27 अर्थान्तरत्वादिव्यपदेशाधिकरणम्

छान्दोग्ये श्रूयते, “आकाशो वै नाम नामरूपयोर्निवर्हिता, ते यदन्तरा । तद्ब्रह्म तदमृतं स आत्मा” इति । तत्र संशयः- किमयमाकाशशब्दनिर्दिष्टो मुक्तात्मा, उत परमात्मा इति । किं युक्तम् ? मुक्तात्मेति । कुतः ?

“अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य । धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामि” इति मुक्तस्यानन्तरप्रकृतत्वात्; “ते यदन्तरा” इति च नामरूपविनिर्मुक्तस्य तस्याभिधानात् । “नामरूपयोर्निर्वहिता” इति च स एव पूर्वावस्तयोपलिलक्षयिषितः । स एव हि देवादिरूपाणि नामानि च पूर्वमबिभः(भूत) । तस्यैव नामरूपविनिर्मुक्ता साम्प्रतिकी अवस्था, “तद्ब्रह्म तदमृतम्” इत्युच्यते । आकाशशब्दश्च तस्मिन्नपि असङ्कुचितप्रकाशयोगादुपपद्यते । ननु दहरवाक्यशेषत्वादस्य स एव दहराकाशोऽयमिति प्रतीयते; तस्य च परतमात्मत्वं निर्णीतम् । मैवम्- प्रजापतिवाक्यव्यवधानात् । प्रजापतिवाक्ये च प्रत्यगात्मनो मुक्त्यवस्थान्तं रूपमभिहितम्; अनन्तरं च, “विधूय पापम्” इति स एव मुक्तावस्थः प्रस्तुतः । अतोऽत्राकाशो मुक्तात्मा

इति प्राप्ते उच्यते- आकाशोऽर्थान्तरत्वादिव्यपदेशात् इति । आकाशः परं ब्रह्म; कुतः ? अर्थान्तरत्वादि व्यपदेशात् । अथर्ान्तरत्वव्यपदेशस्तावत्- “आकाशो ह वै नामरूपयोर्निर्वहिता” इति । नामरूपयोर्निर्वोढृत्वं बद्धमुक्तोभयावस्थात् प्रत्यगात्मनोऽर्थान्तरत्वमाकाशस्योपपादयति । बद्धावस्थः स्वयं कर्मवशात् नामरूपे भजमानो न नामरूपे निर्वोढुं शक्युयात्;मुक्तावस्थस्य जगद्वयापारासंभवात् नेतरां नामरूपनिर्वोढृत्वम्; ईश्वरस्य तु सकलजगन्निर्माणधुरन्धरस्य नामरूपयोर्निर्वोढृत्वं श्रुत्यैव प्रतिपन्नम्, “अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि”, “यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः । तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायते”, “सर्वाणि रूपाणि विचित्यधीरो नामानि कृत्वाऽभिवदन् यदास्ते” इत्यादिषु । अतो निर्वाह्यनामरूपात् प्रत्यगात्मनो नामरूपयोर्निर्वोढाऽयमाकाशोऽर्थान्तरभूतः परमेव ब्रह्म । तदेवोपपादयति, “ते यदन्तरा”

इति । यस्मादयमाकाशो नामरूपे अन्तराताभ्यामस्पृष्टोऽर्थान्तरभूतः । तस्मात् तयोः निर्वोढा(निर्वहिता?) अपहतपाप्मत्वात् सत्यसङ्कल्पत्वाच्च निर्वहिते (निर्वोढ?)त्यर्तः । आदिशब्देन ब्रह्मत्वात्मत्वामृत्वानि गृह्यन्ते । निरुपाधिकबृहत्त्वादयो हि परमात्मन एव संभवन्ति; तेनात्राऽऽकाशः परमेव ब्रह्म । यत् पुनरुक्तम्, “धूत्वा शरीरम्” इति मुक्तोऽनन्तरप्रकृतः इति- तन्न; “ब्रह्मलोकमभिसंभवामि” इति परस्यैव ब्रह्मणोऽनन्तरप्रकृतत्वात् । यद्यपि अभिसंभवितुर्मुक्तस्याभिसंभाव्यतया परं ब्रह्म निर्दिष्टम्, तथापि अभिसंभवितुमर्ुक्तस्य नामरूपनिर्वोढृत्वाद्यसंभवादभिसंभाव्यं परमेव ब्रह्म तत्र प्रत्येतव्यम् ।

