तदद्रेश्यमग्राह्यम् " इत्यादिश्रुतिप्रसिद्धाः । " महतः परम् " इत्यपि “बुद्धेरात्मा महान्

परः " इति पूर्वप्रकृताज्जीवात्मनः परत्वमेवोच्यते ॥ 5 ॥

अस्मिन् प्रकरणे ह्युपायोपेयोपेतॄणां त्रयाणामेव चैवमुपन्यासः ज्ञेयत्वेनोपन्यासस्तविषयश्च प्रश्नो दृश्यते, नान्यस्याव्यक्तादः । तथाहि ; नचिकेता मुमुक्षुस्सन् मृत्युप्रदत्ते वरत्रये प्रथमेन वरेणात्मनः पुरुषार्थयोग्यतापादिनीमात्मनि पितुस्सुमनस्कतां प्रतिलभ्य द्वितीयेन वरेण मोक्षोपायभूतां नाचिकेताग्निविद्यां वव्रे , " स त्वमग्निं स्वर्ग्यमध्येपि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम् । स्वर्गलोका अमृतत्वं भजन्त एतद्द्वितीयेन वृणे वरेण " इति । स्वर्गशब्देन अत्र परमपुरुषार्थलक्षणोमोक्षः अभिधीयते, " अमृतत्वं भजन्ते " इति तत्रस्थस्य जननमरणा

भावश्रवणादुत्तरत्र, क्षयिफलकर्मनिन्दादर्शनाच्च; “त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत्तरति जन्ममृत्यू " इति च प्रतिवचनात् । तृतीयेन वरेण मोक्षस्वरूपप्रश्नद्वारेणोपेयस्वरूपमुपेतृस्वरूपमुपयाभूत कर्म्मानुगृहीतोपासनस्वरूपञ्च पृष्ठम्, “येयं प्रते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः " इति । एवं मोक्षे पृष्टे तदुपदेशयोग्यतां परीक्ष्योपदिदेश, “तुं दुदर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वाधीरो हर्षशोकौ जहाति " इति, तदेवं सामान्येनोपदिष्टे नचिकेताः प्रीतः सन् देवं मत्वा” इत्युपास्यतया निर्दिष्ठस्य प्राप्तभूतस्य देवस्य “अध्यात्मयोगाधिगमेन " इति वेदितव्यतया निर्दिष्टस्य प्रप्तुः प्रत्यगात्मनश्च “मत्वा धीरो हर्षशोकौ जहाति " इति निर्दिष्टस्य ब्रह्मोपासनस्य च स्वरूपविरोधनाय पुनः पप्रच्छ “अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताद्भव्याच्च यत्तत्पश्यसि

तद्वद " इति । एवं सकलेतरातीतानागतवर्त्तमानसाध्यसाधनसाधकविलक्षणे त्रये पृष्टे । प्रथमं प्रणवं प्रशस्य तद्वाच्यं प्राप्यस्वरूपं , तदन्तर्गतञ्च प्रप्तृस्वरूपं, वाचकरूपं चोपायं पुनरपि सामान्येन ख्यापयन् प्रणवं

तावदुपदिदेश “सर्वे वेदा यत्पदमामनन्ति तपा†सि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्य्यं चरन्ति तत्ते

पदं सङ्ग्रहेण ब्रवीम्योमित्येतत् " इति । एवमुपदिश्य पुनरपि प्रणवं प्रशस्य प्रथमं तावत् प्राप्तुः प्रत्यगात्मनः स्वरूपमाह “न जायते म्रियते वा विपश्चित् " इत्यादिना । प्राप्यस्य परस्य ब्रह्मणो विष्णोः स्वरूपम् " अणोरणीयान् " इत्यादिना “क इत्था वेद यत्र सः” इत्यन्तेनोपदिशन्मध्ये “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन " इत्यादिनोपायभूतस्योपासनस्य भक्तिरूपतामप्याह । “ऋतं पिबन्तौ " इति चोपास्यस्योपासकेन

सहावस्थानात्सूपासतामुक्तवा “आत्मानं रथिनं विद्धि " इत्यादिना “दुर्गं पथस्तत्कवयो वदन्ति " इत्यन्तेनोपासनप्रकारमुपासीनस्य च वैष्णवपरमपदप्राप्तिमभिधाय “अशब्दमस्पर्शम् " इत्यादिनोपसंहृतम् ; अतस्त्रयाणामेव

अत्र ज्ञेयत्वेनोपन्यासः प्रश्नश्च , तस्मान्नेह तान्त्रिकस्याव्यक्तस्य ग्रहणम् ॥ 6 ॥

यथा “बुद्धेरात्मा महान् परः” इत्यत्रात्मशब्दसामानाधिकरण्यान्न तन्त्रसिद्धं महत्तत्त्वं गृह्यते ; एवमव्यक्रमप्यात्मनः परत्वेनाभिधानान्न कापिलतन्त्रसिद्धं गृह्यत इति स्थितम् ॥