किञ्च आकाशशब्देन प्रकृतस्य दहराकाशस्यात्र प्रत्यभिज्ञानात्, प्रजापतिवाक्यस्याप्युपासकस्वरूपकथनार्थत्वात् उपास्य एव दहराकाशः प्राप्यतयेहोपसंह्रियत इति युक्तम् । आकाशशब्दश्च प्रत्यगात्मनि न क्वचित् दृष्टचरः । अतोऽत्राकाशः परं ब्रह्म ।

अथ स्यात्- प्रत्यगात्मनोऽर्थान्तरभूतमात्मान्तरमेव नास्ति; ऐक्योपदेशात्, द्वैतप्रतिषेधाच्च । शुद्धावस्थ एव हि प्रत्यगात्मा, परमात्मा परं ब्रह्म परमेश्वर इति च व्यपदिश्यते; अतः प्रकृतात् मुक्तात्मनोऽभिसंभवितु र्नार्थान्तरमभिसंभाव्यो ब्रह्मलोकः । अतो नामरूपयोः निर्वहिता आकाशोऽपि स एव भवितुमर्हति इति । अत उत्तरं पठति- । 42 ॥

व्यपदेशादिति वर्तते । सुषुप्त्युत्क्रान्त्योः प्रत्यगात्मनोऽर्थान्तरत्वेन परमात्मनो व्यपदेशात् प्रत्यगात्मनोऽर्थान्तरभूतः परमात्माऽस्त्येव । तथा हि वाजसनेयके, “कतम आत्मेति । योऽयं विज्ञानमयः प्राणेषु” इति प्रकृतस्य प्रत्यगात्मनः सुषुप्त्यवस्थायाम् अकिञ्चिज्ज्ञस्य सर्वज्ञेन परमात्मना परिष्वङ्ग आम्नायते- “प्राज्ञेनाऽऽत्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद, नान्तरम्” इति । तथोत्क्रान्तावपि, “प्राज्ञेनाऽऽत्मनाऽऽन्वारूढ उत्सर्जन् याति” इति । न च स्वपतः उत्क्रामतो वाऽकिञ्चिज्ज्ञास्य तदानीमेव स्वेनैव सर्वज्ञेन सता परिष्वङ्गान्वारोहौ संभवतः । न च क्षेत्रज्ञान्तरेण; तस्यापि

सर्वज्ञत्वासंभवात् । इतश्च प्रत्यगात्मनोऽर्थान्तरभूतः परमात्मेत्याह- ॥ 43 ॥

अयं परिष्वञ्जकः परमात्मा उत्तरत्र पत्यादिशब्दैर्व्यपदिश्यते, “सर्वस्याधिपतिः”, “सर्वस्य वशी सर्वस्येशानः”, “स न साधुना कर्मणा भूयान् नो एवासाधुना कनीयान् । एष सर्वेश्वर एष भुताधिपतिरेष भूतपालः एष सेतुर्विधरण एषां लोकानामसंभेदाय । तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति…एतमेव विदित्वा मुनिर्भवति । एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति”, “स,वा एष महान् अज आत्माऽन्नादो वसुदानः”, “अज

रोऽमृतोऽभयो ब्रह्म” इति । एते च पतित्वजगद्विधरणत्वसर्वेश्वरत्वादयः प्रत्यगात्मनि मुक्तावस्थेऽपि न कथञ्चित् संभवन्ति । अतो मुक्तात्मनोऽर्थान्तरभूतो नामरूपयोर्निवर्हिताऽऽकाशः । ऐक्योपदेशस्तु सर्वस्य चिदचिदात्मकस्य ब्रह्मकार्यत्वेन तदात्मकत्वायत्त इति, “सर्वे खल्विदं ब्रह्म तज्जलान्” इत्यादिभिर्वाक्यैः प्रतिपाद्यत इति पूर्वमेव समथिर्तम् । द्वैतप्रतिषेधश्च तत एवेत्यनवद्यम् ॥ 43 ॥ इति अर्थान्तरत्वादिव्यपदेशाधिकरणम् ॥